Templesinindiainfo

Best Spiritual Website

Shri Vatapatya Ashtakam Lyrics in Hindi

Sri Vatapatyashtakam Lyrics in Hindi:

॥ श्रीवटपत्यष्टकम् ॥

भवं सृष्ट्वा देवः स्वयमिह निविष्टो भवमुखे
सहस्रास्यो भूत्वा फलमनुभवञ्छास्त्यविकृतः ।
परं देवैः सेव्यं रसमुपनिषद्वेद्यममितं
नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ १॥

चिदानन्दं सत्यं जगदुदयरक्षालयकरं
यदज्ञानाच्छुक्तौ रजतमिव विश्वं विलसितम् ।
पुनर्यद्विज्ञानं भ्रमहरमभेदं तमनघं
नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ २॥

पुराणो यो देवो निवसति वटेशस्तनुभृतां
हृदम्भोजे द्रष्टा विदितमहिमा सौख्यसदनम् ।
तमाराध्यं सिद्धैः सुरमनुजसंसेवितपदं
नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ ३॥

महामोहागारेऽतिविपदि भवाब्धौ निपतितो
न पश्यामि त्वत्तोऽन्यदिह शरणं मे सुखकरम् ।
दयासिन्धो मामुद्धर सपदि तस्माच्छरणदं
नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ ४॥

असारे संसारे विकृतिनिलये क्लेशबहुले
रुचिं बध्नन्त्यज्ञाः सुखमधुलवायान्तविरसे ।
त्वमेवास्मिन्सारो जगति तमहं त्वा रसघनं
नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ ५॥

कदाऽहं मोक्ष्येऽस्मान्निबिडतमसो बन्धनगृहात्
प्रभो संसारात्त्वच्छ्रवणमननध्यानरहितः ।
न योगं साङ्ख्यं वा कमपि सदुपायं च कलये
नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ ६॥

निराकारं स्वामिञ्जयतु तव रूपं श्रुतिनुत-
महं तु त्वां मन्ये करचरणयुक्तं गुणनिधिम् ।
शिवेशः श्रीशो वा भवतु न भिदा यत्र तमहं
नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ ७॥

जडे दृश्ये दुःखे निपुणमतिहेये च जगति
मृषारूपे पुंसां सदिति सुखमादेयमिति धीः ।
यदस्तित्वानन्दप्रतिफलनमूला तममृतं
नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ ८॥

विभातु तन्नाथ मदीयमानसे
त्वदीयरूपं सुमनोहरं विभो ।
अजादिदेवैरपि यस्य चिन्तनं
स्वचित्तशुद्ध्यै सततं विधीयते ॥ ९॥

मायारामप्रोक्तमेतत्सुरम्यं
श्रीशस्तोत्रं श्रीवटेशाष्टकाख्यम् ।
अस्तु श्रीशस्तेन तुष्टः स्तुवभ्द्यो
दिश्याच्छ्रेयः शाश्वतं स्वाश्रितेभ्यः ॥ १०॥

तत्त्वज्ञानप्रदं भक्तिवैराग्यपरिवर्धनम् ।
पठितव्यमिदं नित्यं स्तोत्रं श्रीपतितुष्टिदम् ॥ ११॥

व्याधिकाले च मोहान्ध्ये विपत्तौ श्रद्धया पठेत् ।
य इदं स भयान्मुक्तः सुखमक्षय्यमश्नुते ॥ १२॥

इति वेदान्ततीर्थपण्डितश्रीमायारामकृतं वटपत्यष्टकं समाप्तम् ।

Shri Vatapatya Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top