Manidweepa Varnanam (Devi Bhagavatam) Part 2 in Hindi:
॥ मणिद्वीपवर्णनम् (देवीभागवतम्) – २ ॥
(श्रीदेवीभागवतं द्वादशस्कन्धं एकादशोऽध्यायः)
व्यास उवाच ।
पुष्परागमयादग्रे कुङ्कुमारुणविग्रहः ।
पद्मरागमयः सालो मध्ये भूश्चैवतादृशी ॥ १ ॥
दशयोजनवान्दैर्घ्ये गोपुरद्वारसम्युतः ।
तन्मणिस्तम्भसम्युक्ता मण्डपाः शतशो नृप ॥ २ ॥
मध्ये भुविसमासीनाश्चतुःषष्टिमिताः कलाः ।
नानायुधधरावीरा रत्नभूषणभूषिताः ॥ ३ ॥
प्रत्येकलोकस्तासां तु तत्तल्लोकस्यनायकाः ।
समन्तात्पद्मरागस्य परिवार्यस्थिताः सदा ॥ ४ ॥
स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः ।
तासां नामानि वक्ष्यामि शृणु त्वं जनमेजय ॥ ५ ॥
पिङ्गलाक्षी विशालाक्षी समृद्धि वृद्धिरेव च ।
श्रद्धा स्वाहा स्वधाभिख्या माया सञ्ज्ञा वसुन्धरा ॥ ६ ॥
त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी ।
सुरूपा बहुरूपा च स्कन्दमाताऽच्युतप्रिया ॥ ७ ॥
विमला चामला तद्वदरुणी पुनरारुणी ।
प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥ ८ ॥
सन्ध्यामाता सती हंसी मर्दिका वज्रिका परा ।
देवमाता भगवती देवकी कमलासना ॥ ९ ॥
त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी ।
लम्बोष्टी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ॥ १० ॥
रथरेखाह्वया पश्चाच्छशिरेखा तथा परा ।
गगनवेगा पवनवेगा चैव ततः परम् ॥ ११ ॥
अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा ।
अनङ्गानङ्गमथना तथैवानङ्गमेखला ॥ १२ ॥
अनङ्गकुसुमा पश्चाद्विश्वरूपा सुरादिका ।
क्षयङ्करी भवेच्छक्ति रक्षोभ्या च ततः परम् ॥ १३ ॥
सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचिव्रता ।
उदाराख्या च वागीशी चतुष्षष्टिमिताः स्मृताः ॥ १४ ॥
ज्वलज्जिह्वाननाः सर्वावमन्त्यो वह्निमुल्बणम् ।
जलं पिबामः सकलं संहरामोविभावसुम् ॥ १५ ॥
पवनं स्तम्भयामोद्य भक्षयामोऽखिलं जगत् ।
इति वाचं सङ्गिरते क्रोध संरक्तलोचनाः ॥ १६ ॥
चापबाणधराः सर्वायुद्धायैवोत्सुकाः सदा ।
दंष्ट्रा कटकटारावैर्बधिरीकृत दिङ्मुखाः ॥ १७ ॥
पिङ्गोर्ध्वकेश्यः सम्प्रोक्ताश्चापबाणकराः सदा ।
शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता ॥ १८ ॥
एकैक शक्तेः सामर्थ्यं लक्षब्रह्माण्डनाशने ।
शताक्षौहिणिकासेना तादृशी नृप सत्तम ॥ १९ ॥
किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् ।
सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने ॥ २० ॥
रथानां गणना नास्ति हयानां करिणां तथा ॥
शस्त्राणां गणना तद्वद्गणानां गणना तथा ॥ २१ ॥
पद्मरागमयादग्रे गोमेदमणिनिर्मितः ।
दशयोजनदैर्घ्येण प्राकारो वर्तते महान् ॥ २२ ॥
भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी ।
गोमेदकल्पितान्येव तद्वासि सदनानि च ॥ २३ ॥
पक्षिणः स्तम्भवर्याश्च वृक्षावाप्यः सरांसि च ।
गोमेदकल्पिता एव कुङ्कुमारुणविग्रहाः ॥ २४ ॥
तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः ।
नाना शस्त्रप्रहरणा गोमेदमणिभूषिताः ॥ २५ ॥
प्रत्येक लोक वासिन्यः परिवार्य समन्ततः ।
गोमेदसाले सन्नद्धा पिशाचवदना नृप ॥ २६ ॥
स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः ।
क्रोधरक्तेक्षणा भिन्धि पच च्छिन्धि दहेति च ॥ २७ ॥
वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः ।
एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता ॥ २८ ॥
सेना तत्राप्येकशक्तिर्लक्षब्रह्माण्डनाशिनी ।
तादृशीनां महासेना वर्णनीया कथं नृप ॥ २९ ॥
रथानां नैव गणाना वाहनानां तथैव च ।
सर्वयुद्धसमारम्भस्तत्र देव्या विराजते ॥ ३० ॥
तासां नामानि वक्ष्यामि पापनाशकराणि च ।
विद्या ह्री पुष्ट यः प्रज्ञा सिनीवाली कुहूस्तथा ॥ ३१ ॥
रुद्रावीर्या प्रभानन्दा पोषिणी ऋद्धिदा शुभा ।
कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥ ३२ ॥
विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ।
निशुम्भशुम्भमथिनी महिषासुरमर्दिनी ॥ ३३ ॥
इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी ।
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ ३४ ॥
अम्बिकाह्लादिनी पश्चादित्येवं शक्तयः स्मृताः ।
यद्येताः कुपिता देव्यस्तदा ब्रह्माण्डनाशनम् ॥ ३५ ॥
पराजयो न चैतासां कदाचित्क्वचिदस्ति हि ।
गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः ॥ ३६ ॥
दशयोजन तुङ्गोऽसौ गोपुरद्वारसम्युतः ।
कपाटशृङ्खलाबद्धो नववृक्ष समुज्ज्वलः ॥ ३७ ॥
सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् ।
गृहाणिवीथयो रथ्या महामार्गां गणानि च ॥ ३८ ॥
वृक्षालवाल तरवः सारङ्गा अपि तादृशाः ।
दीर्घिकाश्रेणयोवाप्यस्तडागाः कूप सम्युताः ॥ ३९ ॥
तत्र श्रीभुवनेश्वर्या वसन्ति परिचारिकाः ।
एकैका लक्षदासीभिः सेविता मदगर्विताः ॥ ४० ॥
तालवृन्तधराः काश्चिच्चषकाढ्य कराम्बुजाः ।
काश्चित्ताम्बूलपात्राणि धारयन्त्योऽतिगर्विताः ॥ ४१ ॥
काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः ।
नाना वस्त्रधराः काश्चित्काश्चित्पुष्प कराम्बुजाः ॥ ४२ ॥
नानादर्शकराः काश्चित्काश्चित्कुङ्कुमलेपनम् ।
धारयन्त्यः कज्जलं च सिन्दूर चषकं पराः ॥ ४३ ॥
काश्चिच्चित्रक निर्मात्र्यः पाद संवाहने रताः ।
काश्चित्तु भूषाकारिण्यो नाना भूषाधराः पराः ॥ ४४ ॥
पुष्पभूषण निर्मात्र्यः पुष्पशृङ्गारकारिकाः ।
नाना विलासचतुरा बह्व्य एवं विधाः पराः ॥ ४५ ॥
निबद्ध परिधानीया युवत्यः सकला अपि ।
देवी कृपा लेशवशात्तुच्छीकृत जगत्त्रयाः ॥ ४६ ॥
एता दूत्यः स्मृता देव्यः शृङ्गारमदगर्विताः ।
तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ॥ ४७ ॥
अनङ्गरूपा प्रथमाप्यनङ्गमदना परा ।
तृतीयातु ततः प्रोक्ता सुन्दरी मदनातुरा ॥ ४८ ॥
ततो भुवनवेगास्यात्तथा भुवनपालिका ।
स्यात्सर्वशिशिरानङ्गवेदनानङ्गमेखला ॥ ४९ ॥
विद्युद्दामसमानाङ्ग्यः क्वणत्काञ्चीगुणान्विताः ।
रणन्मञ्जीरचरणा बहिरन्तरितस्ततः ॥ ५० ॥
धावमानास्तु शोभन्ते सर्वा विद्युल्लतोपमाः ।
कुशलाः सर्वकार्येषु वेत्रहस्ताः समन्ततः ॥ ५१ ॥
अष्टदिक्षुतथैतासां प्राकाराद्बहिरेव च ।
सदनानि विराजन्ते नाना वाहनहेतिभिः ॥ ५२ ॥
वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः ।
दशयोजनतुङ्गोऽसौ गोपुरद्वारभूषितः ॥ ५३ ॥
वैदूर्यभूमिः सर्वापिगृहाणि विविधानि च ।
वीथ्यो रथ्या महामार्गाः सर्वे वेदूर्यनिर्मिताः ॥ ५४ ॥
वापी कूप तडागाश्च स्रवन्तीनां तटानि च ।
वालुका चैव सर्वाऽपि वैदूर्यमणिनिर्मिता ॥ ५५ ॥
तत्राष्टदिक्षुपरितो ब्राह्म्यादीनां च मण्डलम् ।
निजैर्गणैः परिवृतं भ्राजते नृपसत्तम ॥ ५६ ॥
प्रतिब्रह्माण्डमातृणां ताः समष्टय ईरिताः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ ५७ ॥
वाराही च तथेन्द्राणी चामुण्डाः सप्तमातरः ।
अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः ॥ ५८ ॥
ब्रह्मरुद्रादिदेवानां समाकारा स्तुताः स्मृताः ।
जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः ॥ ५९ ॥
तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः ।
सज्जानि नृपते सन्ति सालङ्काराणि नित्यशः ॥ ६० ॥
दन्तिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा ।
हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा ॥ ६१ ॥
तैर्युक्ताः स्यन्दनास्तद्वत्कोटिशो नृपनन्दन ।
पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुम्बिनः ॥ ६२ ॥
कोटिशस्तु विमानानि नाना चिह्नान्वितानि च ।
नाना वादित्रयुक्तानि महाध्वजयुतानि च ॥ ६३ ॥
वैदूर्यमणि सालस्याप्यग्रे सालः परः स्मृतः ।
दशयोजन तुङ्गोऽसाविन्द्रनीलाश्मनिर्मितः ॥ ६४ ॥
तन्मध्य भूस्तथा वीथ्यो महामार्गा गृहाणि च ।
वापी कूप तडागाश्च सर्वे तन्मणिनिर्मिताः ॥ ६५ ॥
तत्र पद्म तु सम्प्रोक्तं बहुयोजन विस्तृतम् ।
षोडशारं दीप्यमानं सुदर्शनमिवापरम् ॥ ६६ ॥
तत्र षोडशशक्तीनां स्थानानि विविधानि च ।
सर्वोपस्करयुक्तानि समृद्धानि वसन्ति हि ॥ ६७ ॥
तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ।
कराली विकराली च तथोमा च सरस्वती ॥ ६८ ॥
श्री दुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः ।
श्रद्धा मेधा मतिः कान्तिरार्या षोडशशक्तयः ॥ ६९ ॥
नीलजीमूतसङ्काशाः करवाल कराम्बुजाः ।
समाः खेटकधारिण्यो युद्धोपक्रान्त मानसाः ॥ ७० ॥
सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः ।
प्रतिब्रह्माण्डसंस्थानां शक्तीनां नायिकाः स्मृताः ॥ ७१ ॥
ब्रह्माण्डक्षोभकारिण्यो देवी शक्त्युपबृंहिताः ।
नाना रथसमारूढा नाना शक्तिभिरन्विताः ॥ ७२ ॥
एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः ।
इन्द्रनीलमहासालादग्रे तु बहुविस्तृतः ॥ ७३ ॥
मुक्ताप्राकार उदितो दशयोजन दैर्घ्यवान् ।
मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलाम्बुजम् ॥ ७४ ॥
मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् ।
तत्र देवीसमाकारा देव्यायुधधराः सदा ॥ ७५ ॥
सम्प्रोक्ता अष्टमन्त्रिण्यो जगद्वार्ताप्रबोधिकाः ।
देवीसमानभोगास्ता इङ्गितज्ञास्तुपण्डिताः ॥ ७६ ॥
कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः ।
देव्यभिप्राय बोध्यस्ताश्चतुरा अतिसुन्दराः ॥ ७७ ॥
नाना शक्तिसमायुक्ताः प्रतिब्रह्माण्डवर्तिनाम् ।
प्राणिनां ताः समाचारं ज्ञानशक्त्याविदन्ति च ॥ ७८ ॥
तासां नामानि वक्ष्यामि मत्तः शृणु नृपोत्तम ।
अनङ्गकुसुमा प्रोक्ताप्यनङ्गकुसुमातुरा ॥ ७९ ॥
अनङ्गमदना तद्वदनङ्गमदनातुरा ।
भुवनपाला गगनवेगा चैव ततः परम् ॥ ८० ॥
शशिरेखा च गगनरेखा चैव ततः परम् ।
पाशाङ्कुशवराभीतिधरा अरुणविग्रहाः ॥ ८१ ॥
विश्वसम्बन्धिनीं वार्तां बोधयन्ति प्रतिक्षणम् ।
मुक्तासालादग्रभागे महामारकतो परः ॥ ८२ ॥
सालोत्तमः समुद्दिष्टो दशयोजन दैर्घ्यवान् ।
नाना सौभाग्यसम्युक्तो नाना भोगसमन्वितः ॥ ८३ ॥
मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च ।
षट्कोणमत्रविस्तीर्णं कोणस्था देवताः शृणुः ॥ ८४ ॥
पूर्वकोणे चतुर्वक्त्रो गायत्री सहितो विधिः ।
कुण्डिकाक्षगुणाभीति दण्डायुधधरः परः ॥ ८५ ॥
तदायुधधरा देवी गायत्री परदेवता ।
वेदाः सर्वे मूर्तिमन्तः शास्त्राणि विविधानि च ॥ ८६ ॥
स्मृतयश्च पुराणानि मूर्तिमन्ति वसन्ति हि ।
ये ब्रह्मविग्रहाः सन्ति गायत्रीविग्रहाश्च ये ॥ ८७ ॥
व्याहृतीनां विग्रहाश्च ते नित्यं तत्र सन्ति हि ।
रक्षः कोणे शङ्खचक्रगदाम्बुज कराम्बुजा ॥ ८८ ॥
सावित्री वर्तते तत्र महाविष्णुश्च तादृशः ।
ये विष्णुविग्रहाः सन्ति मत्स्यकूर्मादयोखिलाः ॥ ८९ ॥
सावित्री विग्रहा ये च ते सर्वे तत्र सन्ति हि ।
वायुकोणे परश्वक्षमालाभयवरान्वितः ॥ ९० ॥
महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी ।
ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप ॥ ९१ ॥
गौरी भेदाश्च ये सर्वे ते तत्र निवसन्ति हि ।
चतुःषष्ट्यागमा ये च ये चान्येप्यागमाः स्मृताः ॥ ९२ ॥
ते सर्वे मूर्तिमन्तश्च तत्र वै निवसन्ति हि ।
अग्निकोणे रत्नकुंभं तथा मणिकरण्डकम् ॥ ९३ ॥
दधानो निजहस्ताभ्यां कुबेरो धनदायकः ।
नाना वीथी समायुक्तो महालक्ष्मीसमन्वितः ॥ ९४ ॥
देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः ।
वारुणे तु महाकोणे मदनो रतिसम्युतः ॥ ९५ ॥
पाशाङ्कुशधनुर्बाणधरो नित्यं विराजते ।
शृङ्गारमूर्तिमन्तस्तु तत्र सन्निहिताः सदा ॥ ९६ ॥
ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः ।
पाशाङ्कुशधरो वीरो विघ्नहर्ता विराजते ॥ ९७ ॥
विभूतयो गणेशस्य यायाः सन्ति नृपोत्तम ।
ताः सर्वा निवसन्त्यत्र महैश्वर्यसमन्विताः ॥ ९८ ॥
प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः ।
एते ब्रह्मादयः प्रोक्ताः सेवन्ते जगदीश्वरीम् ॥ ९९ ॥
महामारकतस्याग्रे शतयोजन दैर्घ्यवान् ।
प्रवालशालोस्त्यपरः कुङ्कुमारुणविग्रहः ॥ १०० ॥
मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् ।
तन्मध्ये पञ्चभूतानां स्वामिन्यः पञ्च सन्ति च ॥ १०१ ॥
हृल्लेखा गगना रक्ता चतुर्थी तु करालिका ।
महोच्छुष्मा पञ्चमी च पञ्चभूतसमप्रभाः ॥ १०२ ॥
पाशाङ्कुशवराभीतिधारिण्योमितभूषणाः ।
देवी समानवेषाढ्या नवयौवनगर्विताः ॥ १०३ ॥
प्रवालशालादग्रे तु नवरत्न विनिर्मितः ।
बहुयोजनविस्तीर्णो महाशालोऽस्ति भूमिप ॥ १०४ ॥
तत्र चाम्नायदेवीनां सदनानि बहून्यपि ।
नवरत्नमयान्येव तडागाश्च सरांसि च ॥ १०५ ॥
श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसन्ति हि ।
महाविद्या महाभेदाः सन्ति तत्रैव भूमिप ॥ १०६ ॥
निजावरणदेवीभिर्निजभूषणवाहनैः ।
सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः ॥ १०७ ॥
सप्तकोटि महामन्त्रदेवताः सन्ति तत्र हि ।
नवरत्नमयादग्रे चिन्तामणिगृहं महत् ॥ १०८ ॥
तत्र त्यं वस्तु मात्रं तु चिन्तामणि विनिर्मितम् ।
सूर्योद्गारोपलैस्तद्वच्चन्द्रोद्गारोपलैस्तथा ॥ १०९ ॥
विद्युत्प्रभोपलैः स्तंभाः कल्पितास्तु सहस्रशः ।
येषां प्रभाभिरन्तस्थं वस्तु किञ्चिन्न दृश्यते ॥ ११० ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे एकादशोऽध्यायः ।
Also Read:
Manidweepa Varnanam (Devi Bhagavatam) Part 2 Lyrics in English | Hindi |Kannada | Telugu | Tamil