Templesinindiainfo

Best Spiritual Website

Sri Raghava Ashtakam Lyrics in Hindi

Shri Raghavashtakam Text in Hindi:

॥ राघवाष्टकम् ॥

राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं
जानकीवदनारविन्द-दिवाकरं गुणभाजनम् ।
वालिसूनु-हितैषिणं हनुमत्प्रियं कमलेक्षणं
यातुधान-भयंकरं प्रणमामि राघवकुञ्जरम् ॥ १॥

मैथिलीकुच-भूषणामल-नीलमौक्तिकमीश्वरं
रावणानुजपालनं रघुपुङ्गवं मम दैवतम् ।
नागरी-वनिताननांबुज-बोधनीय-कलेवरं
सूर्यवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ २॥

हेमकुण्डल-मण्डितामल-कण्ठदेशमरिन्दमं
शातकुंभ-मयूरनेत्र-विभूषणेन-विभूषितम् ।
चारुनूपुर-हार-कौस्तुभ-कर्णभूषण-भूषितं
भानुवंश-विवर्धनं प्रणमामि राघवकुञ्जरम् ॥ ३॥

दण्डकाख्यवने रतामर-सिद्धयोगि-गणाश्रयं
शिष्टपालन-तत्परं धृतिशालिपार्थ-कृतस्तुतिम् ।
कुंभकर्ण-भुजाभुजंगविकर्तने सुविशारदं
लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरम् ॥ ४॥

केतकी-करवीर-जाति-सुगन्धिमाल्य-सुशोभितं
श्रीधरं मिथिलात्मजाकुच-कुंकुमारुण-वक्षसम् ।
देवदेवमशेषभूत-मनोहरं जगतां पतिं
दासभूतभयापहं प्रणमामि राघवकुञ्जरम् ॥ ५॥

यागदान-समाधि-होम-जपादिकर्मकरैर्द्विजैः
वेदपारगतैरहर्निशमादरेण सुपूजितम् ।
ताटकावधहेतुमंगदतात-वालि-निषूदनं
पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम् ॥ ६॥

लीलया खरदूषणादि-निशाचराशु-विनाशनं
रावणान्तकमच्युतं हरियूथकोटि-गणाश्रयम् ।
नीरजाननमंबुजांघ्रियुगं हरिं भुवनाश्रयं
देवकार्य-विचक्षणं प्रणमामि राघवकुञ्जरम् ॥ ७॥

कौशिकेन सुशिक्षितास्त्र-कलापमायत-लोचनं
चारुहासमनाथ-बन्धुमशेषलोक-निवासिनम् ।
वासवादि-सुरारि-रावणशासनं च परांगतिं
नीलमेघ-निभाकृतिं प्रणमामि राघवकुञ्जरम् ॥ ८॥

राघवाष्टकमिष्टसिद्धिदमच्युताश्रय-साधकं
मुक्ति-भुक्तिफलप्रदं धन-धान्य-सिद्धि-विवर्धनम् ।
रामचन्द्र-कृपाकटाक्षदमादरेण सदा जपेत्
रामचन्द्र-पदांबुजद्वय-सन्ततार्पित-मानसः ॥ ९॥

राम राम नमोऽस्तु ते जय रामभद्र नमोऽस्तु ते
रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते ।
देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते
वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते ॥ १०॥

॥ इति श्रीराघवाष्टकं संपूर्णम् ॥

Sri Raghava Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top