Templesinindiainfo

Best Spiritual Website

Shri Gurudevashtakam Lyrics in Hindi | श्रीगुरुदेवाष्टकम्

श्रीगुरुदेवाष्टकम् Lyrics in Hindi:

संसारदावानललीढलोक
त्राणाय कारुण्यघनाघनत्वम् ।
प्राप्तस्य कल्याणगुणार्णवस्य
वन्दे गुरोः श्रीचरणारविन्दम् ॥ १॥

महाप्रभोः कीर्तननृत्यगीत
वादित्रमद्यन्मनसो रसेन ।
रोमाञ्चकम्पाश्रुतरङ्गभाजो
वन्दे गुरोः श्रीचरणारविन्दम् ॥ २॥

श्रीविग्रहाराधननित्यनाना
शृङ्गारतन्मन्दिरमार्जनादौ ।
युक्तस्य भक्तांश्च नियुञ्जतोऽपि
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ३॥

चतुर्विधश्रीभगवत्प्रसाद
स्वाद्वन्नतृप्तान् हरिभक्तसङ्घान् ।
कृत्वैव तृप्तिं भजतः सदैव
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ४॥

श्रीराधिकामाधवयोरपार
माधुर्यलीलागुणरूपनाम्नाम् ।
प्रतिक्षणास्वादनलोलुपस्य
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ५॥

निकुञ्जयूनो रतिकेलिसिद्ध्यै
या यालिभिर्युक्तिरपेक्षणीया ।
तत्रातिदाक्ष्यादतिवल्लभस्य
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ६॥

साक्षाद्धरित्वेन समस्तशास्त्रै-
रुक्तस्तथा भाव्यत एव सद्भिः ।
किन्तो प्रभोर्यः प्रिय एव तस्य
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ७॥

यस्य प्रसादाद्भगवत्प्रसादो
यस्याप्रसादान् न गतिः कुतोऽपि ।
ध्यायन् स्तुवंस्तस्य यशस्त्रिसन्ध्यं
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ८॥

श्रीमद्गुरोरष्टकमेतदुच्चै-
र्ब्राह्मे मुहूर्ते पठति प्रयत्नात् ।
यस्तेन वृन्दावननाथ साक्षात्
सेवैव लभ्या जुषणोऽन्त एव ॥ ९॥

Shri Gurudevashtakam Lyrics in Hindi | श्रीगुरुदेवाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top