Templesinindiainfo

Best Spiritual Website

Sri Budha Stotram Lyrics in Hindi

Sri Budha Stotram in Hindi:

॥ श्री बुध स्तोत्रम् ॥
ध्यानम् ।
भुजैश्चतुर्भिर्वरदाभयासि-
गदा वहन्तं सुमुखं प्रशान्तम् ।
पीतप्रभं चन्द्रसुतं सुरेढ्यं
सिंहे निषण्णं बुधमाश्रयामि ॥

पीताम्बरः पीतवपुः किरीटी च चतुर्भुजः ।
पीतध्वजपताकी च रोहिणीगर्भसम्भवः ॥

ईशान्यादिषुदेशेषु बाणासन उदङ्मुखः ।
नाथो मगधदेशस्य मन्त्र मन्त्रार्थ तत्त्ववित् ॥

सुखासनः कर्णिकारो जैत्त्रश्चात्रेय गोत्रवान् ।
भरद्वाजऋषिप्रख्यैर्ज्योतिर्मण्डलमण्डितः ॥

अधिप्रत्यधिदेवाभ्यामन्यतो ग्रहमण्डले ।
प्रविष्टस्सूक्ष्मरूपेण समस्तवरदस्सुखी ॥

सदा प्रदक्षिणं मेरोः कुर्वाणः कामरूपवान् ।
असिदण्डौ च बिभ्राणः सम्प्राप्तसुफलप्रदः ॥

कन्याया मिथुनस्यापि राशेरधिपतिर्द्वयो ।
मुद्गधान्यप्रदो नित्यं मर्त्यामर्त्यसुरार्चितः ॥

यस्तु सौम्येन मनसा स्वमात्मानं प्रपूजयेत् ।
तस्य वश्यो भवेन्नित्यं सौम्यनामधरो बुधः ॥

बुधस्तोत्रमिदं गुह्यं वसिष्ठेनोदितं पुरा ।
दिलीपाय च भक्ताय याचमानाय भूभृते ॥

यः पठेदेकवारं चा सर्वाभीष्टमवाप्नुयात् ।
स्तोत्रराजमिदं पुण्यं गुह्याद्गुह्यतमं महत् ॥

एकवारं द्विवारं वा त्रिवारं यः पठेन्नरः ।
तस्यापस्मारकुष्ठादिव्याधिबाधा न विद्यते ॥

सर्वग्रहकृतापीडा पठितेऽस्मिन्नविद्यते ।
कृत्रिमौषधदुर्मन्त्रं कृत्रिमादिनिशाचरैः ॥

यद्यद्भयं भवेत्तत्र पठितेऽस्मिन्नविद्यते ।
प्रतिमा या सुवर्णेन लिखिता ति भुजाष्टका ॥

मुद्गधान्योपरिन्यस्त पीतवस्त्रान्विते घटे ।
विन्यस्य विधिना सम्यक् मासमेकं निरन्तरम् ॥

ये पूजयन्ति ते यान्ति दीर्घमायुः प्रजां धनम् ।
आरोग्यं भस्मगुल्मादिसर्वव्याधिविनाशनम् ॥

यं यं कामयते सम्यक् तत्तदाप्नोत्यसम्शयः ॥

Also Read:

Sri Budha Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Budha Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top