Templesinindiainfo

Best Spiritual Website

Panchapadyani Lyrics in Hindi || पञ्चपद्यानि

श्रीकृष्णरसविक्षिस्तमानसा रतिवर्जिताः ।
अनिर्वृता लोकवेदे ते मुख्याः श्रवणोत्सकाः ॥ १॥

विक्लिन्नमनसो ये तु भगवत्स्मृतिविह्वलाः ।
अर्थैकनिष्ठास्ते चापि मध्यमाः श्रवणोत्सुकाः ॥ २॥

निःसन्दिग्धं कृष्णतत्त्वं सर्वभावेन ये विदुः ।
ते त्वावेशात्तु विकला निरोधाद्वा न चान्यथा ॥ ३॥

पूर्णभावेन पूर्णार्थाः कदाचिन्न तु सर्वदा ।
अन्यासक्तास्तु ये केचिदधमाः परिकीर्तिताः ॥ ४॥

अनन्यमनसो मर्त्या उत्तमाः श्रवणादिषु ।
देशकालद्रव्यकर्तृमन्त्रकर्मप्रकारतः ॥ ५॥

इति श्रीवल्लभाचार्यविरचितानि पञ्चपद्यानि समाप्तानि ।

Panchapadyani Lyrics in Hindi || पञ्चपद्यानि

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top