Shri Navanita Priya Ashtakam Lyrics in Hindi | श्रीनवनीतप्रियाष्टकम्
श्रीनवनीतप्रियाष्टकम् Lyrics in Hindi:
अलकावृतलसदलिके विरचितकस्तूरिकातिलके ।
चपलयशोदाबाले शोभितभाले मतिर्मेऽस्तु ॥ १॥
मुखरितनूपुरचरणे कटिबद्धक्षुद्रघण्टिकावरणे ।
द्वीपिकरजकृतभूषणभूषितहृदये मतिर्मेऽस्तु ॥ २॥
करधृतनवनवनीते हितकृतजननीविभीषिकाभिते ।
रतिमुद्वहताच्चेतो गोपीभिर्वश्यतां नीते ॥ ३॥
बालदशामतिमुग्धे चोरितदुग्धे व्रजाङ्गनाभवनात् ।
तदुपालम्भवचोभयविभ्रमनयने मतिर्मेऽस्तु ॥ ४॥
व्रजकर्दमलिप्ताङ्गे स्वरूपसुषमाजितानङ्गे ।
कृतनन्दाङ्गणरिङ्गण विविधविहारे मतिर्मेऽस्तु ॥ ५॥
करवरधृतलघुलकुटे विचित्रमायूरचन्द्रिकामुकुटे ।
नासागतमुक्तामणिजटितविभूषे मतिर्मेऽस्तु ॥ ६॥
अभिनन्दनकृतनृत्ये विरचितनिजगोपिकाकृत्ये ।
आनन्दितनिजभृत्ये प्रहसनमुदिते मतिर्मेऽस्तु ॥ ७॥
कामादपि कमनीये नमनीये ब्रह्मरुद्राद्यैः ।
निःसाधवभजनीये भावतनौ मे मतिर्भूयात् ॥ ८॥
इति श्रीहरिदासविरचितं श्रीनवनीतप्रियाष्टकं सम्पूर्णम् ॥