Templesinindiainfo

Best Spiritual Website

Shri Bhairav Ashtakam Lyrics in Hindi | श्रीभैरवाष्टकम्

श्रीभैरवाष्टकम् Lyrics in Hindi:

॥ श्रीगणेशाय नमः ॥

॥ श्रीउमामहेश्वराभ्यां नमः ॥

॥ श्रीगुरवे नमः ॥

॥ श्रीभैरवाय नमः ॥

सकलकलुषहारी धूर्तदुष्टान्तकारी
सुचिरचरितचारी मुण्डमौञ्जीप्रचारी ।
करकलितकपाली कुण्डली दण्डपाणिः
स भवतु सुखकारी भैरवो भावहारी ॥ १॥

विविधरासविलासविलासितं नववधूरवधूतपराक्रमम् ।
मदविधूणितगोष्पदगोष्पदं भवपदं सततं सततं स्मरे ॥ २॥

अमलकमलनेत्रं चारुचन्द्रावतंसं
सकलगुणगरिष्ठं कामिनीकामरूपम् ।
परिहृतपरितापं डाकिनीनाशहेतुं
भज जन शिवरूपं भैरवं भूतनाथम् ॥ ३॥

सबलबलविघातं क्षेत्रपालैकपालं
विकटकटिकरालं ह्यट्टहासं विशालम् ।
करगतकरवालं नागयज्ञोपवीतं
भज जन शिवरूपं भैरवं भूतनाथम् ॥ ४॥

भवभयपरिहारं योगिनीत्रासकारं
सकलसुरगणेशं चारुचन्द्रार्कनेत्रम् ।
मुकुटरुचिरभालं मुक्तमालं विशालं
भज जन शिवरूपं भैरवं भूतनाथम् ॥ ५॥

चतुर्भुजं शङ्खगदाधरायुधं
पीताम्बरं सान्द्रपयोदसौभगम् ।
श्रीवत्सलक्ष्मीं गलशोभिकौस्तुभं
शीलप्रदं शङ्कररक्षणं भजे ॥ ६॥

लोकाभिरामं भुवनाभिरामं
प्रियाभिरामं यशसाभिरामम् ।
कीर्त्याभिरामं तपसाऽभिरामं
तं भूतनाथं शरणं प्रपद्ये ॥ ७॥

आद्यं ब्रह्मसनातनं शुचिपरं सिद्धिप्रदं कामदं
सेव्यं भक्तिसमन्वितं हरिहरैः सहं साधुभिः ।
योग्यं योगविचारितं युगधरं योग्याननं योगिनं
वन्देऽहं सकलं कलङ्करहितं सत्सेवितं भैरवम् ॥ ८॥

॥ फलश्रुतिः ॥

भैरवाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः ।
दुःस्वप्ननाशनं तस्य वाञ्छितर्थफलं भवेत् ॥ ९॥

राजद्वारे विवादे च सङ्ग्रामे सङ्कटेत्तथा ।
राज्ञाक्रुद्धेन चाऽऽज्ञप्ते शत्रुबन्धगतेतथा
दारिद्रश्चदुःखनाशाय पठितव्यं समाहितैः ।
न तेषां जायते किञ्चिद दुर्लभं भुवि वाञ्छितम् ॥१०॥

॥ इति श्रीस्कान्दे महापुराणे पञ्चमेऽवन्तीखण्डे
अवन्तीक्षेत्रमाहात्म्याऽऽन्तर्गते श्रीभैरवाष्टकं संपूर्णम् ॥

Shri Bhairav Ashtakam Lyrics in Hindi | श्रीभैरवाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top