Templesinindiainfo

Best Spiritual Website

Sri Ganesha Bhujanga Stuti Lyrics in Sanskrit

Sri Ganesha Bhujanga Stuti in Sanskrit:

॥ श्री गणेश भुजङ्ग स्तुतिः ॥
श्रियः कार्यनिद्धेर्धियस्सत्सुकर्धेः
पतिं सज्जनानां गतिं दैवतानाम् ।
नियन्तारमन्तस्स्वयं भासमानं
भजे विघ्नराजं भवानीतनूजम् ॥ १ ॥

गणानामधीशं गुणानां सदीशं
करीन्द्राननं कृत्तकन्दर्पमानम् ।
चतुर्बाहुयुक्तं चिदानन्दसक्तं
भजे विघ्नराजं भवानीतनूजम् ॥ २ ॥

जगत्प्राणवीर्यं जनत्राणशौर्यं
सुराभीष्टकार्यं सदा क्षोभ्य धैर्यम् ।
गुणिश्लाघ्यचर्यं गणाधीशवर्यं
भजे विघ्नराजं भवानीतनूजम् ॥ ३ ॥

चलद्वक्त्रतुण्डं चतुर्बाहुदण्डं
मदास्राविगण्डं मिलच्चन्द्रखण्डम् ।
कनद्दन्तकाण्डं मुनित्राणशौण्डं
भजे विघ्नराजं भवानीतनूजम् ॥ ४ ॥

निरस्तान्तरायं परिध्वस्तमायं
चिदानन्दकायं सदा मत्सहायम् ।
अजस्रानपायं त्वजञ्चाप्रमेयं
भजे विघ्नराजं भवानीतनूजम् ॥ ५ ॥

वरं चाऽभयं पाश पुस्ताक्षसूत्र
सृणीन्बीजपूरं करैः पङ्कजं च ।
दधानं सरोजासनं शक्तियुक्तं
भजे विघ्नराजं भवानीतनूजम् ॥ ६ ॥

महामूषकारूढमाधारशक्त्या
समाराधिताङ्घ्रिं महामातृकाभिः ।
समावृत्यसंसेवितं देवताभि-
र्भजे विघ्नराजं भवानीतनूजम् ॥ ७ ॥

श्रुतीनां शिरोभिस्स्तुतं सर्वशक्तं
पतिं सिद्धिबुद्ध्योर्गतिं भूसुराणाम् ।
सुराणां वरिष्ठं गणानामधीशं
भजे विघ्नराजं भवानीतनूजम् ॥ ८ ॥

गणाधीशसाम्राज्यसिंहासनस्थं
समाराध्यमब्जासनाद्यैस्समस्तैः ।
फणाभृत्समाबद्धतुण्डं प्रसन्नं
भजे विघ्नराजं भवानीतनूजम् ॥ ९ ॥

लसन्नागकेयूरमञ्जीरहारं
भुजङ्गाधिराजस्फुरत्कर्णपूरम् ।
कनद्भूतिरुद्राक्षरत्नादिभूषं
भजे विघ्नराजं भवानीतनूजम् ॥ १० ॥

स्फुरद्व्याघ्रचर्मोत्तरीयोपधानं
तुरीयाद्वयात्मानुसन्धानधुर्यम् ।
तपोयोगिवर्यं कृपोदारचर्यं
भजे विघ्नराजं भवानीतनूजम् ॥ ११ ॥

निजज्योतिषाद्योतयन्तं समस्तं
दिविज्योतिषां मण्डलं चात्मनां च ।
भजद्भक्तसौभाग्य सिद्ध्यर्थ बीजं
भजे विघ्नराजं भवानीतनूजम् ॥ १२ ॥

सदावासकल्याणपुर्यां निवासं
गुरोराज्ञया कुर्वताभूसुरेण ।
महायोगिवेल्नाडुसिद्धान्तिना य-
त्कृतं स्तोत्रमिष्टार्थदं तत्पठध्वम् ॥ १३ ॥

इति श्रीसुब्रह्मण्ययोगिविरचितं श्रीगणेशभुजङ्ग स्तोत्रम् ।

Also Read:

Sri Ganesha Bhujanga Stuti Lyrics in English | Sanskrit |Kannada | Telugu | Tamil

Sri Ganesha Bhujanga Stuti Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top