Shri Gokuleshadvatrimshannama Ashtakam Lyrics in Hindi | श्रीगोकुलेशद्वात्रिंशन्नामाष्टकम्
श्रीगोकुलेशद्वात्रिंशन्नामाष्टकम् Lyrics in Hindi:
श्रीगोकुलेशो जयति नमस्ते गोकुलाधिप ।
नमस्ते गोकुलाराध्य नमस्ते गोकुलप्रभो ॥ १॥
नमस्ते गोकुलमणे नमस्ते गोकुलोत्सव ।
नमस्ते गोकुलैकाश नमस्ते गोकुलोदय ॥ २॥
नमस्ते गोकुलपते नमस्ते गोकुलात्मक ।
नमस्ते गोकुलस्वामिन् नमस्ते गोकुलेश्वर ॥ ३॥
नमस्ते गोकुलानन्द नमस्ते गोकुलप्रिय ।
नमस्ते गोकुलाह्लाद नमस्ते गोकुलव्रज ॥ ४॥
नमस्ते गोकुलोत्साह नमस्ते गोकुलावन ।
नमस्ते गोकुलोद्गीत नमस्ते गोकुलस्थित ॥ ५॥
नमस्ते गोकुलाधार नमस्ते गोकुलाश्रय ।
नमस्ते गोकुलश्रेष्ठ नमस्ते गोकुलोद्भव ॥ ६॥
नमस्ते गोकुलोल्लास नमस्ते गोकुलप्रिय ।
नमस्ते गोकुलध्येय नमस्ते गोकुलोडुप ॥ ७॥
नमस्ते गोकुलश्लाध्य नमस्ते गोकुलोत्सुक ।
नमस्ते गोकुलश्रीमन् नमस्ते गोकुलप्रद ॥ ८॥
इति श्रीगोकुलनाथानां द्वात्रिंशन्नामाष्टकं नामस्तोत्रं समाप्तम् ।