Templesinindiainfo

Best Spiritual Website

Shri GaNeshapanchakam Hindi Lyrics | श्रीगणेशपञ्चकम्

श्रीगणेशपञ्चकम्


श्रीरामजयम् ।
सद्गुरु श्रीत्यागराजस्वामिने नमो नमः ।

ॐ विनायकाय विद्महे । विघ्नघ्नाय च धीमहि ।
तन्नो दन्तिः प्रचोदयात् ॥

अथ श्रीगणेशपञ्चकम् ।
विनायकैकदन्ताय व्यासभारतलेखिने ।
विद्यारम्भविनूताय विघ्नेश्वराय ते नमः ॥ १॥

गणेश्वराय गम्याय गानारम्भनुताय च ।
गंरूपाय गरिष्ठाय गौरीसुताय ते नमः ॥ २॥

अक्षरारम्भवन्द्याय आगाधज्ञानसिद्धये ।
इहलोकसुसन्नेत्रे ईशपुत्राय ते नमः ॥ ३॥

उत्तमश्लोकपूज्याय ऊर्ध्वदृष्टिप्रसादिने ।
एकचित्तप्रदात्रे च ऐक्यध्येयाय ते नमः ॥ ४॥

ओंकारवक्रतुण्डाय औपहारिकगीतये ।
पञ्चकश्लोकमालाय पुष्पार्चिताय ते नमः ॥ ५॥

मङ्गलं गणनाथाय सर्वारम्भाय मङ्गलम् ।
मङ्गलं जयकाराय हेरम्भाय सुमङ्गलम् ॥ ६॥

इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीगणेशपञ्चकं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।

Shri GaNeshapanchakam Hindi Lyrics | श्रीगणेशपञ्चकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top