Templesinindiainfo

Best Spiritual Website

Sri Rama Dwadasa Nama Stotram Lyrics in Hindi

Sri Raama Dwadasa Nama Stotram in Hindi:

॥ श्री राम द्वादशनाम स्तोत्रम् ॥
प्रथमं श्रीधरं विद्याद्द्वितीयं रघुनायकं ।
तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥ १ ॥

पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिं ।
सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥ २ ॥

नवमं जलदश्यामं दशमं लक्ष्मणाग्रजं ।
एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥ ३ ॥

द्वादशैतानि नामानि यः पठेछ्रद्धयान्वितः ।
अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्र्यनाशनम् ॥ ४ ॥

अरण्य़े चैव सङ्ग्रामे अग्नौ भयनिवारणं ।
ब्रह्महत्या सुरापानं गोहत्याऽऽदि निवारणम् ॥ ५ ॥

सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणं ।
ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः ।
अश्वमेधशतं पुण्यं ब्रह्मलोके गमिष्यति ॥ ६ ॥

इति श्री स्कान्दपुराणे उत्तरखण्डे श्री उमामहेश्वरसंवादे श्री राम द्वादशनामस्तोत्रं सम्पूर्णम् ॥

Also Read:

Sri Rama Dwadasa Nama Stotram Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Rama Dwadasa Nama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top