Templesinindiainfo

Best Spiritual Website

Shri Harisharan Ashtakam Lyrics in Hindi

Sri Harisharanashtakam Lyrics in Hindi:

॥ श्रीहरिशरणाष्टकम् ॥

श्रीगणेशाय नमः ॥

ध्येयं वदन्ति शिवमेव ही केचिदन्ये
शक्तिं गणेशमपरे तु दिवाकरं वै ।
रूपैस्तु तैरपि विभासि यतस्त्वमेकस्-
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ १ ॥

नो सोदरो न जनको जननी न जाया
नैवात्मजो न च कुलं विपुलं बलं वा ।
संदृष्यते न किल कोऽपि सहायको मे
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ २ ॥

नोपासिता मदमपास्य मया महान्तस्-
तीर्थानि चास्तिकधिया नहि सेवितानि ।
देवार्चनं च विधिवन्न कृतं कदापि
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ३ ॥

दुर्वासना मम सदा परिकर्षयन्ति
चित्तं शरीरमपि रोगगणा दहन्ति ।
सञ्जीवनं च परहस्तगतं सदैव
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ४ ॥

पूर्वं कृतानि दुरितानि मया तु यानि
स्मृत्वाखिलानि हृदयं परिकम्पते मे ।
ख्याता च ते पतितपावनता तु यस्मात्
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ५ ॥

दुःखं जराजननजं विविधाश्च रोगाः
काकश्वसूकरजनिर्निरये च पातः ।
त्वद्विस्मॄतेः फलमिदं विततं हि लोके
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ६ ॥

नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि
ब्रूयात्तवाहमिति यस्तु किलैकवारम् ।
तं यच्छसीश निजलोकमिति व्रतं ते
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ७ ॥

वेदेषु धर्मवचनेषु तथागमेषु
रामायणेऽपि च पुराणकदम्बके वा ।
सर्वत्र सर्वविधिना गदितस्त्वमेव
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ८ ॥

॥ इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं
श्रीहरिशरणाष्टकं सम्पूर्णम् ॥

Shri Harisharan Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top