Templesinindiainfo

Best Spiritual Website

Sri Angaraka (Mangal) Kavacham Lyrics in Hindi

Sri Angaraka (Mangal) Kavacham in Hindi:

॥ श्री अङ्गारक कवचम् ॥
अस्य श्री अङ्गारक कवचस्तोत्रमहामन्त्रस्य विरूपाक्ष ऋषिः । अनुष्टुप् छन्दः । अङ्गारको देवता । अं बीजम् । गं शक्तिः । रं कीलकम् । मम अङ्गारकग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः ॥
आं अङ्गुष्ठाभ्यां नमः ।
ईं तर्जनीभ्यां नमः ।
ऊं मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
औं कनिष्ठिकाभ्यां नमः ।
अः करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः ॥
आं हृदयाय नमः ।
ईं शिरसे स्वाहा ।
ऊं शिखायै वषट् ।
ऐं कवचाय हुं ।
औं नेत्रत्रयाय वौषट् ।
अः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् –
नमाम्यङ्गारकं देवं रक्ताङ्गं वरभूषणम् ।
जानुस्थं वामहस्ताभ्यां चापेषुवरपाणिनम् ।
चतुर्भुजं मेषवाहं वरदं वसुधाप्रियम् ।
शक्तिशूलगदाखड्गं ज्वालपुञ्जोर्ध्वकेशकम् ॥

मेरुं प्रदक्षिणं कृत्वा सर्वदेवात्मसिद्धिदम् ।

कवचम् –
अङ्गारकश्शिरो रक्षेत् मुखं वै धरणीसुतः ।
कर्णौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ॥ १ ॥

नासिकां मे शक्तिधरः कण्ठं मे पातु भौमकः ।
भुजौ तु रक्तमाली च हस्तौ शूलधरस्तथा ॥ २ ॥

चतुर्भुजो मे हृदयं कुक्षिं रोगापहारकः ।
कटिं मे भूमिजः पातु ऊरू पातु गदाधरः ॥ ३ ॥

जानुजङ्घे कुजः पातु पादौ भौमस्सदा मम ।
सर्वाणि यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥ ४ ॥

य इदं कवचं दिव्यं सर्वशत्रुविनाशनम् ।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥ ५ ॥

सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् ॥ ६ ॥

ऋणबन्धनमुक्तिर्वै सत्यमेव न संशयः ।
स्तोत्रपाठस्तु कर्तव्यो देवस्याग्रे समाहितः ॥ ७ ॥

रक्तगन्धाक्षतैः पुष्पैर्धूपदीपगुडोदनैः ।
मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा ॥ ८ ॥

ब्राह्मणान्भोजयेत्पश्चाच्चतुरो द्वादशाथवा ।
अनेन विधिना यस्तु कृत्वा व्रतमनुत्तमम् ॥ ९ ॥

व्रतं तदेवं कुर्वीत सप्तवारेषु वा यदि ।
तेषां शस्त्राण्युत्पलानि वह्निस्स्याच्चन्द्रशीतलः ॥ १० ॥

नचैनं व्यथयन्त्यस्मान्मृगपक्षिगजादयः ।
महान्धतमसे प्राप्रे मार्ताण्डस्योदयादिव ॥ ११ ॥

विलयं यान्ति पापानि शतजन्मार्जितानि वै ॥ १२ ॥

इति अङ्गारक कवचः ।

Also Read:

Sri Angaraka (Mangal) Kavacham Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Angaraka (Mangal) Kavacham Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top