Templesinindiainfo

Best Spiritual Website

Sri Chandra Kavacham Lyrics in Hindi

Sri Chandra Kavacham in Hindi:

॥ श्री चन्द्र कवचम् ॥
अस्य श्रीचन्द्रकवचस्तोत्र महामन्त्रस्य गौतम ऋषिः । अनुष्टुप् छन्दः । सोमो देवता । रं बीजम् । सं शक्तिः । ओं कीलकम् । मम सोमग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः ।
वां अङ्गुष्ठाभ्यां नमः ।
वीं तर्जनीभ्यां नमः ।
वूं मध्यमाभ्यां नमः ।
वैं अनामिकाभ्यां नमः ।
वौं कनिष्ठिकाभ्यां नमः ।
वः करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः ।
वां हृदयाय नमः ।
वीं शिरसे स्वाहा ।
वूं शिखायै वषट् ।
वैं कवचाय हुं ।
वौं नेत्रत्रयाय वौषट् ।
वः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् –
सोमं द्विभुजपद्मं च शुक्लाम्बरधरं शुभं ।
श्वेतगन्धानुलेपं च मुक्ताभरणभूषणम् ।
श्वेताश्वरथमारूढं मेरुं चैव प्रदक्षिणम् ।
सोमं चतुर्भुजं देवं केयूरमकुटोज्ज्वलम् ।

वासुदेवस्य नयनं शङ्करस्य च भूषणम् ।
एवं ध्यात्वा जपेन्नित्यं चन्द्रस्य कवचं मुदा ॥

कवचं –
शशी पातु शिरोदेशे फालं पातु कलानिधिः ।
चक्षुषी चन्द्रमाः पातु श्रुती पातु कलात्मकः ॥ १ ॥

घ्राणं पक्षकरः पातु मुखं कुमुदबान्धवः ।
सोमः करौ तु मे पातु स्कन्धौ पातु सुधात्मकः ॥ २ ॥

ऊरू मैत्रीनिधिः पातु मध्यं पातु निशाकरः ।
कटिं सुधाकरः पातु उरः पातु शशन्धरः ॥ ३ ॥

मृगाङ्को जानुनी पातु जङ्घे पात्वमृताब्धिजः ।
पादौ हिमकरः पातु पातु चन्द्रोऽखिलं वपुः ॥ ४ ॥

एतद्धि कवचं पुण्यं भुक्तिमुक्तिप्रदायकम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ ५ ॥

इति श्रीब्रह्मवैवर्त महापुराणे दक्षिणखण्डे श्रीचन्द्रकवचः ।

Also Read:

Sri Chandra Kavacham Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Chandra Kavacham Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top