Templesinindiainfo

Best Spiritual Website

Sri Radha Krishna Ashtakam Lyrics in Hindi

Shri Radha Krishna Ashtakam in Hindi:

॥ श्री राधाकृष्णाष्टकम् ॥

यः श्रीगोवर्धनाद्रिं सकलसुरपतींस्तत्रगोगोपबृन्दं
स्वीयं संरक्षितुं चेत्यमरसुखकरं मोहयन् सन्दधार ।
तन्मानं खण्डयित्वा विजितरिपुकुलो नीलधाराधराभः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ १ ॥

यं दृष्ट्वा कंसभूपः स्वकृतकृतिमहो संस्मरन्मन्त्रिवर्यान्
किं वा पूर्वं मयेदं कृतमिति वचनं दुःखितः प्रत्युवाच ।
आज्ञप्तो नारदेन स्मितयुतवदनः पूरयन्सर्वकामान्
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ २ ॥

येन प्रोद्यत्प्रतापा नृपतिकुलभवाः पाण्डवाः कौरवाब्धिं
तीर्त्वा पारं तदीयं जगदखिलनृणां दुस्तरञ्चेति जग्मुः ।
तत्पत्नीचीरवृद्धिप्रविदितमहिमा भूतले भूपतीशः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ३ ॥

यस्मै चोद्धृत्य पात्राद्दधियुतनवनीतं करैर्गोपिकाभि-
र्दत्तं तद्भावपूर्तौ विनिहितहृदयस्सत्यमेवं तिरोधात् ।
मुक्तागुञ्जावलीभिः प्रचुरतमरुचिः कुण्डलाक्रान्तगण्डः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ४ ॥

यस्माद्विश्वाभिरामादिह जननविधौ सर्वनन्दादिगोपाः
संसारार्तेर्विमुक्ताः सकलसुखकराः सम्पदः प्रापुरेव ।
इत्थं पूर्णेन्दुवक्त्रः कलकमलदृशः स्वीयजन्म स्तुवन्तः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ५ ॥

यस्य श्रीनन्दसूनोः व्रजयुवतिजनाश्चागता भर्तृपुत्रां-
स्त्यक्त्वा श्रुत्वा समीपे विचकितनयनाः सप्रमोदाः स्वगेहे ।
रन्तुं रासादिलीला मनसिजदलिता वेणुनादं च रम्यं
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ६ ॥

यस्मिन् दृष्टे समस्ते जगति युवतयः प्राणनाथव्रताया-
स्ता अप्येवं हि नूनं किमपि च हृदये कामभावं दधत्यः ।
तत्स्नेहाब्धिं वपुश्चेदविदितधरणौ सूर्यबिम्बस्वरूपाः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ७ ॥

यः स्वीये गोकुलेऽस्मिन्विदितनिजकुलोद्भूतबालैः समेतो
मातर्येवं चकार प्रसृततमगुणान्बाललीलाविलासान् ।
हत्वा वत्सप्रलम्बद्विविदबकखरान्गोपबृन्दं जुगोप
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ८ ॥

कृष्णाराधाष्टकं प्रातरुत्थाय प्रपठेन्नरः ।
य एवं सर्वदा नूनं स प्राप्नोति परां गतिम् ॥ ९ ॥

इति श्रीरघुनाथचार्य विरचितं श्रीराधाकृष्णाष्टकम् ।

Also Read:

Sri Radha Krsnastakam Lyrics in Hindi | English | Kannada | Telugu | Tamil

Sri Radha Krishna Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top