Templesinindiainfo

Best Spiritual Website

Sri Dharmasastha Ashtottara Shatanama Stotram Lyrics in Hindi

Ayyappa Ashtottara Shatanama Stotram in Hindi:

॥ श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रम् ॥

श्री पूर्णापुष्कलाम्बासमेत श्री हरिहरपुत्रस्वामिने नमः ॥

ध्यानम् ॥

कल्हारोज्वल नीलकुन्तलभरं कालांबुद श्यामलं
कर्पूराकलिताभिराम वपुषं कान्तेन्दुबिम्बाननं ।
श्री दण्डाङ्कुश-पाश-शूल विलसत्पाणिं मदान्त-
द्विपारूढं शत्रुविमर्दनं हृदि महा शास्तारं आद्यं भजे ॥

महाशास्ता महादेवो महादेवसुतोऽव्ययः ।
लोककर्ता लोकभर्ता लोकहर्तापरात्परः ॥ १ ॥

त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः ।
मन्त्रवेदी महावेदी मारुतो जगदीश्वरः ॥ २ ॥

लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः ।
सिम्हारूढो गजारूढो हयारूढो महेश्वरः ॥ ३ ॥

नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः ।
नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥ ४ ॥

भूतेशो भूतितो भृत्यो भुजङ्गाभरणोज्वलः ।
इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥ ५ ॥

मायादेवीसुतो मान्यो महनीयो महागुणः ।
महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥ ६ ॥

विघ्नेशो वीरभद्रेशो भैरवो षण्मुखप्रियः ।
मेरुश‍ृङ्गसमासीनो मुनिसंघनिषेवितः ॥ ७ ॥

वेदो भद्रो जगन्नाथो गणनाथो गणेश्वरः ।
महायोगी महामायी महाज्ञानी महास्थिरः ॥ ८ ॥

वेदशास्ता भूतशास्ता भीमहासपराक्रमः ।
नागहारो नागकेशो व्योमकेशः सनातनः ॥ ९ ॥

सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः ।
लोकाश्रयो गणाधीशश्चतुषष्टिकलामयः ॥ १० ॥

ऋग्यजुःसामथर्वात्मा मल्लकासुरभञ्जनः ।
त्रिमूर्ति दैत्यमथनः प्रकृतिः पुरुषोत्तमः ॥ ११ ॥

कालज्ञानी महाज्ञानी कामदः कमलेक्षणः ।
कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥ १२ ॥

संसारतापविच्छेत्ता पशुलोकभयङ्करः ।
रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥ १३ ॥

सर्वशास्त्रार्थ तत्वज्ञो नीतिमान् पापभञ्जनः ।
पुष्कलापूर्णासंयुक्तः परमात्मा सतांगतिः ॥ १४ ॥

अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली ।
भक्तानुकंपी देवेशो भगवान् भक्तवत्सलः ॥

इति श्री धर्मशास्तुः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णं ॥

Also Read:

Ayyappa Slokam – Sri Dharmasastha Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Dharmasastha Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top