Templesinindiainfo

Best Spiritual Website

Sri Brihaspathi Stotram Lyrics in Hindi

Sri Brihaspathi Stotram in Hindi:

॥ श्री बृहस्पति स्तोत्रम् ॥
बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।
लोकत्रयगुरुः श्रीमान् सर्वज्ञः सर्वकोविदः ॥ १ ॥

सर्वेशः सर्वदाऽभीष्टः सर्वजित्सर्वपूजितः ।
अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता गुरुः पिता ॥ २ ॥

विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।
भूर्भुवस्सुवरों चैव भर्ता चैव महाबलः ॥ ३ ॥

पञ्चविंशतिनामानि पुण्यानि नियतात्मना ।
नन्दगोपगृहासीन विष्णुना कीर्तितानि वै ॥ ४ ॥

यः पठेत् प्रातरुत्थाय प्रयतः सुसमाहितः ।
विपरीतोऽपि भगवान्प्रीतस्तस्य बृहस्पतिः ॥ ५ ॥

यश्शृणोति गुरुस्तोत्रं चिरं जीवेन्न संशयः ।
सहस्रगोदानफलं विष्णोर्वचनतोभवेत् ।
बृहस्पतिकृता पीडा न कदाचिद्भविष्यति ॥ ६ ॥

Also Read:

Sri Brihaspathi Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Brihaspathi Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top