Templesinindiainfo

Best Spiritual Website

Shri Chakreshvaryashtakam Lyrics in Hindi | श्रीचक्रेश्वर्यष्टकम्

श्रीचक्रेश्वर्यष्टकम् Lyrics in Hindi:

श्रीचक्रे ! चक्रभीमे ! ललितवरभुजे ! लीलया लोलयन्ती
चक्रे विद्युत्प्रकाशं ज्वलितशितशिखं खे खगेन्द्राधिरूढे ! !
तत्त्वैरुद्भूतभावे सकलगुणनिधे ! त्वं महामन्त्रमूर्तिंः var मूर्ते
क्रोधादित्यप्रतापे ! त्रिभुवनमहिते ! पाहि मां देवि ! चक्रे ॥ १॥

क्लीँ क्लीँ क्लीँ कारचित्ते ! कलिकलिवदने ! दुन्दुभिभीमनादे !
ह्राँ ह्रीं ह्रं सः ख बीजे ! खगपतिगमने ! मोहिनी शोषिणी त्वम् ।
तच्चक्रं चक्रदेवी भ्रमसि जगति दिक्चक्रविक्रान्तकीर्ति-
विघ्नौघं विघ्नयन्ती विजयजयकरी पाहि मां देवि ! चक्रे ! ॥ २॥

श्राँ श्रीँ श्रूँ श्रः प्रसिद्धे ! जनितजनमनःप्रीतिसन्तोषलक्ष्मीं
श्रीवृद्धिं कीर्तिकान्तिं प्रथयसि वरदे ! त्वं महामन्त्रमूर्तिः । var मूर्ते
त्रलोक्यं क्षोभयन्तीमसुरभिदुरहुङ्कारनादेकभीमे !
क्लीँ क्लीँ क्लीँ द्रावयन्ती हुतकनकनिभे पाहि मां देवि ! चक्रे ! ॥ ३॥

वज्रक्रोधे ! सुभीमे ! शशिकरधवले ! भ्रामयन्ती सुचक्रं
ह्राँ ह्रीं ह्रूँ ह्रः कराले ! भगवति ! वरदे ! रुद्रनेत्रे ! सुकान्ते !
आँ इँ उँ क्षोभयन्ती त्रिभुवनमखिलं तत्त्वतेजःप्रकाशि
ज्वाँ ज्वीँ ज्वीँ सच्चबीजे प्रलयविषयुते ! पाहि मां देवि ! चक्रे ! ॥ ४॥

ॐ ह्रीं ह्रूँ ह्रः सहर्षे हहहहहसिते चक्रसङ्काशबीजे !
ह्राँ ह्रौं ह्रः यः क्षीरवर्णे ! कुवलयनयने ! विद्रवं द्रावयन्ती ।
ह्रीं ह्रीं (ह्रौं) ह्रः क्षः त्रिलोकैरमृतजरजरैर्वारणैः प्लावयन्ती
ह्रां ह्रीं ह्रीं चन्द्रनेत्रे ! भगवति सततं पाहि मां देवि ! चक्रे ! ॥ ५॥

आँ आँ आँ ह्रीं युगान्ते प्रलयविचयुते कारकोटिप्रतापे !
चक्राणि भ्रामयन्ती विमलवरभुजे पद्ममेकं फलं च ।
सच्चक्रे कुङ्कुमाङ्गैर्विधृतविनरुहं तीक्ष्णरौद्रप्रचण्डे
ह्रीं ह्रीं ह्रीङ्कारकारीरमरगणतनो पाहि मां देवि ! चक्रे ! ॥ ६॥

श्राँ श्रीँ श्रूँ श्रः सवृत्तिस्त्रिभुवनमहिते नादबिन्दुत्रिनेत्रे
वं वं वं वज्रहस्ते ललललललिते नीलशोनीलकोषे ।
चं चं चं चक्रधारी चलचलचलते नूपुरालीढलोले
त्वं लक्ष्मीं श्रीसुकीतिं सुरवरविनते पाहि मां देवि ! चक्रे ! ॥ ७॥

ॐ ह्रीं ह्रूँ कारमन्त्रे कलिमलमथने तुष्टिवश्याधिकारे
ह्रीं ह्रौं ह्रः यः प्रघोपे प्रलययुगजटीज्ञेयशब्दप्रणादे ।
यां यां यां क्रोधमूर्ते ! ज्वलज्वलज्वलिते ज्वालसञ्ज्वाललीढे
आँ इँ ॐ अः प्रघोषे प्रकटितदशने पाहि मां देवि ! चक्रे ! ॥ ८॥

यः स्तोत्रं मन्त्ररूपं पठति निजमनोभक्तिपूर्वं शृणोति
त्रैलोक्यं तस्य वश्यं भवति बुधजनो वाक्पटुत्वञ्च दिव्यम् ।
सौभाग्यं स्त्रीषु मध्ये खगपतिगमने गौरवं त्वत्प्रसादात्
डाकिन्यो गुह्यकाश्च विदधति न भयं चक्रदेव्याः स्तवेन ॥ ९॥

इति श्रीचक्रेश्वर्यष्टकं सम्पूर्णम् ।

Shri Chakreshvaryashtakam Lyrics in Hindi | श्रीचक्रेश्वर्यष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top