Templesinindiainfo

Best Spiritual Website

Guha Gita Lyrics in Hindi

Guha Geetaa in Hindi:

॥ गुहगीता ॥
अथ गुहगीता प्रारम्भः ।
अथ प्रथमोऽध्यायः
मनोविकारः
विप्रा ऊचुः-
सूतपुत्र महाप्राज्ञ कथकोऽसि दयाकर ।
गुहगीतां च नो वक्तुं त्वमेवार्हसि चानघ ॥ १.१ ॥

सूत उवाच-
कुतुकी गुहगीतायाः श्रवणे तत्परो मुनिः ।
कर्मयोगी हिडिम्भं च प्रार्थयन् प्रत्यहं स्थितः ॥ १.२ ॥

श्रान्तोऽसि किं वा श्रोतुं मे चारित्रं वच्मि सादरम् ।
वदन्नेवं हिडिम्भश्चाप्यागतः पुनरेकदा ॥ १.३ ॥

मुनिरुवाच-
सत्कारं स्वीकुरुष्वाद्य गुहगीतां दयानिधे ।
हिडिम्भ ब्रूहि मे वक्ता त्वमेव खलु भक्तराट् ॥ १.४ ॥

हिडिम्भ उवाच-
बहुधा सेवितः स्वामी मया भिक्षुः षडाननः ।
प्रसादमकरोत् दिव्यकरुणापाङ्गतो मयि ॥ १.५ ॥

तदाऽहं सभयं भक्त्या सहितः प्रणमन् गुरो ।
किं त्वया निहता भिक्षो पूर्वजा मम चान्वये ॥ १.६ ॥

किमहं रक्षितश्चास्मि त्वया तत्कारणं वद ।
न मन्ये त्वां विना ह्यन्यं मत्सन्देहनिवारकम् ॥ १.७ ॥

श्रीभिक्षुरुवाच-
प्रशिष्योऽसि हिडिम्भ त्वं साक्षात् शिष्यश्च पार्षदः ।
हन्त ते कथयिष्यामि तत्त्वं श‍ृणु समाहितः ॥ १.८ ॥

अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १.९ ॥

अहिंसा सत्यमक्रोधः त्यागश्शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्तिः मार्दवं ह्रीरचापलम् ॥ १.१० ॥

तेजः क्षमा धृतिः शौचं अद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीं अभिजाते हिडिम्भक ॥ १.११ ॥

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातेषु सम्पदं राक्षसीं बत ॥ १.१२ ॥

ते पूर्वजाः शूरमुख्या अभिजाताश्च राक्षसीम् ।
प्रवृत्तिं च निवृत्तिं च न जानन्ति हि राक्षसाः ॥ १.१३ ॥

न शौचं न सदाचारो न सत्यं तेषु विद्यते ।
प्रभूता ह्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १.१४ ॥

कामोपभोगपरमाः क्रोधोपात्तबलाधिकाः ।
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥ १.१५ ॥

ईश्वरोऽहमहं भोगी कोऽन्योस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्ये इत्यज्ञानविमोहिताः ॥ १.१६ ॥

मयैव निहताः पूर्वे लोकरक्षेच्छया किल ।
मा शुचः सम्पदं दैवीं अभिजातोऽस्यनामयः ॥ १.१७ ॥

पुण्यपुञ्जप्रभावोऽसि गुरुणा कुम्भजन्मना ।
मयैव सञ्जीवितोऽसि निहतोऽपि हिडिम्भक ॥ १.१८ ॥

आर्तोऽसि जिज्ञासुरसि ज्ञानी चासि हिडिम्भक ।
मत्सेवार्थ्यसि का चिन्ता सुखी भव निरन्तरम् ॥ १.१९ ॥

हिडिम्भ उवाच-
तदा मे सद्गुरोर्भिक्षोः उक्तदिव्योपदेशतः ।
मत्पूर्विकमहाभोगभाग्यवैभवसंसृतेः ॥ १.२० ॥

आनन्दबाष्पा उद्रिक्ताः साकं दुःखाश्रुभिर्बत ।
निर्विण्णोऽहं स्वयं बुद्धो निश्चेष्टोऽस्मि ततो गुरोः ॥ १.२१ ॥

भिक्षुरुवाच-
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
गतासूनगतांसूंश्च नानुशोचति तत्ववित् ॥ १.२२ ॥

नत्वेवाहं जातु नासं न त्वं नेमे त्वदग्रजाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ १.२३ ॥

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १.२४ ॥

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ॥ १.२५ ॥

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १.२६ ॥

अच्छेद्योऽयमदाह्योऽयं अक्लेद्योऽशोष्य एव च ।
नित्यस्सर्वगतः स्थाणुः अचलोऽयं सनातनः ॥ १.२७ ॥

अव्यक्तोऽयं अचिन्त्योऽयं अविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ १.२८ ॥

यदिदं दृश्यते सर्वं जगत् स्थावरजङ्गमम् ।
तत् सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ॥ १.२९ ॥

ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः ।
कल्पिता व्यवहारार्थं यस्य सञ्ज्ञा महात्मनः ॥ १.३० ॥

यथा कटकशब्दार्थः पृथग्भावो न काञ्चनात् ।
न हेमकटकात् तद्वत् जगत् शब्दार्थता परे ॥ १.३१ ॥

तेनेयमिन्द्रजाल क्रीडागतिः प्रवितन्यते ।
द्रष्टुर्दृश्यस्य सत्तान्तः बन्ध इत्यभिधीयते ॥ १.३२ ॥

दृष्ट्वा दृश्यवशात् बद्धो दृश्याभावे विमुच्यते ।
जगत्त्वमहमित्यादि सर्गात्मा दृश्यमुच्यते ॥ १.३३ ॥

मनस्तेनेन्द्रजलश्रीः जगती प्रवितन्यते ।
यावदेतत् सम्भवति तावन्मोक्षो न विद्यते ॥ १.३४ ॥

ब्रह्मणा तन्यते विश्वं मनसैव स्वयम्भुवा ।
मनोमयमतो विश्वं यन्नाम परिदृश्यते ॥ १.३५ ॥

न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।
यदर्थं प्रतिभानं तत् मन इत्यभिधीयते ॥ १.३६ ॥

सङ्कल्पनं मनो विद्धि सङ्कल्पस्तत्र विद्यते ।
यत्र सङ्कल्पनं तत्र मनोऽस्तीत्यवगम्यताम् ॥ १.३७ ॥

सङ्कल्पमनसी भिन्ने न कदाचन केनचित् ।
सङ्कल्पजाते गलिते स्वरूपमवशिष्यते ॥ १.३८ ॥

अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसम्भ्रमे ।
स्यात् तादृशी केवलता दृश्ये सत्तामुपागते ॥ १.३९ ॥

महाप्रलय सम्पत्तौ ह्यसत्तां समुपागते ।
अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते ॥ १.४० ॥

मनसा भाव्यमानो हि देहतां याति देहकः ।
मनोविलासः संसार इति मे निश्चिता मतिः ॥ १.४१ ॥

अन्तःकरणसद्भावस्त्वविद्यायाश्च सम्भवः ।
अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ॥ १.४२ ॥

जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ।
उपाधिनाशाद्ब्रह्मैव स ब्रह्माप्नोति निर्भयम् ॥ १.४३ ॥

तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् ।
विदित्वा स्वात्मनो रूपं मा बिभेस्त्वं कदाचन ॥ १.४४ ॥

सर्वं च खल्विदं ब्रह्म नित्यं चिद्घनमक्षतम् ।
कल्पनाऽन्या मनोनाम्नी विद्यते नहि काचन ॥ १.४५ ॥

न जायते न म्रियते किञ्चिदत्र जगत्त्रये ।
न च भावविकाराणां सत्ता कचन विद्यते ॥ १.४६ ॥

नाहं मांसं न चास्थीनि देहादन्यः परोऽस्म्यहम् ।
इति निश्चितवानन्तः क्षीणाविद्यो विमुच्यते ॥ १.४७ ॥

मा भवाज्ञो भव ज्ञस्त्वं जहि संसारभावनाम् ।
अनात्मन्यात्मभावेन किमज्ञ इव रोदषि ॥ १.४८ ॥

कस्तवायं जडो मूको देहो मांसमयोऽशुचिः ।
यदर्थं सुखदुःखाभ्यां अवशः परिभूयसे ॥ १.४९ ॥

अङ्गान्यङ्गैरिवाक्रम्य जयेदादौ स्वकं मनः ।
मनसो विजयान्नान्या गतिरस्ति भवार्णवे ॥ १.५० ॥

प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ।
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥ १.५१ ॥

विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च ।
इन्द्रियारीनलं छित्वा तीर्णो भव भवार्णवात् ॥ १.५२ ॥

यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु ।
त्वमेव परमात्मासि त्वं ब्रह्मासि न संशयः ॥ १.५३ ॥

इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां
अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे
मनोविकारो नाम प्रथमोऽध्यायः ॥ १ ॥

अथ द्वितीयोऽध्यायः
सर्वत्र समभावना
श्रीभिक्षुरुवाच-
अन्तरास्थां परित्यज्य भावश्रीं भावनामयीम् ।
योऽसि सोऽसि जगत्यस्मिन् लीलया विहरानघ ॥ २.१ ॥

सर्वत्राहं अकर्तेति दृढभावनयाऽनया ।
परमामृतनाम्नी सा समतैवावशिष्यते ॥ २.२ ॥

खेदोल्लासविलासेषु स्वात्मकर्तृतयैकया ।
स्वसङ्कल्पे क्षयं याते समतैवावशिष्यते ॥ २.३ ॥

समता सर्वभूतेषु यासौ सत्यपरा स्थितिः ।
तस्यां अवस्थितं चित्तं न भूयो जन्मभाग्भवेत् ॥ २.४ ॥

अथवा सर्वकर्तृत्वं अकर्तृत्वं तथैव च ।
सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव ॥ २.५ ॥

शेषस्थिरसमाधानो येन त्यजसि तत्त्यज ।
चिन्मनः कलनाकारं प्रकाशतिमिरादिकम् ॥ २.६ ॥

वासनां वासितारं च प्राणस्पन्दनपूर्वकम् ।
समूलमखिलं त्यक्त्वा व्योमसाम्यः प्रशान्तधीः ॥ २.७ ॥

हृदयात्सम्परित्यज्य वासनापङ्क्तयोऽखिलाः ।
यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥ २.८ ॥

दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या दिशो दश ।
युक्त्या वै चरतोऽज्ञस्य संसारो गोष्पदाकृतिः ॥ २.९ ॥

सबाह्याभ्यन्तरे देहे ह्यध ऊर्ध्वं च दिक्षु च ।
इत आत्मा ततोऽप्यात्मा नास्त्यनात्ममयं जगत् ॥ २.१० ॥

न तदस्ति न यत्राहं न तदस्ति न तन्मयम् ।
किमन्यत् अभिवाञ्छामि सर्वं सच्चिन्मयं ततम् ॥ २.११ ॥

समस्तं खल्विदं ब्रह्म परमात्मेदमाततम् ।
अहमन्यत् इदं चान्यत् इति भ्रान्ति त्यजानघ ॥ २.१२ ॥

ततो ब्रह्मघने नित्ये सम्भवन्ति न कल्पिताः ।
न शोकोऽस्ति न मोहोऽस्ति न जराऽस्ति न जन्म च ॥ २.१३ ॥

यदस्तीह तदेवास्ति विज्वरो भव सर्वदा ।
यया प्राप्तानुभवतः सर्वत्रानभिवाञ्छनात् ।
त्यागादान परित्यागी विज्वरो भव सर्वदा ॥ २.१४ ॥

न वर्णाश्रमाचारधर्माः कुतस्ते
न पुण्यं न पापं न धर्मोऽप्यधर्मः ।
न पूज्योऽप्यपूज्यः सदाऽऽनन्दभावं
परं ब्रह्म साक्षात् त्वमेवासि तात ॥

हिडिम्भ उवाच-
एवमुक्त्वा विसृष्टोऽहं ब्रह्मसाक्षात्कृतिं ददौ ।
तदादि ब्रह्मभावेन स्थितोऽहं गतकल्मषः ॥ २.१६ ॥

ब्रह्माकाराकारितान्तर्वृत्तिः कल्पितवानहम् ।
सर्वं सुब्रह्मण्यमयं जगद्भाति न संशयः ॥ २.१७ ॥

वाचामगोचरं दिव्यं मनोऽतीतं महाद्युतिम् ।
तद्ब्रह्मानुभवं पूर्णानन्दं वक्तुं न शक्यते ॥ २.१८ ॥

तूष्णीं स्थित्वा भिक्षुणा सम्बोधितोऽहं प्रणम्य तम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ २.१९ ॥

तवैवानुग्रहेणाहं सच्चिदानन्दमात्रकः ।
किं वा वक्तुं न शक्नोमि भगवन् तव सन्निधौ ॥ २.२० ॥

एवं गद्गदया वाचाऽप्यपृच्छं भिक्षुमव्ययम् ।
कृताञ्जलिपुटो भूत्वा नमस्कृत्य पुनःपुनः ॥ २.२१ ॥

स्थाने भिक्षो तवोक्त्याऽहं ध्यात्वा त्वामेव सन्ततम् ।
जीवन्मुक्तोऽस्मि तादात्म्यनिश्चयादेव षण्मुख ॥ २.२२ ॥

वर्णाश्रमाचारधर्माः किमर्थं वेदचोदिताः ।
तैर्बद्धाः कीदृशा लोके मुक्ताः कीदृग्विधा अपि ॥ २.२३ ॥

श्रीभिक्षुरुवाच-
हन्त ते कथयाम्यद्य तत्त्वं श‍ृणु सनातनम् ।
अविद्योपाधिनाऽशान्तप्राणिनो जगति स्थिताः ॥ २.२४ ॥

वर्णाश्रमादिधर्माश्च सुकृतं दुष्कृतं तथा ।
साप्यविद्याऽनेकजन्मवासनापिहिता मता ॥ २.२५ ॥

नादिरन्तोऽस्ति तस्यास्तु ब्रह्मज्ञानेन केवलम् ।
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ॥ २.२६ ॥

सर्वं ब्रह्मैवेति मतिः स महात्मा सुदुर्लभः ।
पुराऽपृच्छदगस्त्योऽपि प्रणम्य पितरं मम ॥ २.२७ ॥

वर्णाश्रमादिधर्मास्तु कथम्भूता विभो इति ।
तदहं सङ्ग्रहेणैव वच्मि श‍ृणु सनातनम् ॥ २.२८ ॥

सहस्रशीर्षे भगवान् स्थितो नारायणाभिधः ।
क्षीराब्धौ चिन्तयन् शम्भुं शङ्करं शिवमव्ययम् ॥ २.२९ ॥

कदाचित् पङ्कजं दिव्यं तरुणादित्यसन्निभम् ।
तस्य सुप्तस्य देवस्य नाभ्यां जातं महत्तरम् ॥ २.३० ॥

हिरण्यगर्भो भगवान् ब्रह्मा विश्वजगत्पतिः ।
आस्थाय परमां मूर्तिं तस्मिन् पद्मे समुद्बभौ ॥ २.३१ ॥

शिवाज्ञया तस्य पूर्ववासनासहितान्मुखात् ।
ब्रह्मणा ब्राह्मणस्त्रीभिः सहजाता हिडिम्भक ॥ २.३२ ॥

तस्य हस्तात् सह स्त्रीभिः जज्ञिरे शङ्कराज्ञया ।
स्वस्त्रीषु स्वस्वधर्मेण मार्गेणोत्थः स्वभुर्भवेत् ॥ २.३४ ॥

अपरासूत्तमाज्जातः त्वनुलोमः प्रकीर्तितः ।
उत्तमास्वपराज्जातः प्रतिलोम इति स्मृतः ॥ २.३५ ॥

वर्णस्त्रीषु अनुलोमेन जातस्स्यादान्तरालिकः ।
वर्णासु प्रतिलोमेन जातो व्रात्य इति स्मृतः ॥ २.३६ ॥

ब्राह्मण्यां सधवायां यो ब्राह्मणेनैव मोहतः ।
जातश्चैर्येण कुण्डोऽसौ विधवायां तु गोलकः ॥ २.३७ ॥

एवमेवानुलोमाश्च प्रतिलोमाश्च जातयः ।
उच्चावचप्रपञ्चेऽस्मिन् बह्व्यो जाता हि कामतः ॥ २.३८ ॥

वर्णानामाश्रमाः प्रोक्ता मुनिभिश्च सनातनैः ।
तेषां वर्णाश्रमस्थानां वेदकिङ्करता सदा ॥ २.३९ ॥

चक्षुरादिप्रियाणां च भेदो लोकिपकारकः ।
तद्वद्वर्णाश्रमादीनां भेदो लोकिपकारकः ॥ २.४० ॥

षण्णां रसानां भेदोऽस्ति यथा जिह्वोपकारकः ।
तथा वर्णाश्रमादीनां भेदो लोकिपकारकः ॥ २.४१ ॥

यथा भाक्ष्यविशेषाणां भेदो भोक्तुः प्रयोजकः ।
तथा वर्णाश्रमादीनां भेदो लोकप्रयोजकः ॥ २.४२ ॥

यथा तरुलतादीनां भेदः फलसमृद्धिदः ।
तथा वर्णाश्रमादीनां भेदः फलसमृद्धिदः ॥ २.४३ ॥

यथा बहूनां लोहानां भेदः कर्मसमृद्धिदः ।
तथा वर्णाश्रमादीनां भेदः कर्मसमृद्धिदः ॥ २.४४ ॥

यथा रत्नादिपाषाणभेदो गौरवदायकः ।
तथा वर्णाश्रमादीनां भेदो गौरवदायकः ॥ २.४५ ॥

यथा पाकप्रभेदो हि देहस्यारोग्यदो भवेत् ।
तथा वर्णाश्रमादीनां भेदो लोकस्य सौख्यदः ॥ २.४६ ॥

यथा मृगाणां भेदो हि वनस्योल्लासको भवेत् ।
तथा वर्णाश्रमादीनां भेदो लोकस्य रञ्जकः ॥ २.४७ ॥

यथाऽलङ्कारभेदो हि लोकव्यावृत्तिसूचकः ।
तथा वर्णाश्रमादीनां भेदो व्यावृत्तिसूचकः ॥ २.४८ ॥

यथाऽनेकायुधानां च भेदो युद्धजयप्रदः ।
तथा वर्णाश्रमादीनां भेदो ज्ञानजयप्रदः ॥ २.४९ ॥

यथा बहूनां पुष्पाणां भेदो भोगसमृद्धिदः ।
तथा वर्णाश्रमादीनां भेदो धर्मसमृद्धिदः ॥ २.५० ॥

यथा शुक्लादिवर्णानां भेदः चक्षुःसुखङ्करः ।
तथा वर्णाश्रमादीनां भेदो जनसुखङ्करः ॥ २.५१ ॥

ततो वर्णाश्रमाचारे न वैरं परिकल्पयेत् ।
यदा वर्णाश्रमादीनां शात्रवं स्यात् परस्परम् ॥ २.५२ ॥

तदा लोकस्य संहारः स्वाङ्गैर्देहस्य नाशवत् ।
वर्णानामाश्रमाणां च सङ्करो धर्मनाशकः ॥ २.५३ ॥

मल्लोकपाशदोऽसि त्वं ततस्त्वां शिक्षयाम्यहम् ।
यदा वर्णाश्रमादीनां यत्र लोपः प्रजायते ॥ २.५४ ॥

तत्र स्थित्वा प्रसन्नस्त्वं धार्मिकावनदो भव ।
हिडिम्भ स्त्रीषु दुष्टासु जायते वर्णसङ्करः ॥ २.५५ ॥

स कालः कलिरित्युक्तो लोकधर्मविनाशकः ।
अदृशूला जनपदाः शिवशूलाः चतुष्पदाः ॥ २.५६ ॥

प्रमदाः केशशूलिन्यो जनकाः पाकशूलिनः ।
स्वदेहशूलिनः सर्वे प्रभवन्ति कलौ युगे ॥ २.५७ ॥

तस्मात् वर्णाश्रमादीनां रक्षको भव सन्ततम् ।
व्यावहारिकलोकेऽस्मिन् इदं कार्यं त्वया श‍ृणु ॥ २.५८ ॥

सर्वेषां कर्मणा जातिः नान्यथा कल्पकोटिभिः ।
पश्वादीनां यथा जातिः जन्मनैव च नान्यथा ॥ २.५९ ॥

साऽपि स्थूलस्य देहस्य भौतिकस्य न चात्मनः ।
तथापि देहेऽहम्मानात् आत्मा विप्रादिसञ्ज्ञितः ॥ २.६० ॥

स्वस्वरूपापरिज्ञानात् देहेऽहम्मान आत्मनः ।
अपरिज्ञानमप्यस्य चाविद्यावासनाबलात् ॥ २.६१ ॥

यस्यापरोक्षविज्ञानं अस्ति श्रीगुर्वनुग्रहात् ।
तस्य नास्ति नियोज्यत्वं इति मे निश्चिता मतिः ॥ २.६२ ॥

अस्ति चेत् ब्रह्मविज्ञानं स्त्रियो वा पुरुषस्य वा ।
वर्णाश्रमसमाचारः तस्य नास्त्येव सर्वदा ॥ २.६३ ॥

अविज्ञायात्मविज्ञानं ये स्ववर्णाश्रमादिकान् ।
त्यजन्ति मूढात्मानस्ते पतन्त्येव न संशयः ॥ २.६४ ॥

हिडिम्भ निस्संशयभावतस्त्वं
दृढं भजन्मां सुविहारको भव ।
मदङ्घ्रिभक्तस्य सदाऽस्तु निर्भयं
पुनश्च किं पृच्छसि मां महामते ॥ २.६५ ॥

इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां
अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे
सर्वत्र समभावनानाम द्वितीयोऽध्यायः ॥ २ ॥

अथ तृतीयोऽध्यायः
अज्ञानमूलम्
हिडिम्भ उवाच-
स्वामिन् रहस्यं मे ब्रूहि देवानां देहिनां विभो ।
यद्भावनाबलेनैव प्राणी मोक्षमवाप्नुयात् ॥ ३.१ ॥

श्रीभिक्षुरुवाच-
रहस्यं ते प्रवक्ष्यामि समासेन सविस्तरात् ।
श्रद्धया श‍ृणु शैरेय सर्वसिद्धिकरं परम् ॥ ३.२ ॥

सर्वेषां कारणं साक्षात् परतत्त्वमवस्थितम् ।
त्वगसृङ्मांसमेदोऽस्थिमज्जाषट्कौशिके स्वयम् ॥ ३.३ ॥

पाञ्चभौतिकदेहेऽस्मिन् शिवश्शिवतरोऽस्म्यहम् ।
शिवः पञ्चमुखोऽहन्तु षण्मुखस्तत उच्यते ॥ ३.४ ॥

आवयोरैक्यभावो हि मुक्तिहेतुर्हि प्राणिनाम् ।
शिवपञ्चमुखान्येव ब्रह्माण्डे पञ्चदेवताः ॥ ३.५ ॥

कार्यं ब्रह्मा महीभागे कायं विष्णुर्जलाशये ।
कार्यं रुद्रोऽग्निभागे च वाय्वंशे चेश्वरः परः ॥ ३.६ ॥

आकाशांशे शरीरस्य स्थितस्साक्षात् सदाशिवः ।
शरीरस्य बहिर्भागे विराडात्मा स्थितस्सदा ॥ ३.७ ॥

अन्तर्भागे स्वराडात्मा सम्राड्देहस्य मध्यमे ।
ज्ञानेन्द्रियेषु मनसि श्रोत्रादिषु च पञ्चसु ॥ ३.८ ॥

मम षड्वदनान्येव ग्लौदिग्वाय्वर्कवार्वराः ।
भूमिश्च कायभूताः स्युः पञ्चहस्तो गणेश्वरः ॥ ३.९ ॥

कर्मेन्द्रियस्वरूपश्च पादपाण्यादिषु क्रमात् ।
त्रिविक्रमेन्द्र वह्व्याख्याः कायभूताः प्रजापतिः ॥ ३.१० ॥

मित्रश्चापि तथा प्राणे सूत्रात्मा सुस्थितस्सदा ।
चतुर्मुखोऽन्तः करणे तदवस्थासु च क्रमात् ॥ ३.११ ॥

चन्द्रमा मनसि प्रोक्तो बुद्धौ तु स बृहस्पतिः ।
अहङ्कारे च कालाग्निः रुद्रश्चित्ते शिवः स्थितः ॥ ३.१२ ॥

भूतप्रेतपिशाचाद्याः देहस्यास्थिषु संस्थिताः ।
मज्जाख्ये पितृगन्धर्वाः रोमसु क्षुद्रदेवताः ॥ ३.१३ ॥

सर्वाश्च राक्षसाश्चैव स्थिताः स्नायुषु सर्वशः ।
वर्तन्ते देवतास्सर्वाः देहेऽस्मिन्नेव संस्थिताः ॥ ३.१४ ॥

त्रिमूर्तिनां तु यो ब्रह्मा तस्य घोराभिधा तनुः ।
दक्षिणाक्षिणि जन्तूनां शान्ताख्या च तनुस्तथा ॥ ३.१५ ॥

वर्तन्ते वामनेत्रे चाप्यन्तर्भागे तयोः पुनः ।
बहिर्भागे सूर्यचन्द्रौ वर्तेते कन्धरे तथा ॥ ३.१६ ॥

त्रिमूर्तीनां तु यो विष्णुः शान्तो घोरोऽन्ततो बहिः ।
त्रिमूर्तीनां तु यो रुद्रः शान्तो घोरोऽन्ततो बहिः ॥ ३.१७ ॥

चिच्छक्तिः परमा देहमध्ये कुण्डलिनी स्थिता ।
मायाशक्तिर्ललाटाग्रे तन्मध्ये नादरूपिणी ॥ ३.१८ ॥

अपरांशे बिन्दुमयी तस्य शक्तिः स्थिता स्वयम् ।
जीवात्मा बिन्दुमध्ये तु सूक्ष्मरूपः प्रकाशते ॥ ३.१९ ॥

हृदये स्थूलरूपेण तयोर्मध्ये तु मध्यमः ।
हृन्मध्ये तु महालक्ष्मीः जिह्वायां तु सरस्वती ॥ ३.२० ॥

रुद्राणी सह रुद्रेण हृदये वर्तते सदा ।
ईश्वरस्सर्वत्र देहे सर्वसाक्षी सदाशिवः ॥ ३.२१ ॥

ज्ञा सम्यक् नवतां देहे सकला देवता अमूः ।
प्रत्यगात्मतया भान्ति देवतारूपतोऽपि च ॥ ३.२२ ॥

वेदमार्गेकनिष्ठानां विशुद्धानां तु विग्रहे ।
देवतारूपतो भान्ति न भाति प्रत्यगात्मना ॥ ३.२३ ॥

तान्त्रिकाणां शरीरे तु वर्तन्ते न प्रकाशकाः ।
शुद्धभावात् यथाजातप्राणिनां सर्वदेवताः ॥ ३.२४ ॥

तिरोभूततया नित्यं वर्तन्ते न स्वरूपतः ।
अतश्च भोगमोक्षार्थी शरीरं देवतामयम् ॥ ३.२५ ॥

स्वकीयं परकीयं च पूजयेत् सुविशेषतः ।
नावमानं सदा कुर्यात् मोहतो वापि बुद्धिमान् ॥ ३.२६ ॥

यदि कुर्यात् प्रमादेन पतत्येव भवार्णवे ।
दुर्वृत्तमपि मूर्खं च पूजयेत् देवतात्मना ॥ ३.२७ ॥

देवतारूपतः पश्यन् मुच्यते जन्मबन्धनात् ।
मोहेनापि सदा नैव कुर्यादप्रियभाषणम् ॥ ३.२८ ॥

यदि कुर्यात् प्रमादेन हन्ति तं परदेवता ।
देहे तु न क्षतं कुर्यात् अस्त्रशस्त्रनखादिभिः ॥ ३.२९ ॥

तथा न लोहितं कुर्यात् यदि कुर्यात् पतत्यधः ।
एषा सनातनी विद्या भोगमोक्षप्रदायिनी ॥ ३.३० ॥

मयैव कथिता नित्या सर्वलोकोपकारिणी ।
कथिताऽभूते हिडिम्भ सर्वं ब्रह्ममयं जगत् ॥ ३.३१ ॥

ब्रह्माण्डेऽपि च पिण्डाण्डे सर्वत्र ब्रह्मभावतः ।
तत्त्वमेवास्यहं चासि देवदेव सुखी भव ॥ ३.३२ ॥

इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां
अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे
अज्ञानमूलं नाम तृतीयोऽध्यायः ॥ ३ ॥

अथ चतुर्थोऽध्यायः
ज्ञानोत्पत्तिः
हिडिम्भ उवाच-
सङ्कोचो देहयात्रायां प्राणिनां अस्ति षण्मुख ।
तेषु ज्ञानार्थिनां बुद्धिरुपक्षीणा भवेत्किल ॥ ४.१ ॥

तद्धेतोः ज्ञानसम्पत्तिः देहयात्रा च दुर्लभा ।
तस्यास्तस्याश्च सौलभ्यं कथं भवति सद्गुरो ॥ ४.२ ॥

श्रीभिक्षुरुवाच-
हन्त तात प्रवक्ष्यामि ज्ञानोत्पत्तेस्तु कारणम् ।
विना येन शिवज्ञानं न जायेत कथञ्चन ॥ ४.३ ॥

मुमुक्षुरतिसन्तुष्टः सिद्ध्यत्येव गतिर्मम ।
इति निश्चयबुद्धिस्तु प्रतिबन्धनिवृत्तये ॥ ४.४ ॥

देवतास्सकला नित्यं प्रार्थयेन्मतिमुत्तमः ।
अधिकारी भवेत्तत्र जन्मना कर्मणा द्विजः ॥ ४.५ ॥

शन्नो मित्रश्शं वरुणः शन्नो भवतु चार्यमा ।
शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः ॥ ४.६ ॥

नमोऽस्तु ब्रह्मणे वायो नमोऽस्तु तव शोभनम् ।
त्वमेव साक्षाद् ब्रह्मासि त्वां वदिष्यामि शङ्करम् ॥ ४.७ ॥

ऋतं च सत्यं चाहं त्वां वदिष्यामि समाहितः ।
तन्मामवतु कल्याणं तद्वक्तारं च शोभनम् ॥ ४.८ ॥

मां भूयोऽवतु वक्तारं अपि चावतु शोभनम् ।
शान्तिः शान्तिः पुनः शान्तिः दोषत्रयनिवृत्तये ॥ ४.९ ॥

कृत्वैवं प्रार्थनां आत्मज्ञानार्थं मतिमान् सदा ।
तस्य विज्ञानसम्पत्तिः क्रमतो जायते ध्रुवम् ॥ ४.१० ॥

जपेन्नित्यं गुरोर्लब्ध्वा मन्त्रं यश्छन्दसामिति ।
मे गोपायेति पर्यन्तम् ज्ञानोत्पत्तेश्च कारणम् ॥ ४.११ ॥

शताक्षरां च गायत्रीं जपेन्नित्यं दिने दिने ।
तन्मन्त्रपूतोदकेन स्नानपानादिनाऽपि च ॥ ४.१२ ॥

ज्ञानोत्पत्तिर्भवत्येव शिवभक्त्या च सन्ततम् ।
उपायमपरं चापि ब्रवीमि श‍ृणु सादरम् ॥ ४.१३ ॥

गुरोर्भक्तिर्दृढा यस्य स्वतो ज्ञानं प्रजायते ।
बहूनां जन्मनामन्ते गुरुभक्तिः प्रजायते ॥ ४.१४ ॥

गुरुभक्तियुते जन्तौ ज्ञानोत्पत्तिर्न संशयः ।
यथाकथञ्चित् स भवेत् ब्राह्मणो जायते भुवि ॥ ४.१५ ॥

ब्राह्मणो गुरुभक्तस्तु श्रुतिज्ञानात् प्रमुच्यते ।
श्रुतिप्रामाण्यबुद्धिर्हि मोक्षस्य गतिरुच्यते ॥ ४.१६ ॥

प्रारब्धं पुष्यति वपुः इति निश्चित्य चेतसा ।
धैर्यमालम्ब्य यत्नेन तूष्णीं स्थितिरपि स्वयम् ॥ ४.१७ ॥

वैदेकानां भवेद् ज्ञानजनने कारणं सदा ।
सङ्कोचो देहयात्रायां तदृशानां भवेत्खलु ॥ ४.१८ ॥

अतः सङ्कोचहानाय चावहन्तीति मन्त्रतः ।
आज्येनान्नेन चोभाभ्यां जुहुयाच्च दिने दिने ॥ ४.१९ ॥

तदशक्तः स्मरेन्नित्यं मन्त्रं वा श्रद्धया सह ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थश्च भिक्षुकः ॥ ४.२० ॥

नित्यं आचार्यशुश्रूषां प्रकुर्यात् भक्तिपूर्वकम् ।
प्राणिनां तादृशानां तु लोकयात्रा भवेत्स्वयम् ॥ ४.२१ ॥

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ४.२२ ॥

अहमेव परं साक्षात् अहमेव सदाशिवः ।
अहमेव जगत्साक्षी चाहमेव जगद्गुरुः ॥ ४.२३ ॥

नित्यं लिङ्गे महादेवं पूजयेत् भक्तिमान्नरः ।
वेदान्तश्रवणं कुर्यात् मननं च समाहितः ॥ ४.२४ ॥

रुद्राध्यायी भवेन्नित्यं रुद्राक्षाभरणो भवेत् ।
भस्मत्रिपुण्ड्रधारी च ज्ञानवान्मां प्रपद्यते ॥ ४.२५ ॥

शम्भोर्ममैक्यभावो हि मायाऽविद्याविनाशकः ।
उक्तसाधनसम्पन्नः ज्ञानाद् भस्माधिगच्छति ॥ ४.२६ ॥

शिवस्वरूपं परमं भासनात् भस्मसञ्ज्ञितम् ।
तदेव स्वीयमायोत्थप्रपञ्चे जलसूर्यवत् ॥ ४.२७ ॥

अनुप्रविष्टं तद्रूपं भस्मलेशमुदाहृतम् ।
तेन लेशेन देवेशः प्रतिबिम्बेन भस्मना ॥ ४.२८ ॥

स्वतन्त्रो बिम्बभूतस्तु सदैवोद्धूलितः शिवः ।
सदैव पूजनीयस्तु ब्रह्मविष्ण्वादिभिः सुरैः ॥ ४.२९ ॥

सोऽहं चाहं स एवास्मिन् विषये मास्तु संशयः ।
आवयोरन्तरं नास्ति तात शब्दार्थयोरिव ॥ ४.३० ॥

तत्प्रसादेन सर्वेषां देवत्वं न स्वभावतः ।
स्वभावादेव देवत्वं देवदेवस्य मेऽपि च ॥ ४.३१ ॥

तं विदित्वा विमुच्यन्ते शान्ता दान्ता मुनीश्वराः ।
गृहस्थाश्च तथैवान्ये सत्यधर्मपरायणाः ॥ ४.३२ ॥

भस्मसञ्छन्नसर्वाङ्गाः त्रिपुण्ड्राङ्कितमस्तकाः ।
रुद्राक्षमालाभरणाः श्रीषडक्षरजापकाः ॥ ४.३३ ॥

नित्यं देवाचर्नपराः सत्क्रियादग्धकिल्बिषाः ।
एवं ज्ञानार्थिनां सम्यक् साधनानि बहूनि च ॥ ४.३४ ॥

सन्ति तेषां मुख्यतमानीदानीं कथितानि वै ।
ज्ञानं वेदान्तविज्ञानं ब्रह्मात्मैकत्वगोचरम् ॥ ४.३५ ॥

सम्पादनीयं तज्ज्ञानं ज्ञानान्मुच्येत बन्धनात् ।
मदुक्तार्तेषु विश्वासं हिडिम्भ कुरु सन्ततम् ॥ ४.३६ ॥

सर्वसौलभ्यमेवाहं उपायं वच्मि सादरम् ।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ॥ ४.३७ ॥

अहं त्वा सर्वकष्टेभ्यो मोक्षयिष्यामि मा शुचः ।
एवमेव वचस्साक्षात् सद्गुरोः करुणामृतम् ॥ ४.३८ ॥

देवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
त्वमेव तत्र दृष्टान्तरूपोऽगस्त्यकृपोदितः ॥ ४.३९ ॥

इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां
अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे
ज्ञानोत्पत्तिर्नाम चतुर्थोऽध्यायः ॥ ४ ॥

अथ पञ्चमोऽध्यायः
मायामोहजालम्
हिडिम्भ उवाच-
अहो सर्वमिदं ब्रह्म बद्धो मुक्तश्च कः पुनः ।
सर्वमाश्वर्यमेव स्यात् मन्मनः क्लिश्यते प्रभो ॥ ५.१ ॥

सद्गुरो भगवन् स्वामिन् किमर्थं जगदीदृशम् ।
उच्चावचं भाति ब्रह्म मायामूलं च मे वद ॥ ५.२ ॥

श्रीभिक्षुरुवाच-
मायाऽविद्या विशुद्धा चित् जीव आत्मा च वासना ।
व्यावहारिकसत्तायां षडस्माकं अनादयः ॥ ५.३ ॥

व्यावहारिकसर्वस्वं मिथ्यैव परमार्थतः ।
त्रैकालिकाबाध्यवस्तु सच्चिदानन्दलक्षणम् ॥ ५.४ ॥

ब्रह्मैकमेव सत्यं हि तदात्मा परिकीर्तितः ।
स्वस्वरूपानुसन्धाने ज्ञाने सर्वं विलीयते ॥ ५.५ ॥

बद्धो मुक्त इति व्याख्या गुणतो नैव वस्तुतः ।
गुणस्तु मायामूलत्वात् न ते मोक्षो न बन्धनम् ॥ ५.६ ॥

वक्ष्ये श‍ृणु समासेन सर्वसाधनमुत्तमम् ।
व्यावहारिकलोकानां उद्धारार्थं हिडिम्भक ॥ ५.७ ॥

अपेक्षितार्थः सर्वेषां भुक्तिर्मुक्तिश्च सर्वदा ।
मुक्तिर्नानाविधा प्रोक्ता मया वेदानुसारतः ॥ ५.८ ॥

तत्र सायुज्यरूपाया मुक्तेः साक्षात्तु साधनम् ।
सम्यक् ज्ञानं न कर्मोक्तं न तयोश्च समुच्चयः ॥ ५.९ ॥

नित्यसिद्धाऽथवा मुक्तिः साध्यरूपा द्वयोर्गतिः ।
नित्यसिद्धा तु सर्वेषां आत्मरूपाऽथवाऽपरा ॥ ५.१० ॥

आत्मरूपैव चेन्मुक्तिः नित्यप्राप्ता हि सात्मनः ।
नित्यप्राप्तस्य चाप्राप्तिः विभ्रमः खलु देहिनाम् ॥ ५.११ ॥

विभ्रमस्य निवृत्त्या सा प्राप्तेति व्यपदिश्यते ।
विभ्रमस्य निवृत्तिस्तु सिद्ध्यत्यज्ञाननाशनात् ॥ ५.१२ ॥

अज्ञानस्य विनाशस्तु ज्ञानादेव न चान्यतः ।
ज्ञानादज्ञाननाशस्तु प्रसिद्धस्सर्वदेहिनाम् ॥ ५.१३ ॥

अपरा सा परा मुक्तिः आत्मरूपैव चेन्मतम् ।
तथापि मुक्तिः प्राप्या वा नाप्राप्या वाऽऽत्मना भवेत् ॥ ५.१४ ॥

प्राप्या चेत् आत्मना मुक्तिः अप्राप्तप्राप्तिरेव सा ।
अप्राप्तप्राप्तिरप्यस्य सम्बन्धो वैक्यमेव च ॥ ५.१५ ॥

स सम्बन्धश्च साध्यो वा नित्यो वा साध्य एव चेत् ।
अनित्यस्स तु सम्बन्धो भवेन्नित्यो न सर्वदा ॥ ५.१६ ॥

साध्यानामपि भावानां अनित्यत्वं व्यवस्थितम् ।
अभावस्य न साध्यत्वं प्रध्वंसाख्यस्य सर्वदा ॥ ५.१७ ॥

साध्यत्वाख्यस्तु धर्मश्च नैवाभावाश्रयो भवेत् ।
नित्यो यदि स सम्बन्धः तर्हि सम्बन्धसञ्ज्ञिता ॥ ५.१८ ॥

मुक्तिश्च नित्यसिद्धैव मुमुक्षोरात्मनो भवेत् ।
तथापि नित्यप्राप्ताया मुक्तेः प्राप्तिस्तु पूर्ववत् ॥ ५.१९ ॥

विज्ञानेनैव नान्येन सत्यमुक्तं चिदात्मकम् ।
अप्राप्तप्राप्तिरूपाय मुक्तेरैक्यं भवेद्यदि ॥ ५.२० ॥

तन्न युक्तं द्वयोरैक्यं न सिद्ध्यति कदाचन ।
भिन्नयोः भेदनाशे वा मुक्तिर्भेदे स्थितेऽथवा ॥ ५.२१ ॥

भेदनाशे तयोरैक्यं घटते नात्र संशयः ।
भेदे सति भवेदैक्यं इति चेत् तन्न सङ्गतम् ॥ ५.२२ ॥

भेदस्य सन्निधानैक्यं विरोधान्नैव सिद्ध्यति ।
न प्राप्या ह्यात्मना मुक्तिः इति चेत् तन्न सङ्गतम् ॥ ५.२३ ॥

अप्राप्यायास्तु मुक्तेश्च नास्त्यपेक्षा हि साधने ।
साधने सति सा मुक्तिः अप्राप्यैव सदा खलु ॥ ५.२४ ॥

न नित्यसिद्धा सा मुक्तिः साध्यरूपैव चेन्मतम् ।
साध्यत्वे सत्यनित्यत्वं पूर्वमेवाभिभाषितम् ॥ ५.२५ ॥

प्रध्वंसस्य तु नित्यत्वं सर्वशो न भविष्यति ।
अचिद्रूपस्य सर्वस्य विनाशो गम्यते यतः ॥ ५.२६ ॥

भावत्वे सति साध्यत्वात् विनाशश्चेतनस्य तु ।
प्रध्वंसस्य तु साध्यत्वेऽप्यभावत्वेन हेतुना ॥ ५.२७ ॥

न सिद्ध्यति विनाशश्चेत् तच्च नैव सुसङ्गतम् ।
प्रागभावसमाख्यस्याप्यनित्यत्वस्य दर्शनात् ॥ ५.२८ ॥

प्रागभावस्य साध्यत्वाभावे सत्यप्यभावतः ।
अनित्यत्वं यदिष्येत प्रध्वंसस्यापि तत्समम् ॥ ५.२९ ॥

भावानामप्यभावानां साध्यानां च हिडिम्भक ।
असाध्यानां च सर्वेषां अनित्यत्वे प्रयोजकम् ॥ ५.३० ॥

अचेतनत्वमेवोक्तं नेतरद्व्यभिचारतः ।
चेतनस्य तु नित्यत्वं श्रुतिराह सनातनी ॥ ५.३१ ॥

तस्मादुक्तप्रकारेण मुक्तिः सायुज्यरूपिणी ।
ज्ञानलभ्या क्रियामात्रात् न लभ्या न समुच्चयात् ॥ ५.३२ ॥

ज्ञानं नामाखिलं चेदं मद्रूपेणावभासनम् ।
क्रिया तु कारणापेक्षा न ज्ञानालम्बिनी सदा ॥ ५.३३ ॥

अतः क्रियाया ज्ञानेन विरोधादेव सर्वदा ।
समुच्चयो न युज्येत कुतस्तेन परा गतिः ॥ ५.३४ ॥

सारूप्याख्या तु सा मुक्तिः सामीप्याख्या च याऽपरा ।
सालोक्याख्या च या तासां केवलं कर्म साधनम् ॥ ५.३५ ॥

ऐहिकामुष्मिकाकारा मुक्तयः सर्वदेहिनाम् ।
कर्मणैव हि सिद्ध्यन्ति न ज्ञानेन विरोधतः ॥ ५.३६ ॥

ज्ञानं कर्म च वेदोक्तमेव नान्योदितं भवेत् ।
अन्योदितं तु मन्यन्ते व्यवहारे विवेकिनाम् ॥ ५.३७ ॥

अपेक्ष्य बुद्धिं विज्ञानं कर्म चेति विधीयते ।
तयापि व्यवहारे ते व्यावहारिकसिद्धिदे ॥ ५.३८ ॥

वेदश्शिवः शिवोऽहं वै सर्वं ब्रह्ममयं जगत् ।
वेदनिन्दा न कर्तव्या ज्ञानिना यत्रकुत्रचित् ॥ ५.३९ ॥

तस्मात्सर्वत्र नास्तिक्यं न कुर्यान्मे मतिसत्तमः ।
नास्तिक्यादेव सर्वेषां संसारे परिवर्तनम् ॥ ५.४० ॥

अस्तीत्येवोपलब्धव्यः परमात्मा श्रुतेस्स्वयम् ।
लीलामात्रं प्रभोर्जन्म संसारपरिवर्तनम् ॥ ५.४१ ॥

धर्माधर्मै पुण्यपापे प्राणिनां कर्मबन्धनम् ।
भस्मसात्कुरुते ज्ञानवह्निः संसारवासनाम् ॥ ५.४२ ॥

सर्वं त्यक्त्वैव मनसा येन त्यजसि तत्त्यज ।
स्वयमेव स्वयं साक्षात् किं वक्तव्यमतः परम् ॥ ५.४३ ॥

इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां
अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे
मायामोहजालं नाम पञ्चमोऽध्यायः ॥ ५ ॥

अथ षष्ठोऽध्यायः
जीवब्रह्मैक्यम्
हिडिम्भ उवाच-
सर्वमुक्तं समासेन सद्गुरो मय्यनुग्रहात्
त्वयैवाहं ब्रह्मविच्च न मे जन्म न मे मृतिः ॥ ६.१ ॥

देहबुद्ध्या भवद्दासः जीवबुद्ध्या त्वदंशकः ।
आत्मबुद्ध्या त्वमेवाहं सद्गतोऽस्मिन् न संशयः ॥ ६.२ ॥

अथ केन प्रयुक्तोऽहं कुर्वे कर्म जगद्गुरो ।
जीवन्मुक्तः सुखी तूष्णीं स्थास्यामीत्यब्रुवं मुने ॥ ६.३ ॥

श्रीभिक्षुरुवाच-
सम्यग्व्यवसिता बुद्धिः हिडिम्भ तव तात्त्विके ।
अपि चेद्देहयात्रायां अवशस्त्वं हि मायया ॥ ६.४ ॥

आधिकारिकजीवोऽसि मल्लोके पार्षदोऽसि च ।
आकल्पान्तं मयाऽज्ञप्तः कर्म कर्तुं त्वमर्हसि ॥ ६.५ ॥

ब्रह्मणा सह मुक्तिः स्यात् प्रलये तव चानघ ।
कर्मतत्त्वं प्रवक्ष्यामि श‍ृणु गुह्यं सनातनम् ॥ ६.६ ॥

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ६.७ ॥

नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ६.८ ॥

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ६.९ ॥

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वं एष वोऽस्त्विष्टकामधुक् ॥ ६.१० ॥

देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परं अवाप्स्यथ ॥ ६.११ ॥

इष्टान् भोगान् हि वो देवाः दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ६.१२ ॥

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जन्ते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ ६.१३ ॥

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ६.१४ ॥

यज्ञाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ६.१४ ॥ repeat
यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म शैरेय मुक्तसङ्गः समाचर ॥ ६.१५ ॥

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो व्यर्थजीवी स एव हि ॥ ६.१६ ॥

आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ६.१७ ॥

इन्द्रियाणि हयानाहुः विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुः मनीषिणः ॥ ६.१८ ॥

यस्त्वविज्ञानवान् भवति अयुक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि दुष्टाश्चा इव सारथेः ॥ ६.१९ ॥

यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्चा इव सारथेः ॥ ६.२० ॥

यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ६.२१ ॥

यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ६.२२ ॥

विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति मत्पदं परमं शिवम् ॥ ६.२३ ॥

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसश्च परा बुद्धिः बुद्धेरात्मा महान् परः ॥ ६.२४ ॥

महतः परमव्यक्तं अव्यक्तात् पुरुषः परः ।
पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ॥ ६.२५ ॥

एष सर्वेषु भूतेषु गूढः आत्मा न प्रकाशते ।
दृश्यते त्वग्र्य्या बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ ६.२६ ॥

यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेत् ज्ञान आत्मनी ।
ज्ञानमात्मनि महति तद्यच्छेत् शान्त आत्मनि ॥ ६.२७ ॥

मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।
असक्तो ह्याचरन् कर्म परमाप्नोति नान्यथा ।
किं भवानिच्छति पुनर्निस्सन्देहो भवार्भक ॥ ६.२८ ॥

हिडिम्भ उवाच-
परमात्मन् गुरो भिक्षो त्वमेवाहं गतिर्मम ।
द्रष्टुमिच्छामि ते भूयो रूपं षाण्मुखमैश्वरम् ॥ ६.२९ ॥

भवदाज्ञावशः कुर्वे त्वदिष्टं कर्म नान्यथा ।
त्वत्षण्मुखत्वस्वरूपं ब्रह्म पिण्डाण्डयोः कथम् ॥ ६.३० ॥

श्रीभिक्षुरुवाच-
ज्ञानेन्द्रियमनोबुद्धिः महदव्यक्तपूरुषः ।
पिण्डाण्डे षण्मुखानीति मदीयानि विभावय ॥ ६.३१ ॥

तदशक्तौ तु सर्वत्र ज्ञानेन्द्रियमनांसि च ।
दृश्यं जगच्च ब्रह्माणं विष्णुं रुद्रं तथेश्वरम् ॥ ६.३२ ॥

सदाशिवं शिवशतं ब्रह्माण्डे परिभावय ।
पश्य मे तादृशं रूपं मल्लोके स्कन्दनामके ।
मामेव शरणं गच्छ मय्यर्पितमना भव ॥ ६.३३ ॥

हिडिम्भ उवाच-
इत्युक्त्वा षाण्मुखैश्वर्यरूपं धृत्वाऽथ भिक्षुकः ।
स्कन्दलोकं जगामाथ सुब्रह्मण्यः शिखीन्द्रगः ॥ ६.३४ ॥

षाण्मुखैश्वर्यं ताद्रूप्यं तदानीन्तनवैभवम् ।
सर्वलोकेषु सर्वेषु दृष्ट्वा मयि च विस्मितः ॥ ६.३५ ॥

जडदेही कियत्कालं नीतोऽहं मामपि स्वयम् ।
न जानेऽथ स्वयं मन्दम् प्रबुद्धो व्यावहारिके ॥ ६.३६ ॥

जगतीत्थं चरिष्यामि स्वामिप्रेरणया यथा ।
गुहगीतामिमां श्रुत्वा धन्यो भवति मानवः ॥ ६.३७ ॥

अर्थानुसन्धानपरो मुक्त एव न संशयः ।
इयं चोक्ता तव मुने गुह्याद्गुह्यतरं खलु ।
न चाशुश्रूषवे वाच्या नाभक्ताय कदाचन ॥ ६.३८ ॥

इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां
अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे
जीवब्रह्मैक्यं नाम षष्ठोऽध्यायः ॥ ६ ॥

ॐ तत्सत् ब्रह्मार्पणमस्तु ॥

Also Read:

Guha Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Guha Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top