Templesinindiainfo

Best Spiritual Website

Sri Budha Kavacham Lyrics in Hindi

Sri Budha Kavacham in Hindi:

॥ श्री बुध कवचम् ॥
अस्य श्रीबुधकवचस्तोत्रमहामन्त्रस्य कात्यायन ऋषिः । अनुष्टुप् छन्दः । बुधो देवता । यं बीजम् । क्लीं शक्तिः । ऊं कीलकम् । मम बुधग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः ॥

बां अङ्गुष्ठाभ्यां नमः ।
बीं तर्जनीभ्यां नमः ।
बूं मध्यमाभ्यां नमः ।
बैं अनामिकाभ्यां नमः ।
बौं कनिष्ठिकाभ्यां नमः ।
बः करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः ॥

बां हृदयाय नमः ।
बीं शिरसे स्वाहा ।
बूं शिखायै वषट् ।
बैं कवचाय हुं ।
बौं नेत्रत्रयाय वौषट् ।
बः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् –
बुधः पुस्तकहस्तश्च कुङ्कुमस्य समद्युतिः ।
बुधं ज्ञानमयं सर्वं कुङ्कुमाभं चतुर्भुजम् ।
खड्गशूलगदापाणिं वरदाङ्कितमुद्रितम् ।
पीताम्बरधरं देवं पीतमाल्यानुलेपनम् ॥

वज्राद्याभरणं चैव किरीट मकुटोज्ज्वलम् ।
श्वेताश्वरथमारूढं मेरुं चैव प्रदक्षिणम् ॥

कवचम्-
बुधः पातु शिरोदेशं सौम्यः पातु च फालकम् ।
नेत्रे ज्ञानमयः पातु श्रुती पातु विधूद्भवः ॥ १ ॥

घ्राणं गन्धधरः पातु भुजौ पुस्तकभूषितः ।
मध्यं पातु सुराराध्यः पातु नाभिं खगेश्वरः ॥ २ ॥

कटिं कालात्मजः पातु ऊरू पातु सुरेश्वरः ।
जानुनी रोहिणीसूनुः पातु जङ्घे फलप्रदः ॥ ३ ॥

पादौ बाणासनः पातु पातु सौम्योऽखिलं वपुः ।
एषोऽपि कवचः पुण्यः सर्वोपद्रवशान्तिदः ॥ ४ ॥

सर्वरोगप्रशमनः सर्वदुःखनिवारकः ।
आयुरारोग्यशुभदः पुत्रपौत्रप्रवर्धनः ॥ ५ ॥

यः पठेत्कवचं दिव्यं शृणुयाद्वा समाहितः ।
सर्वान्कामानवाप्नोति दीर्घमायुश्च विन्दतिः ॥ ६ ॥

इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं ।

Also Read:

Sri Budha Kavacham Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Budha Kavacham Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top