Templesinindiainfo

Best Spiritual Website

Shri Sankashta Nashanam Lyrics in Hindi | Slokam in Hindi

Sankat Ashtaka Stotram Lyrics in Hindi:

|| सङ्कष्टनाशनं संकटाष्टकस्तोत्रम् ||

श्रीगणेशाय नमः ।
ध्यानम्
ध्यायेऽहं परमेश्वरीं दशभुजां नेत्रत्रयोद्भूषितां
सद्यः सङ्कटतारिणीं गुणमयीमारक्तवर्णां शुभाम् ।
अक्ष-स्रग्-जलपूर्णकुम्भ-कमलं शंखं गदा बिभ्रतीं
त्रैशूलं डमरूश्च खड्ग-विधृतां चक्राभयाढ्यां पराम् ||

ॐ नारद उवाच
जैगीषव्य मुनिश्रेष्ठ सर्वज्ञ सुखदायक ।
आख्यातानि सुपुण्यानि श्रुतानि त्वत्प्रसादतः || १ ||

न तृप्तिमधिगच्छामि तव वागमृतेन च ।
वदस्वैकं महाभाग सङ्कटाख्यानमुत्तमम् || २ ||

इति तस्य वचः श्रुत्वा जैगीषव्योऽब्रवीत्ततः ।
सङ्कष्टनाशनं स्तोत्रं श‍ृणु देवर्षिसत्तम || ३ ||

द्वापरे तु पुरा वृत्ते भ्रष्टराज्यो युधिष्ठिरः ।
भ्रातृभिः सहितो राज्यनिर्वेदं परमं गतः || ४ ||

तदानीं तु ततः काशीं पुरीं यातो महामुनिः
मार्कण्डेय इति ख्यातः सह शिष्यैर्महायशाः || ५ ||

तं दृष्ट्वा स समुत्थाय प्रणिपत्य सुपूजितः ।
किमर्थं म्लानवदन एतत्त्वं मां निवेदय || ६ ||

युधिष्ठिर उवाच
सङ्कष्टं मे महत्प्राप्तमेतादृग्वदनं ततः ।
एतन्निवारणोपायं किंचिद्ब्रूहि मुने मम || ७ ||

मार्कण्डेय उवाच
आनन्दकानने देवी सङ्कटा नाम विश्रुता ।
वीरेश्वरोत्तरे भागे पूर्वं चन्द्रेश्वरस्य च || ८ ||

श‍ृणु नामाष्टकं तस्याः सर्वसिद्धिकरं नृणाम् ।
सङ्कटा प्रथमं नाम द्वितीयं विजया तथा || ९ ||

तृतीयं कामदा प्रोक्तं चतुर्थं दुःखहारिणी ।
शर्वाणी पञ्चमं नाम षष्ठं कात्यायनी तथा || १० ||

सप्तमं भीमनयना सर्वरोगहराऽष्टमम् ।
नामाष्टकमिदं पुण्यं त्रिसन्ध्यं श्रद्धयान्वितः || ११ ||

यः पठेत्पाठयेद्वापि नरो मुच्येत सङ्कटात् ।
इत्युक्त्वा तु द्विजश्रेष्ठमृषिर्वाराणसीं ययौ || १२ ||

इति तस्य वचः श्रुत्वा नारदो हर्षनिर्भरः ।
ततः सम्पूजितां देवीं वीरेश्वरसमन्विताम् || १३ ||

भुजैस्तु दशभिर्युक्तां लोचनत्रयभूषिताम् ।
मालाकमण्डलुयुतां पद्मशङ्खगदायुताम् || १४ ||

त्रिशूलडमरुधरां खड्गचर्मविभूषिताम् ।
वरदाभयहस्तां तां प्रणम्य विधिनन्दनः || १५ ||

वारत्रयं गृहीत्वा तु ततो विष्णुपुरं ययौ ।
एतत्स्तोत्रस्य पठनं पुत्रपौत्रविवर्धनम् || १६ ||

सङ्कष्टनाशनं चैव त्रिषु लोकेषु विश्रुतम् ।
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् || १७ ||

|| इति श्रीपद्मपुराणे सङ्कष्टनाशनं सङ्कटाष्टकं सम्पूर्णम् ||

Shri Sankashta Nashanam Lyrics in Hindi | Slokam in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top