Templesinindiainfo

Best Spiritual Website

Shastuh Dhyana Ashtakam Lyrics in Hindi

Shastuh Dhyanashtakam in Hindi:

शास्तुः ध्यानाष्टकं
श्रीगणेशाय नमः ।
नमामि धर्मशास्तारं योगपीठस्थितं विभुम् ।
प्रसन्नं निर्मलं शान्तं सत्यधर्मव्रतं भजे ॥ १॥

आश्यामकोमलविशालतनुं विचित्र-
वासो वसानमरुणोत्पलवामहस्तम् ।
उत्तुङ्गरत्नमुकुटं कुटिलाग्रकेशं
शास्तारमिष्टवरदं शरणं प्रपद्ये ॥ २॥

हरिहरशरीरजन्मा मरकतमणिभङ्गमेचकच्छायः ।
विजयतु देवः शास्ता सकलजगच्चित्तमोहिनीमूर्तिः ॥ ३॥

पार्श्वस्थापत्यदारं वटविटपितलन्यस्तसिंहासनस्थम् ।
श्यामं कालाम्बरं च श्रितकरयुगलादर्शचिन्तामणिं च ।
शस्त्री निस्त्रिंशबाणासनविशिखधृतं रक्तमाल्यानुलेपं
वन्दे शास्तारमीड्यं घनकुटिलबृहत्कुन्तलोदग्रमौळिम् ॥ ४॥

स्निग्धारालविसारिकुन्तलभरं सिंहासनाध्यासिनं
स्फूर्जत्पत्रसुकॢप्तकुण्डलमथेष्विष्वासभृद्दोर्द्वयम् ।
नीलक्षौमवसं नवीनजलदश्यामं प्रभासत्यक-
स्वायत्पार्श्वयुगं सुरक्तसकलाकल्पं स्मरेदार्यकम् ॥ ५॥

कोदण्डं सशरं भुजेन भुजगेन्द्राभोगभासा वहन्
वामेन क्षुरिकां विपक्षदलने पक्षेण दक्षेण च ।
कान्त्या निर्जितनीरदः पुरभिदः क्रीडत्किराताकृतेः
पुत्रोऽस्माकमनल्पनिर्मलयशाः निर्मातु शर्मानिशम् ॥ ६॥

काळाम्भोदकलाभकोमलतनुं बालेन्दुचूडं विभुं
बालार्कायुतरोचिषं शरलसत्कोदण्डबाणान्वितम् ।
वीरश्रीरमणं रणोत्सुकमिषद्रक्ताम्बुभूषाञ्जलिं
कालारातिसुतं किरातवपुषं वन्दे परं दैवतम् ॥ ७॥

साध्यं स्वपार्श्वेन विबुद्‍ध्य गाढं
निपातयन्तं खलु साधकस्य ।
पादाब्जयोर्मण्डधरं त्रिनेत्रं
भजेम शास्तारमभीष्टसिद्‍ध्यै ॥ ८॥

॥ इति शास्तुः ध्यानाष्टकं सम्पूर्णम् ॥

Also Read:

Shastuh Dhyana Ashtakam Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shastuh Dhyana Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top