Templesinindiainfo

Best Spiritual Website

Sri Gopala Stava Lyrics in Hindi | Sri Krishna Slokam

Sri Gopala Stava in Hindi:

॥ श्री गोपाल स्तवः ॥

येन मीनस्वरूपेण वेदास्संरक्षिताः पुरा ।
स एव वेदसंहर्ता गोपालश्शरणं मम ॥ १ ॥

पृष्ठे यः कूर्मरूपेण दधार धरणीतलम् ।
स एव सृष्टिसंहर्ता गोपालश्शरणं मम ॥ २ ॥

वराहरूपस्सम्भूत्वा दम्ष्टाग्रे यो महीं दधौ ।
स भूमिभारहरणो गोपालश्शरणं मम ॥ ३ ॥

जग्राह यो नृसिंहस्य रूपं प्रह्लादहेतवे ।
स योद्धुमुद्यतस्सम्य-ग्गोपालश्शरणं मम ॥ ४ ॥

येन वामनरूपेण वञ्चितो बलि भूमिपः ।
स एव गोपनारीभि-र्गोपालश्शरणं मम ॥ ५ ॥

येनेयं जामदग्न्येन पृथ्वी निःक्षत्रिया कृता ।
स एव क्षत्रियहितो गोपालश्शरणं मम ॥ ६ ॥

दशास्यो दाशरथिना येन रामेण मारितः ।
स पञ्चास्यप्राप्तबलो गोपालश्शरणं मम ॥ ७ ॥

कालिन्दी कर्षिता येन रामरूपेण कौतुकात् ।
तज्जलक्रीडनासक्तो गोपालश्शरणं मम ॥ ८ ॥

येन बौद्धस्वरूपेण लोकाः पाषण्डमार्पिताः ।
स एव पाषण्डहरो गोपालश्शरणं मम ॥ ९ ॥

गमिष्यन्ति क्षयं येन राक्षसाः कल्किरूपिणा ।
स राक्षसगतेर्दाता गोपालश्शरणं मम ॥ १० ॥

गोवर्धनो गिरिर्येन स्थापितः कञ्जवत्करे ।
उलूखलेन नसितो गोपालश्शरणं मम ॥ ११ ॥

एकादश रूपधाम्नामावलिं यो लिखेद्धृदि ।
कृष्णप्रसादयुक्तश्च स याति परमां गतिम् ॥ १२ ॥

इति श्रीरघुनाथाचार्यविरचः श्रीगोपालस्तवः ।

Also Read:

Sri Gopala Stavah Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Gopala Stava Lyrics in Hindi | Sri Krishna Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top