Templesinindiainfo

Best Spiritual Website

Shri Radha Ashtakam 2 Lyrics in Hindi

Sri Madradhashtakam 2 Lyrics in Hindi:

श्रीमद्राधाष्टकम् २

निकुञ्जे मञ्जूषद्विविधमृदुपुष्पैकनिचयैः
समाकीर्णं दान्तं सुमणिजटितं केलिशयनम् ।
हृदि प्रादुर्भूतोद्भटविरहभावैः सपदि यत्
करे कृत्वा पत्रव्यजनमुपविशन्तीं हृदि भजे ॥ १॥

विदित्वा गोपीशं श्रमविहितनिद्रं हृदि भिया
रणत्कारैर्भूयान्न खलु गतनिद्रः परमिति ।
द्वितीयेन स्तब्धाचलनचपलं कङ्कणचयं
वितन्वन्तीं मन्दं व्यजनमथ राधां हृदि भजे ॥ २॥

विधायाच्छैः पुष्पैर्विविधरचनां चारुमृदुलां
पदप्रान्तालम्बां स्वकरकमलाभ्यां पुनरसौ ।
स्थितं स्वप्राणानां प्रियतममनन्यं निजपुरो-
ऽवगत्यातन्वन्तीमुरसि वनमालां हृदि भजे ॥ ३॥

पुरा रासारम्भे शरदमलरात्रिष्वपि हरि-
प्रभावाद्युल्लीढस्मरणकृतचिन्ताशतयुताम् ।
हृदि प्रादुर्भूतं बहिरपि समुद्वीक्षितुमिव
स्वतो वारं वारं विकसितदृगब्जां हृदि भजे ॥ ४॥

विचिन्वन्तीं नाथं निरतिशयलीलाकृतिरतं
प्रपश्यन्तीं चिह्नं चरणयुगसम्भूतमतुलम् ।
प्रकुर्वन्तीं मूर्धन्यहह पदरेणूत्करमपि
प्रियां गोपीशस्य प्रणतनिजनाथां हृदि भजे ॥ ५॥

निजप्राणाधीशप्रसभमिलनानन्दविकस-
त्समस्ताङ्गप्रेमोद्गतमतनुरोमावलिमपि ।
स्फुरत्सीत्कारान्तःस्थितसभयभावैकनयनां
पुनः पश्चात्तप्तामतुलरसपात्रं हृदि भजे ॥ ६॥

लसद्गोपीनाथाननकमलसंयोजितमुखां
मुखाम्भोधिप्रादुर्भवदमृतपानैकचतुराम् ।
परीरम्भप्राप्तप्रियतमशरीरैक्यरसिकां
तृतीयार्थप्राप्तिप्रकटहरिसिद्धिं हृदि भजे ॥ ७॥

न मे वाञ्छ्यो मोक्षः श्रुतिषु चतुरात्मा निगदितो
न शास्त्रीया भक्तिर्न पुनरपि विज्ञानमपि मे ।
कदाचिन्मां स्वामिन्यहह मयि दासे कृपयतु
स्वतः स्वाचार्याणां चरणशरणे दीनकरुणा ॥ ८॥

इति श्रीमद्राधाष्टकं सम्पूर्णम् ।

Shri Radha Ashtakam 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top