Templesinindiainfo

Best Spiritual Website

Dharmavyadha Gita Lyrics in Hindi

Dharmavyadha Geetaa or Vana Parva of Mahabharata in Hindi:

॥ धर्मव्याधगीता ॥
॥ अथ धर्मव्याधगीता ॥

व्याध उवाच –
विज्ञानार्थं मनुष्याणां मनः पूर्व प्रवर्तते ।
तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम ॥ १ ॥

ततस्तदर्थं यतते कर्म चारभते महत् ।
इष्टानां रूपगन्धानामभ्यासं च निषेवते ॥ २ ॥

ततो रागः प्रभवति द्वेषश्च तदनन्तरम् ।
ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥ ३ ॥

ततो लोभाभिभूतस्य रागद्वेषहतस्य च ।
न धर्मे जायते बुद्धिर्व्याजाद्धर्म करोति च ॥ ४ ॥

व्याजेन चरते धर्ममर्थं व्याजेन रोचते ।
व्याजेन सिद्धमानेषु धनेषु द्विजसत्तम ॥ ५ ॥

तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति ।
सुत्दृद्भिःर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम ॥ ६ ॥

उत्तरं श्रुतिसम्बद्धं ब्रवीत्यश्रुतियोजितम् ।
अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः ॥ ७ ॥

पापं चिन्तयते चैव बवीति च करोति च ।
तस्याधर्मप्रवृत्तस्य गुण नश्यन्ति साधवः ॥ ८ ॥

एकाशीलैश्च मित्रत्वं भजन्ते पापकर्मिणः ।
सतेन दुःखमाप्नोति परत्र च विपद्यते ॥ ९ ॥

पापात्मा भवति ह्येवं धर्मलाभं तु मे श्रुणु ।
यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ॥ १० ॥

कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते ।
तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु राजते ॥ ११ ॥

इदं विश्वं जगत्सर्वमजय्यं चापि नित्यशः ।
महाभूतात्मकं ब्रह्म नातः परतरं भवेत् ॥ १२ ॥

ब्राह्मण उवाच –
सत्त्वस्य रजसश्चैव तमसश्च यथातथम् ।
गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥ १३ ॥

व्याध उवाच –
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि ।
एषां गुणान् पृथक्त्वेन निबोध गदतो मम ॥ १४ ॥

मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् ।
प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते ॥ १५ ॥

अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः ।
दुर्त्दृषीकस्ततोध्यस्तः सक्रोधस्तामसोऽलसः ॥ १६ ॥

प्रवृत्तवाक्यो मन्त्री च यो नराग्र्योऽनसूयकः ।
विधित्समानो विप्रर्षे स्तब्धो मानी स राजसः ॥ १७ ॥

प्रकाशबहुलो धीरो निर्विधित्सोऽनसूयकः ।
अक्रोधनो नरो धीमान् दान्त्रश्चैव स सात्त्विकः ॥ १८ ॥

इति धर्मव्याधगीता समाप्ता ॥

Also Read:

Dharmavyadha Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Dharmavyadha Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top