Templesinindiainfo

Best Spiritual Website

Shadanana Ashtakam Lyrics in Sanskrit

Shadanana Ashtakam Sanskrit Lyrics:

षडाननाष्टकम्
अगस्तिरुवाच ।
नमोऽस्तु वृन्दारकवृन्दवन्द्य-
पादारविन्दाय सुधाकराय ।
षडाननायामितविक्रमाय
गौरीहृदानन्दसमुद्भवाय ॥ १ ॥

नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे
कर्त्रे समस्तस्य मनोरथानाम् ।
दात्रे रथानां परतारकस्य
हन्त्रे प्रचण्डासुर तारकस्य ॥ २ ॥

अमूर्तमूर्ताय सहस्रमूर्तये
गुणाय गुण्याय परात्पराय ।
अपारपाराय परापराय
नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३ ॥

नमोऽस्तु ते ब्रह्मविदां वराय
दिगम्बरायाम्बर संस्थिताय ।
हिरण्यवर्णाय हिरण्यबाहवे
नमो हिरण्याय हिरण्यरेतसे ॥ ४ ॥

तपःस्वरूपाय तपोधनाय
तपःफलानां प्रतिपादकाय ।
सदा कुमाराय हिमारमारिणे
तृणीकृतैश्वर्य विरागिणे नमः ॥ ५ ॥

नमोऽस्तु तुभ्यं शरजन्मने विभो
प्रभातसूर्यारुणदन्तपङ्क्तये ।
बालाय चाबालपराक्रमाय
षाण्मातुरायालमनातुराय ॥ ६ ॥

मीढुष्टमायोत्तरमीढुषे नमो
नमो गणानां पतये गणाय ।
नमोऽस्तु ते जन्मजरातिगाय
नमो विशाखाय सुशक्तिपाणये ॥ ७ ॥

सर्वस्य नाथस्य कुमारकाय
क्रौञ्चारये तारकमारकाय ।
स्वाहेय गाङ्गेय च कार्तिकेय
शैवेय तुभ्यं सततं नमोऽस्तु ॥ ८ ॥

इति स्कान्दपुराणे काशीखण्डे पञ्चविंशतितमोऽध्याये अगस्त्यप्रोक्तं षडाननाष्टकम् ।

Also Read:

Shadanana Ashtakam lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Shadanana Ashtakam Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top