Templesinindiainfo

Best Spiritual Website

Shri Bhuvaneshwari Panchakam Lyrics in Hindi ॥ श्रीभुवनेश्वरी पञ्चकं अथवा प्रातःस्मरणम् ॥

श्रीभुवनेश्वरी पञ्चकं अथवा प्रातःस्मरणम् Lyrics in Hindi:

प्रातः स्मरामि भुवना-सुविशालभालं
माणिक्य-मोउलि-लसितं सुसुधांशु-खण्दम् ।
मन्दस्मितं सुमधुरं करुणाकटाक्षं
ताम्बूलपूरितमुखं श्रुति-कुन्दले च ॥ १॥

प्रातः स्मरामि भुवना-गलशोभि मालां
वक्षःश्रियं ललिततुङ्ग-पयोधरालीम् ।
संवित् घटञ्च दधतीं कमलं कराभ्यां
कञ्जासनां भगवतीं भुवनेश्वरीं ताम् ॥ २॥

प्रातः स्मरामि भुवना-पदपारिजातं
रत्नोउघनिर्मित-घटे घटितास्पदञ्च ।
योगञ्च भोगममितं निजसेवकेभ्यो
वाञ्चाऽधिकं किलददानमनन्तपारम् ॥ ३॥

प्रातः स्तुवे भुवनपालनकेलिलोलां
ब्रह्मेन्द्रदेवगण-वन्दित-पादपीठम् ।
बालार्कबिम्बसम-शोणित-शोभिताङ्गीं
विन्द्वात्मिकां कलितकामकलाविलासाम् ॥ ४॥

प्रातर्भजामि भुवने तव नाम रूपं
भक्तार्तिनाशनपरं परमामृतञ्च ।
ह्रीङ्कारमन्त्र-मननी जननी भवानी
भद्रा विभा भयहरी भुवनेश्वरीति ॥ ५॥

यः श्लोकपञ्चकमिदं स्मरति प्रभाते
भूतिप्रदं भयहरं भुवनाम्बिकायाः ।
तस्मै ददाति भुवना सुतरां प्रसन्ना
सिद्धं मनोः स्वपदपद्म-समाश्रयञ्च ॥

इति श्रीदत्तात्रेयानन्दनाथ-विरचितं श्रीभुवनेश्वरी-पञ्चकम्
एवम् श्रीभुवनेश्वरी प्रातःस्मरणम् सम्पूर्णम् ।

Shri Bhuvaneshwari Panchakam Lyrics in Hindi ॥ श्रीभुवनेश्वरी पञ्चकं अथवा प्रातःस्मरणम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top