Templesinindiainfo

Best Spiritual Website

Janmavaiphalyanirupanashtakam Lyrics in Hindi | जन्मवैफल्यनिरूपणाष्टकम्

जन्मवैफल्यनिरूपणाष्टकम् Lyrics in Hindi:

नाश्रितो वल्लभाधीशो न च दृष्टा सुबोधिनी ।
नाराधि राधिकानाथो वृथा तज्जन्म भूतले ॥ १॥

न गृहीतं हरेर्नाम नात्माद्यखिलमर्पितम् ।
न कृष्णसेवा विहिता वृथातज्जन्म भूतले ॥ २॥

न लीलाचिन्तनं नैव दीनता विरहात् हरेः ।
ल वा कृष्णाश्रयः पूर्णो वृथा तज्जन्म भूतले ॥ ३॥

न नीता वार्तया घस्राः साधवो नैव सेविताः ।
न गोविन्दगुणा गीता वृथा तज्जन्म भूतले ॥ ४॥

न कृष्णरूपसौन्दर्यमनो नैव विरागिता ।
न दुःसङ्गपरित्यागो वृथा तज्जन्म भूतले ॥ ५॥

न भक्तिः पुष्टिमार्गीया न निःसाधनता हृदि ।
न विस्मृतिः प्रपञ्चस्य वृथा तज्जन्म भूतले ॥ ६॥

न धर्मपरता नैव धर्ममार्गे मनोगतिः ।
न भक्तिर्ज्ञानवैराग्ये वृथा तज्जन्म भूतले ॥ ७॥

न निजस्वामिविरहपरितापो न भावना ।
न दैन्यं परमं यस्य वृथा तज्जन्म भृतले ॥ ८॥

इति श्रीहरिरायवर्यविरचितं जन्मवैफल्यनिरूपणाष्टकम् ॥

Janmavaiphalyanirupanashtakam Lyrics in Hindi | जन्मवैफल्यनिरूपणाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top