Templesinindiainfo

Best Spiritual Website

Kartha Veeryarjuna Stotra Lyrics in Hindi

Kartha Veeryarjuna Stotra in Hindi:

कार्तवीर्यार्जुन द्वादशनाम स्तोत्रम्
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
तस्य स्मरण मात्रेण गतं नष्टं च लभ्यते ॥ १ ॥

कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली ।
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ २ ॥

रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः ।
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ ३ ॥

सम्पदस्तत्र जायन्ते जनस्तत्र वशं गतः ।
आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥ ४ ॥

सहस्रबाहुं महितं सशरं सचापं
रक्ताम्बरं विविध रक्तकिरीटभूषम् ।
चोरादिदुष्टभयनाशनमिष्टदं तं
ध्यायेन्महाबलविजृम्भितकार्तवीर्यम् ॥ ५ ॥

यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् ।
यन्नामानि महावीर्यश्चार्जुनः कृतवीर्यवान् ॥ ६ ॥

हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् ।
वाञ्चितार्थप्रदं नॄणां स्वराज्यं सुकृतं यदि ॥ ७ ॥

इति कार्तवीर्यार्जुन द्वादशनाम स्तोत्रम् ।

Also Read:

Kartha Veeryarjuna Stotra lyrics in Hindi | English | Telugu | Tamil | Kannada

Kartha Veeryarjuna Stotra Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top