Templesinindiainfo

Best Spiritual Website

Sri Ganapathi Stava Lyrics in Hindi

Sri Ganapathi Stava in Hindi:

॥ श्री गणपति स्तवः ॥
ऋषिरुवाच-
अजं निर्विकल्पं निराकारमेकं निरानन्दमानन्दमद्वैतपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम ॥ १ ॥

गुणातीतमानं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ॥ २ ॥

जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं गुणेशं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं परब्रह्मरूपं गणेशं भजेम ॥ ३ ॥

रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् ।
जगत्कारणं सर्वविद्यानिदानं परब्रह्मरूपं गणेशं नताः स्मः ॥ ४ ॥

सदा सत्ययोग्यं मुदा क्रीडमानं सुरारीन्हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजज्ञानहारं सदा विश्वरूपं गणेशं नमामः ॥ ५ ॥

तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयन्तं सदा सर्वरूपं गणेशं नमामः ॥ ६ ॥

तमः स्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मसारम् ।
मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः ॥ ७ ॥

निजैरोषधीस्तर्पयन्तं कराद्यैः सुरौघाङ्कलाभिः सुधास्राविणीभिः ।
दिनेशांशुसन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नमामः ॥ ८ ॥

प्रकाशस्वरूपं नभो वायुरूपं विकारादिहेतुं कलाधाररूपम् ।
अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ॥ ९ ॥

प्रधानस्वरूपं महत्तत्त्वरूपं धराचारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुरूपं सदा विश्वरूपं गणेशं नताः स्मः ॥ १० ॥

त्वदीये मनः स्थापयेदङ्घ्रियुग्मे जनो विघ्नसङ्घातपीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वान्तपीडां कथं वा लभेत ॥ ११ ॥

वयं भ्रामिताः सर्वथाऽज्ञानयोगादलब्धास्तवाङ्घ्रिं बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥ १२ ॥

एवं स्तुतो गणेशस्तु सन्तुष्टोऽभून्महामुने ।
कृपया परयोपेतोऽभिधातुमुपचक्रमे ॥ १३ ॥

Also Read:

Sri Ganapathi Stava Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Ganapathi Stava Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top