Templesinindiainfo

Best Spiritual Website

Shri Parasurama Ashtakam 2 Lyrics in Hindi | श्रीपरशुरामाष्टकम् २

श्रीपरशुरामाष्टकम् २ Lyrics in Hindi:

आचार्य राधेश्याम अवस्थी “रसेन्दु” कृतम्

श्रीमद्भगवत्परशुरामाय नमः ।

विप्रवंशावतंशं सदा नौम्यहं
रेणुकानन्दनं जामदग्ने प्रभो ।
द्रोहक्रोधाग्नि वैकष्टतां लोपकं
रेणुकानन्दनं वन्दते सर्वदा ॥ १॥

क्षत्रदुष्टान्तकं वै करस्यं धनुं
राजतेयस्य हस्ते कुठारं प्रभो ।
फुल्लरक्ताब्ज नेत्रं सदा भास्वरं
रेणुकानन्दनं वन्दते सर्वदा ॥ २॥

तेजसं शुभ्रदेहं विशालौ करौ
श्वेतयज्ञोपवीतं सदाधारकम् ।
दिव्यभाले त्रिपुण्ड्रं जटाजूवरं
रेणुकानन्दनं वन्दते सर्वदा ॥ ३॥

भक्तपालं कृपालं कृपासागरं
रौद्ररूपं करालं सुरैः वन्दितैः ।
जन्मतो ब्रह्मचारी व्रतीधारकः
रेणुकानन्दनं वन्दते सर्वदा ॥ ४॥

ज्ञानविज्ञानशक्तिश्च भण्डारकः
वेदयुद्धेषु विद्यासु पारङ्गतः ।
वासमाहेन्द्रशैले शिवाराधकः
रेणुकानन्दनं वन्दते सर्वदा ॥ ५॥

ज्ञानदाता विधाता सदा भूतले
पापसन्तापकष्टादि संहारकः ।
दिव्यभव्यात्मकं पूर्णं योगीश्वरं
रेणुकानन्दनं वन्दते सर्वदा ॥ ६॥

आर्तदुःखादिकानां सदारक्षकः
भीतदैत्यादिकानां सदा नाशकः ।
त्रीन्गुणः सप्तकृत्वातुभूर्दत्तकः
रेणुकानन्दनं वन्दते सर्वदा ॥ ७॥

शीलकारुण्यरूपं दयासागरं
भक्तिदं कीर्तिदं शान्तिदं मोक्षदम् ।
विश्वमायापरं भक्तसंरक्षकं
रेणुकानन्दनं वन्दते सर्वदा ॥ ८॥

भार्गवस्याष्टकं नित्यं प्रातः सायं पठेन्नरः ।
तस्य सर्वभयं नास्ति भार्गवस्य प्रसादतः ॥

इति आचार्य राधेश्याम अवस्थी “रसेन्दु” कृतम्
श्रीपरशुरामाष्टकं सम्पूर्णम् ॥

Shri Parasurama Ashtakam 2 Lyrics in Hindi | श्रीपरशुरामाष्टकम् २

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top