Templesinindiainfo

Best Spiritual Website

Shri Shrigranthakartuh Prarthana Lyrics in Hindi | श्रीश्रीग्रन्थकर्तुः प्रार्थना

श्रीश्रीग्रन्थकर्तुः प्रार्थना Lyrics in Hindi:

सुबलसखाधरपल्लव
समुदितमधुमुग्धमधुरीलुब्धाम् ।
रुचिजितकञ्चनचित्रां
काञ्चन चित्रां पिकीं वन्दे ॥ १॥

वृषरविजाधराबिम्बी
फलरसपानोत्कमद्भुतं भ्रमरम् ।
धृतशिखिपिञ्छकचूलं
पीतदुकूलं चिरं नौमि ॥ २॥

जितः सुधांशुर्यशसा ममेति
गर्वं मूढ मा बत गोष्ठवीर ।
तवारिनरीनयनाम्बुपाली
जिगाय तातं प्रसभं यतोऽस्य ॥ ३॥

कुञ्जे कुञ्जे पशुपवनितावाहिनीभिः समस्ता-
त्स्वैरं कृष्णः कुसुमधनुषो राज्यचर्चां करोतु ।
एतत्प्रार्थ्यं सखि मम यथा चित्तहारी स धूर्तो
बद्धं चेतस्त्यजति किमु वा प्राणमोषां करोति ॥ ४॥

इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीश्रीग्रन्थकर्तुः प्रार्थना समाप्ता ।

Shri Shrigranthakartuh Prarthana Lyrics in Hindi | श्रीश्रीग्रन्थकर्तुः प्रार्थना

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top