Templesinindiainfo

Best Spiritual Website

Gurvashtakam Lyrics in Hindi | गुर्वष्टकम्

गुर्वष्टकम् Lyrics in Hindi:

वन्देऽहं सच्चिदानन्दं भेदातीतं जगद्गुरुम् ।
नित्यं पूर्णं निराकारं निर्गुणं सर्वसंस्थितम् ॥ १॥

परात्परतरं ध्येयं नित्यमानन्द-कारणम् ।
हृदयाकाश-मध्यस्थं शुद्ध-स्फटिक-सन्निभम् ॥ २॥

अखण्ड-मण्डलाकारं व्याप्तं येन चराऽचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ३॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ४॥

अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ५॥

चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् ।
विन्दु-नाद-कलातीतं तस्मै श्रीगुरवे नमः ॥ ६॥

अनेक-जन्म -संप्राप्त -कर्मबन्ध -विदाहिने ।
आज्ञज्ञान-प्रदानेन तस्मै श्रीगुरवे नमः ॥ ७॥

शिष्याणां मोक्षदानाय लीलया देहधारिणे ।
सदेहेऽपि विदेहाय तस्मै श्रीगुरवे नमः ॥ ८॥

गुर्वष्टकमिदं स्तोत्रं सायं-प्रातस्तु यः पठेत् ।
स विमुक्तो भवेल्लोकात् सद्गुरो कृपया ध्रुवम् ॥ ९॥

इति गुर्वष्टकं सम्पूर्णम् ।

Gurvashtakam Lyrics in Hindi | गुर्वष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top