Templesinindiainfo

Best Spiritual Website

Samsara Mohana Ganesha Kavacham Lyrics in Sanskrit

Samsara Mohana Ganesha Kavacham Sanskrit Lyrics:

संसारमोहन गणेश कवचम्
श्रीविष्णुरुवाच ।
संसारमोहनस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम् ॥ १ ॥

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
सर्वेषां कवचानां च सारभूतमिदं मुने ॥ २ ॥

ओं गं हुं श्रीगणेशाय स्वाहा मे पातु मस्तकम् ।
द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ॥ ३ ॥

ओं ह्रीं क्लीं श्रीं गमिति च सन्ततं पातु लोचनम् ।
तालुकं पातु विघ्नेशः सन्ततं धरणीतले ॥ ४ ॥

ओं ह्रीं श्रीं क्लीमिति सन्ततं पातु नासिकाम् ।
ओं गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम ॥ ५ ॥

दन्तानि तालुकां जिह्वां पातु मे षोडशाक्षरः ।
ओं लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदाऽवतु ॥ ६ ॥

ओं क्लीं ह्रीं विघ्ननाशाय स्वहा कर्णं सदाऽवतु ।
ओं श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु ॥ ७ ॥

ओं ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु ।
ओं क्लीं ह्रीमिति कङ्कालं पातु वक्षःस्थलं च गम् ॥ ८ ॥

करौ पादौ सदा पातु सर्वाङ्गं विघ्ननिघ्नकृत् ।
प्राच्यां लम्बोदरः पातु आग्नेय्यां विघ्ननायकः ॥ ९ ॥

दक्षिणे पातु विघ्नेशो नैरृत्यां तु गजाननः ।
पश्चिमे पार्वतीपुत्रो वायव्यां शङ्करात्मजः ॥ १० ॥

कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च ।
ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्ध्वतः ॥ ११ ॥

अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः ।
स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः ॥ १२ ॥

कथितं गणनाथस्य सर्वमन्त्रौघविग्रहम् ।
संसारमोहनं नाम कवचं परमाद्भुतम् ।
परं वरं सर्वपूज्यं सर्वसङ्कटतारणम् ॥ १३ ॥

इति ब्रह्मवैवर्ते गणपतिखण्डे संसारमोहनं नाम गणेश कवचम् ।

Also Read:

Samsara Mohana Ganesha Kavacham lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Samsara Mohana Ganesha Kavacham Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top