Templesinindiainfo

Best Spiritual Website

Shri Parasurama Ashtakam 3 Lyrics in Hindi | श्रीपरशुरामाष्टकम् ३

श्रीपरशुरामाष्टकम् ३ Lyrics in Hindi:

॥ श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् ॥

ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं
नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् ।
केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥

अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं
वेदरूपमनामयं विभुमच्युतं परमेश्वरम् ।
हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ २॥

रैणुकेयमहीनसत्वकमव्ययं सुजनार्चितं
विक्रमाढ्यमिनाब्जनेत्रकमब्जशार्ङ्गगदाधरम् ।
छत्रिताहिमशेषविद्यगमष्टमूर्तिमनाश्रयं – ??
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ३॥

बाहुजान्वयवारणाङ्कुशमर्वकण्ठमनुत्तमं
सर्वभूतदयापरं शिवमब्धिशायिनमौर्वजम् ।
भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ४॥

जम्भयज्ञविनाशकञ्च त्रिविक्रमं दनुजान्तकं
निर्विकारमगोचरं नरसिंहरूपमनर्दहम् ।
वेदभद्रपदानुसारिणमिन्दिराधिपमिष्टदं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ५॥

निर्जरं गरुडध्वजं धरणीश्वरं परमोददं
सर्वदेवमहर्षिभूसुरगीतरूपमरूपकम् ।
भूमतापसवेषधारिणमद्रिशञ्च महामहं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ६॥

सामलोलमभद्रनाशकमादिमूर्तिमिलासुरं
सर्वतोमुखमक्षिकर्षकमार्यदुःखहरङ्कलौ ।
वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ७॥

दिव्यविग्रहधारिणं निखिलाधिपं परमं महा-
वैरिसूदनपण्डितं गिरिजातपूजितरूपकम् ।
बाहुलेयकुगर्वहारकमाश्रितावळितारकं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ८॥

पर्शुरामाष्टकमिदं त्रिसन्ध्यं यः पठेन्नरः
पर्शुरामकृपासारं सत्यं प्राप्नोति सत्वरम् ॥

॥ इति श्रीपूसपाटि रङ्गनायकामात्य भार्गवर्षिकृत
श्रीमद्दिव्यपरशुरामाष्टकं सम्पूर्णम् ॥

Shri Parasurama Ashtakam 3 Lyrics in Hindi | श्रीपरशुरामाष्टकम् ३

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top