Templesinindiainfo

Best Spiritual Website

Sri Ganesha Manasa Puja Lyrics in Sanskrit

Sri Ganesha Manasa Puja in Sanskrit:

॥ श्री गणेश मानस पूजा ॥
गृत्समद उवाच –
विघ्नेशवीर्याणि विचित्रकाणि वंदीजनैर्मागधकैः स्मृतानि ।
श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥ १ ॥

एवं मया प्रार्थित विघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः ।
तं निर्गतं वीक्ष्य नमन्ति देवाः शम्भ्वादयो योगिमुखास्तथाऽहम् ॥ २ ॥

शौचादिकं ते परिकल्पयामि हेरम्ब वै दन्तविशुद्धिमेवम् ।
वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं देवं सभायां विनिवेशयामि ॥ ३ ॥

द्विजादिसर्वैरभिवन्दितं च शुकादिभिर्मोदसुमोदकाद्यैः ।
सम्भाष्य चालोक्य समुत्थितं तं सुमण्डपं कल्प्य निवेशयामि ॥ ४ ॥

रत्नैः सुदीप्तैः प्रतिबिम्बितं तं पश्यामि चित्तेन विनायकं च ।
तत्रासनं रत्नसुवर्णयुक्तं संकल्प्य देवं विनिवेशयामि ॥ ५ ॥

सिद्ध्या च बुद्ध्या सह विघ्नराज पाद्यं कुरु प्रेमभरेण सर्वैः ।
सुवासितं नीरमथो गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥ ६ ॥

ततः सुवस्त्रेण गणेशमादौ सम्प्रोक्ष्य दूर्वादिभिरर्चयामि ।
चित्तेन भावप्रिय दीनबन्धो मनो विलीनं कुरु ते पदाब्जे ॥ ७ ॥

कर्पूरतैलादिसुवासितं तु सुकल्पितं तोयमथो गृहाण ।
आचम्य तेनैव गजानन त्वं कृपाकटाक्षेण विलोकयाशु ॥ ८ ॥

प्रवालमुक्ताफलहाटकाद्यैः सुसंस्कृतं ह्यन्तरभावकेन ।
अनर्घ्यमर्घ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुण्ढे ॥ ९ ॥

सौगन्ध्ययुक्तं मधुपर्कमाद्यं संकल्पितं भावयुतं गृहाण ।
पुनस्तथाऽऽचम्य विनायक त्वं भक्तांश्च भक्तेश सुरक्षयाशु ॥ १० ॥

सुवासितं चंपक जातिकाद्यैस्तैलं मया कल्पितमेव ढुण्ढे ।
गृहाण तेन प्रविमर्दयामि सर्वांगमेवं तव सेवनाय ॥ ११ ॥

ततः सुखोष्णेन जलेन चाहमनेकतीर्थाहृतकेन ढुण्ढिम् ।
चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥ १२ ॥

ततः पयस्स्नानमचिन्त्यभाव गृहाण तोयस्य तथा गणेश ।
पुनर्दधिस्नानमनामयं त्वं चित्तेन दत्तं च जलस्य चैव ॥ १३ ॥

ततो घृतस्नानमपारवन्द्य सुतीर्थजं विघ्नहर प्रसीद ।
गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥ १४ ॥

सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुण्ढे ।
ततो जलस्नानमघापहन्तृ विघ्नेश मायां मम वारयाशु ॥ १५ ॥

सुयक्षपंकस्थमथो गृहाण स्नानं परेशाधिपते ततश्च ।
कौमण्डलीसम्भवजं कुरुष्व विशुद्धमेवं परिकल्पितं तु ॥ १६ ॥

ततस्तु सूक्तैर्मनसा गणेशं सम्पूज्य दूर्वादिभिरल्पभावैः ।
अपारकैर्मण्डलभूतब्रह्मणस्पत्यादिकैस्तं ह्यभिषेचयामि ॥ १७ ॥

ततः सुवस्त्रेण तु प्रोञ्छनं वै गृहाण चित्तेन मयानुकल्पितम् ।
ततो विशुद्धेन जलेन ढुण्ढे ह्याचान्तमेवं कुरु विघ्नराज ॥ १८ ॥

अग्नौ विशुद्धे तु गृहाण वस्त्रे ह्यनर्घ्यमौल्ये मनसा मया ते ।
दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥ १९ ॥

आचम्य विघ्नेश पुनस्तथैव चित्तेन दत्तं मुखमुत्तरीयम् ।
गृहाण भक्तप्रतिपालक त्वं नमो यथा तारकसंयुतं तु ॥ २० ॥

यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् ।
भावेन दत्तं गणनाथ तत्त्वं गृहाण भक्तोद्धृतिकारणाय ॥ २१ ॥

आचान्तमेवं मनसा प्रदत्तं कुरुष्व शुद्धेन जलेन ढुण्ढे ।
पुनश्च कौमण्डलकेन पाहि विश्वं प्रभो खेलकरं सदा ते ॥ २२ ॥

उद्यद्दिनेशाभमथो गृहाण सिन्दूरकं ते मनसा प्रदत्तम् ।
सर्वाङ्गसंलेपनमादराद्वै कुरुष्व हेरंब च तेन पूर्णम् ॥ २३ ॥

सहस्रशीर्षं मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै ।
अनेकरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥ २४ ॥

विचित्ररत्नैः कनकेन ढुण्ढे युतानि चित्तेन मया परेश ।
दत्तानि नानापदकुण्डलानि गृहाण शूर्पश्रुतिभूषणाय ॥ २५ ॥

शुण्डाविभूषार्थमनन्तखेलिन् सुवर्णजं कञ्चुकमागृहाण ।
रत्नैश्च युक्तं मनसा मया यद्दत्तं प्रभो तत्सफलं कुरुष्व ॥ २६ ॥

सुवर्णरत्नैश्च युतानि ढुण्ढे सदैकदन्ताभरणानि कल्प ।
गृहाण चूडाकृतये परेश दत्तानि दन्तस्य च शोभनार्थम् ॥ २७ ॥

रत्नैः सुवर्णेन कृतानि तानि गृहाण चत्वारि मया प्रकल्प्य ।
संभूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ २८ ॥

विचित्ररत्नैः खचितानि ढुण्ढे केयूरकाणि ह्यथ कल्पितानि ।
सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥ २९ ॥

विचित्ररत्नैः खचितं सुवर्णसम्भूतकं गृह्य मया प्रदत्तम् ।
तमाङ्गुलीष्वङ्गुलिकं गणेश चित्तेन संशोभय तत्परेश ॥ ३० ॥

प्रवालमुक्ताफलरत्नजैस्त्वं सुवर्णसूत्रैश्च गृहाण कण्ठे ।
चित्तेन दत्ता विविधाश्च माला उरूदरे शोभय विघ्नराज ॥ ३१ ॥

चन्द्रं ललाटे गणनाथ पूर्णं वृद्धिक्षयाभ्यां तु विहीनमाद्यम् ।
संशोभय त्वं वरसंयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ ३२ ॥

चिन्तामणिं चिन्तितदं परेश हृद्देशगं ज्योतिर्मयं कुरुष्व ।
मणिं सदानन्दसुखप्रदं च विघ्नेश दीनार्थद पालयस्व ॥ ३३ ॥

नाभौ फणीशं च सहस्रशीर्षं संवेष्टनेनैव गणाधिनाथ ।
भक्तं सुभूषं कुरु भूषणेन वरप्रदानं सफलं परेश ॥ ३४ ॥

कटीतटे रत्नसुवर्णयुक्तां कांचीं सुचित्तेन च धारयामि ।
विघ्नेश ज्योतिर्गणदीपनीं ते प्रसीद भक्तं कुरु मां दयाब्धे ॥ ३५ ॥

हेरम्ब ते रत्नसुवर्णयुक्ते सुनूपुरे मञ्जिरके तथैव ।
सुकिङ्किणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥ ३६ ॥

इत्यादि नानाविधभूषणानि तवेच्छया मानसकल्पितानि ।
सम्भूषयाम्येव त्वदंगकेषु विचित्रधातुप्रभवाणि ढुण्ढे ॥ ३७ ॥

सुचन्दनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टकगन्धमुख्यैः ।
युक्तं मया कल्पितमेकदन्त गृहाण ते त्वङ्गविलेपनार्थम् ॥ ३८ ॥

लिप्तेषु वैचित्र्यमथाष्टगन्धैरंगेषु तेऽहं प्रकरोमि चित्रम् ।
प्रसीद चित्तेन विनायक त्वं ततः सुरक्तं रविमेव फाले ॥ ३९ ॥

घृतेन वै कुङ्कुमकेन रक्तान् सुतण्डुलांस्ते परिकल्पयामि ।
फाले गणाध्यक्ष गृहाण पाहि भक्तान्सुभक्तिप्रिय दीनबन्धो ॥ ४० ॥

गृहाण भो चम्पकमालतीनि जलपङ्कजानि स्थलपङ्कजानि ।
चित्तेन दत्तानि च मल्लिकानि पुष्पाणि नानाविधवृक्षजानि ॥ ४१ ॥

पुष्पोपरि त्वं मनसा गृहाण हेरम्ब मन्दारशमीदलानि ।
मया सुचित्तेन च कल्पितानि ह्यपारकाणि प्रणवाकृते तु ॥ ४२ ॥

दूर्वाङ्कुरान्वै मनसा प्रदत्तांस्त्रिपंचपत्रैर्युतकांश्च स्निग्धान् ।
गृहाण विघ्नेश्वर संख्यया त्वं हीनांश्च सर्वोपरि वक्रतुण्ड ॥ ४३ ॥

दशाङ्गभूतं मनसा मया ते धूपं प्रदत्तं गणराज ढुण्ढे ।
गृहाण सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ ४४ ॥

दीपं सुवर्त्या युतमादरात्ते दत्तं मया मानसकं गणेश ।
गृहाण नानाविधजं घृतादितैलादिसंभूतममोघदृष्टे ॥ ४५ ॥

भोज्यं च लेह्यं गणराज पेयं चोष्यं च नानाविधषड्रसाढ्यम् ।
गृहाण नैवेद्यमथो मया ते सुकल्पितं पुष्टिपते महात्मन् ॥ ४६ ॥

सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण ।
कमण्डलुस्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारि ॥ ४७ ॥

ततः करोद्वर्तनकं गृहाण सौगन्ध्ययुक्तं मुखमार्जनाय ।
सुवासितेनैव सुतीर्थजेन सुकल्पितं नाथ गृहाण ढुण्ढे ॥ ४८ ॥

पुनस्तथाचम्य सुवासितं च दत्तं मया तीर्थजलं पिबस्व ।
प्रकल्प्य विघ्नेश ततः परं ते सम्प्रोञ्छनं हस्तमुखेकरोमि ॥ ४९ ॥

द्राक्षादिरम्भाफलचूतकानि खार्जूरकार्कन्धुकदाडिमानि ।
सुस्वादयुक्तानि मया प्रकल्प्य गृहाण दत्तानि फलानि ढुण्ढे ॥ ५० ॥

पुनर्जलेनैव करादिकं ते संक्षालयेऽहं मनसा गणेश ।
सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥ ५१ ॥

अष्टांगयुक्तं गणनाथ दत्तं ताम्बूलकं ते मनसा मया वै ।
गृहाण विघ्नेश्वर भावयुक्तं सदासकृत्तुण्डविशोधनार्थम् ॥ ५२ ॥

ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते ।
मन्दारकूर्पासकयुक्त-वस्त्रैरनर्घ्य-सञ्छादितके प्रसीद ॥ ५३ ॥

ततस्त्वदीयावरणं परेश सम्पूजयेऽहं मनसा यथावत् ।
नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबन्धो ॥ ५४ ॥

गृहाण लंबोदर दक्षिणां ते ह्यसंख्यभूतां मनसा प्रदत्ताम् ।
सौवर्णमुद्रादिकमुख्यभावां पाहि प्रभो विश्वमिदं गणेश ॥ ५५ ॥

राजोपचारान्विविधान्गृहाण हस्त्यश्वछत्रादिकमादराद्वै ।
चित्तेन दत्तान्गणनाथ ढुण्ढे ह्यपारसख्यान् स्थिरजङ्गमांस्ते ॥ ५६ ॥

दानाय नानाविधरूपकांस्ते गृहाण दत्तान्मनसा मया वै ।
पदार्थभूतान् स्थिरजङ्गमांश्च हेरम्ब मां तारय मोहभावात् ॥ ५७ ॥

मन्दारपुष्पाणि शमीदलानि दूर्वाङ्कुरांस्ते मनसा ददामि ।
हेरम्ब लम्बोदर दीनपाल गृहाण भक्तं कुरु मां पदे ते ॥ ५८ ॥

ततो हरिद्रामबिरं गुलालं सिन्दूरकं ते परिकल्पयामि ।
सुवासितं वस्तुसुवासभूतैर्गृहाण ब्रह्मेश्वरशोभनार्थम् ॥ ५९ ॥

ततः शुकाद्याः शिवविष्णुमुख्या इन्द्रादयः शेषमुखास्तथाऽन्ये ।
मुनीन्द्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमन्ति ढुण्ढम् ॥ ६० ॥

वामांगके शक्तियुता गणेशं सिद्धिस्तु नानाविधसिद्धि भिस्तम् ।
अत्यन्तभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥ ६१ ॥

गणेश्वरं दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः ।
विद्याभिरेवं भजते परेश मायासु साङ्ख्यप्रदचित्तरूपाः ॥ ६२ ॥

प्रमोदमोदादय एव पृष्ठे गणेश्वरं भावयुता भजन्ते ।
भक्तेश्वरा मुद्गलशम्भुमुख्याः शुकादयस्तं स्म पुरो भजन्ते ॥ ६३ ॥

गन्धर्वमुख्या मधुरं जगुश्च गणेशगीतं विविधस्वरूपम् ।
नृत्यंकलायुक्तमथो पुरस्ताच्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ ६४ ॥

इत्यादिनानाविधभावयुक्तैः संसेवितं विघ्नपतिं भजामि ।
चित्तेन बुध्वा तु निरंजनं वै करोमि नानाविधदीपयुक्तम् ॥ ६५ ॥

चतुर्भुजं पाशधरं गणेशं तथाङ्कुशं दन्तयुतं तमेवम् ।
त्रिनेत्रयुक्तं स्वभयंकरं तं महोदरं चैकरदं गजास्यम् ॥ ६६ ॥

सर्पोपवीतं गजकर्णधारं विभूतिभिः सेवितपादपद्मम् ।
ध्यायेद्गणेशं विविधप्रकारैः सुपूजितं शक्तियुतं परेशम् ॥ ६७ ॥

ततो जपं वै मनसा करोमि स्वमूलमन्त्रस्य विधानयुक्तम् ।
असंख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाण ढुण्ढे ॥ ६८ ॥

आरात्रिकां कर्पुरकादिभूतामपारदीपां प्रकरोमि पूर्णाम् ।
चित्तेन लंबोदर तां गृहाण ह्यज्ञानध्वान्ताघहरां निजानाम् ॥ ६९ ॥

वेदेषु विघ्नेश्वरकैः सुमन्त्रैः सुमन्त्रितं पुष्पदलं प्रभूतम् ।
गृहाण चित्तेन मया प्रदत्तमपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥ ७० ॥

अपारवृत्या स्तुतिमेकदन्तं गृहाण चित्तेन कृतां गणेश ।
युक्तां श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया ते ॥ ७१ ॥

प्रदक्षिणा मानसकल्पितास्ता गृहाण लम्बोदर भावयुक्ताः ।
सङ्ख्याविहीना विविधस्वरूपा भक्तान्सदा रक्ष भवार्णवाद्वै ॥ ७२ ॥

नतिं ततो विघ्नपते गृहाण साष्टांगकाद्यां विविधस्वरूपाम् ।
संख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥ ७३ ॥

न्यूनातिरिक्तं तु मया कृतं चेत्तदर्थमन्ते मनसा गृहाण ।
दूर्वाङ्कुरान्विघ्नपते प्रदत्तान् सम्पूर्णमेवं कुरु पूजनं मे ॥ ७४ ॥

क्षमस्व विघ्नाधिपते मदीयान् सदापराधान् विविधस्वरूपान् ।
भक्तिं मदीयां सफलां कुरुष्व सम्प्रार्थयेऽहं मनसा गणेश ॥ ७५ ॥

ततः प्रसन्नेन गजाननेन दत्तं प्रसादं शिरसाऽभिवन्द्य ।
स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वर मानतोऽस्मि ॥ ७६ ॥

उत्थाय विघ्नेश्वर एव तस्माद्गतस्ततस्त्वन्तरधानशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिन्तयामि ॥ ७७ ॥

सर्वान्नमस्कृत्य ततोऽहमेव भजामि चित्तेन गणाधिपं तम् ।
स्वस्थानमागत्य महानुभावैः भक्तैर्गणेशस्य च खेलयामि ॥ ७८ ॥

एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि ।
तेनैव तुष्टः प्रददातु भावं विश्वेश्वरो भक्तिमयं तु मह्यम् ॥ ७९ ॥

गणेशपादोदकपानकं च उच्छिष्टगन्धस्य सुलेपनं तु ।
निर्माल्यसन्धारणकं सुभोज्यं लंबोदरस्यास्तु हि भुक्तशेषम् ॥ ८० ॥

यं यं करोम्येव तदेव दीक्षा गणेश्वरस्यास्तु सदा गणेश ।
प्रसीद नित्यं तवपादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥ ८१ ॥

ततस्तु शय्यां परिकल्पयामि मन्दारकूर्पासकवस्त्रयुक्ताम् ।
सुवासपुष्पादिभिरर्चितां ते गृहाण निद्रां कुरु विघ्नराज ॥ ८२ ॥

सिद्ध्या च बुद्ध्या सहितं गणेश सुनिद्रितं वीक्ष्य तथाऽहमेव ।
गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ ८३ ॥

एतादृशं सौख्यममोघशक्ते देहि प्रभो मानसजं गणेश ।
मह्यं च तेनैव कृतार्थरूपो भवामि भक्तिरसलालसोऽहम् ॥ ८४ ॥

गार्ग्य उवाच –
एवं नित्यं महाराज गृत्समादो महायशाः ।
चकार मानसीं पूजां योगीन्द्राणां गुरुस्स्वयम् ॥ ८५ ॥

य एतां मानसीं पूजां करिष्यति नरोत्तमः ।
पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ८६ ॥

श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः ।
स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७ ॥

यद्यदिच्छति तत्तद्वै सफलं तस्य जायते ।
अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८ ॥

इति श्रीमदान्त्ये मौद्गल्ये गणेशमानसपूजा ।

Also Read:

Sri Ganesha Manasa Puja Lyrics in English | Sanskrit | Kannada | Telugu | Tamil

Sri Ganesha Manasa Puja Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top