मुरुकाष्टकम् Lyrics in Hindi:
ॐ श्री गणेशाय नमः
मुरुकष्षण्मुखस्स्कन्दः सुब्रह्मण्यश्शिवात्मजः ।
वल्लीसेनापतिः पातु विघ्नराजानुजस्सदा ॥ १॥
मुरुक श्रीमतान्नाथ भोगमोक्षप्रद प्रभो ।
देवदेव महासेन पाहि पाहि सदा विभो ॥ २॥
मुरुकं मुक्तिदं देवं मुनीनां मोदकं प्रभुम् ।
मोचकं सर्वदुःखानां मोहनाशं सदा नुमः ॥ ३॥
मुरुकेण मुकुन्देन मुनीनां हार्दवासिना ।
वल्लीशेन महेशेन पालितास्सर्वदा वयम् ॥ ४॥
मुरुकाय नमः प्रातः मुरुकाय नमो निशि ।
मुरुकाय नमः सायं मुरुकाय नमो नमः ॥ ५॥
मुरुकात्परमात्सत्याद्गाङ्गेयाच्छिखिवाहनात् ।
गुहात्परं न जानेऽहं तत्वं किमपि सर्वदा ॥ ६॥
मुरुकस्य महेशस्य वल्लीसेनापतेः प्रभोः ।
चिदम्बरविलासस्य चरणौ सर्वदा भजे ॥ ७॥
मुरुके देवसेनेशे शिखिवाहे द्विषड्भुजे ।
कृत्तिकातनये शम्भौ सर्वदा रमतां मनः ॥ ८॥
इति मुरुकाष्टकं सम्पूर्णम् ॥
Sri Muruka Ashtakam Lyrics in Hindi | मुरुकाष्टकम्