Templesinindiainfo

Best Spiritual Website

Shri Mangalanayika Ashtakam Lyrics in Hindi | श्रीमङ्गलनायिकाष्टकम्

Goddess Sri Mangalambal Temple is at Palamadai, Tirunelveli, Tamilnadu.

श्रीमङ्गलनायिकाष्टकम् Lyrics in Hindi:

अम्बामम्बुजधारिणीं सुरनुतामर्धेन्दुभूषोज्ज्वलां
आधारादि समस्तपीठनिलयामम्भोजमध्यस्थिताम् ।
नित्यं सज्जनवन्द्यमानचरणां नीलालकश्रोणितां
श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे । १॥

आद्यामागमशास्त्ररत्नविनुतामार्यां परां देवतां
आनन्दाम्बुधिवासिनीं परशिवामानन्दपूर्णाननाम् ।
आब्रह्मादि पिपीलिकान्तजननीमाखण्डालाद्यर्चितां
श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ २॥

इन्द्राण्यादि समस्तशक्तिसहितामिन्दीवरश्यामलां
इन्द्रोपेन्द्रवरप्रदामिननुतामिष्टार्थसिद्धिप्रदाम् ।
ईकाराक्षररूपिणीं गिरिसुतामीकारवर्णात्मिकां
श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ ३॥

उद्यद्भानुसहस्रकोटिसदृशीं केयूरहारोज्ज्वलां
ऊर्ध्वस्वन्मणिमेखलां त्रिनयनामूष्मापहारोज्ज्वलाम् ।
ऊहापोहविवेकवाद्यनिलयामूढ्याणपीठस्थितां
श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ ४॥

ऋक्षाधीशकलान्वितामृतुनुतामृद्‍ध्यादिसंसेवितां
नृणानां पापविमोचिनीं शुभकरीं वृत्रारिसंसेविताम् ।
लिङ्गाराधनतत्परां भयहारां क्लीङ्कारपीठस्थितां
श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ ५॥

एनःकूटविनाशिनीं विधिनुतामेणाङ्कचूडप्रियां
एलाचम्पकपुष्पगन्धिचिकुरामेकातपत्रोज्वलाम् ।
ऐकाराम्बुजपीठमध्यनिलयामैन्द्रादिलोकप्रदां
श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ ६॥

ओघैरप्सरसां सदा परिवृतामोघत्रयाराधितां
ओजोवर्द्धनतत्परां शिवपरामोङ्कारमन्त्रोज्ज्वलाम् ।
औदार्याकरपादपद्मयुगलामौत्सुख्यदात्रीं परां
श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ ७॥

अर्काम्भोरुहवैरिवह्निनयनामक्षीणसौभाग्यदां
अङ्गाकल्पितरत्नभूषणयुतामण्डौघसंसेविताम् ।
आज्ञाचक्रनिवासिनीं झलझलन्मञ्जीरपादाम्बुजां
श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ ८॥

श्रीमङ्गलाम्बा परदैवतं नः श्रीमङ्गलाम्बा परं धनं नः ।
श्रीमङ्गलाम्बा कुलदैवतं नः श्रीमङ्गलाम्बा परमा गतिर्नः ॥

अज्ञानिना मया दोषानशेषान्विहितान्शिवे ।
क्षमस्व त्वं क्षमस्व त्वं शैलराजसुतेऽम्बिके ॥

यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तव स्वरूपम् ।
यत्रैव यत्रैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते ॥

इति श्रीमङ्गलनायिकाष्टकं सम्पूर्णम् ।

Shri Mangalanayika Ashtakam Lyrics in Hindi | श्रीमङ्गलनायिकाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top