Templesinindiainfo

Best Spiritual Website

Narasimhapurana Yamashtakam Lyrics in Hindi, Yamraj Mantra

Yama Dharmaraja is also known as Yamraj, Yamaraja, Yama Dharmaraju, Yama, Dherma, Pitripeti, Mritu, and Vivaswata. Yama Dharmaraja is the Lord of Dharma and Lord of Death. Lord Yama is the Son of Lord Surya Bhagawan and Saranyu. Lord Yamaraja is the brother of Saturn (Shani Bhagwan). His wife is Goddess Dhumorna and his son is Katila. Yama Dharmaraja Vehicle is Buffalo. Below is the Hindi version of Narasimhapurana Yamashtakam.

Yama Dharmaraja Stotram text in Hindi :

श्रीव्यास उवाच —

स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ १ ॥

अहममरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः ।
हरिगुरुविमुखान् प्रशास्मि मर्त्यान् हरिचरणप्रणतान्नमस्करोमि ॥ २ ॥

सुगतिमभिलषामि वासुदेवादहमपि भागवते स्थितान्तरात्मा ।
मधुवधवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि कृष्णः ॥ ३ ॥

भगवति विमुखस्य नास्ति सिद्धिर्विषममृतं भवतीति नेदमस्ति ।
वर्षशतमपीह पच्यमानं व्रजति न काञ्चनतामयः कदाचित् ॥ ४ ॥

नहि शशिकलुषच्छविः कदाचिद्विरमति नो रवितामुपैति चन्द्रः ।
भगवति च हरावनन्यचेता भृशमलिनोऽपि विराजते मनुष्यः ॥ ५ ॥

महदपि सुविचार्य लोकतत्त्वं भगवदुपास्तिमृते न सिद्धिरस्ति ।
सुरगुरुसुदृढप्रसाददौ तौ हरिचरणौ स्मरतापवर्गहेतोः ॥ ६ ॥

शुभमिदमुपलभ्य मानुषत्वं सुकृतशतेन वृथेन्द्रियार्थहेतोः ।
रमयति कुरुते न मोक्षमार्गं दहयति चन्दनमाशु भस्महेतोः ॥ ७ ॥

मुकुलितकरकुड्मलैः सुरेन्द्रैः सततनमस्कृतपादपङ्कजो यः ।
अविहतगतये सनातनाय जगति जनिं हरते नमोऽग्रजाय ॥ ८ ॥

यमाष्टकमिदं पुण्यं पठते यः श‍ृणोति वा ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ९ ॥

इतीदमुक्तं यमवाक्यमुत्तमं मयाधुना ते हरिभक्तिवर्द्धनम् ।
पुनः प्रवक्ष्यामि पुरातनीं कथां भृगोस्तु पौत्रेण च या पुरा कृता ॥ १० ॥

इति श्रीनरसिंहपुराणे यमाष्टकनाम नवमोऽध्यायः ॥

Narasimhapurana Yamashtakam Lyrics in Hindi, Yamraj Mantra

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top