Templesinindiainfo

Best Spiritual Website

Sri Ratnagarbha Ganesha Vilasa Stotram Lyrics in Hindi

Sri Ratnagarbha Ganesha Vilasa Stotram in Hindi:

॥ श्री रत्नगर्भ गणेश विलास स्तोत्रम् ॥
वामदेवतनूभवं निजवामभागसमाश्रितं
वल्लभामाश्लिष्यतन्मुखवल्गुवीक्षणदीक्षितम् ।
वातनन्दनवाञ्छितार्थ विधायिनं सुखदायिनं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ १ ॥

कारणं जगतां कलाधरधारिणं शुभकारिणं
काय कान्तिजितारुणं कृतभक्तपापविदारणम् ।
वादिवाक्सहकारिणं वाराणसीसञ्चारिणं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ २ ॥

मोहसागरतारकं मायाविकुहनावारकं
मृत्युभयपरिहारकं रिपुकृत्यदोषनिवारकम् ।
पूजकाशापूरकं पुण्य़ार्थसत्कृतिकारकं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ३ ॥

आखुदैत्यरथाङ्गमरुणमयूखमर्थिसुखार्थिनं
शेखरीकृत चन्द्ररेखमुदारसुगुणमदारुणम् ।
श्रीखनिं श्रीत भक्त निर्जरशाखिनं लेखावनं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ४ ॥

तुङ्गमूषकवाहनं सुरपुङ्गवारिविमोहनं
मङ्गलायतनं महाजनभङ्गशान्तिविधायिनम् ।
अङ्गजान्तकनन्दनं सुखभृङ्गपद्मोदञ्चनं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ५ ॥

राघवेश्वररक्षकं रक्षौघदक्षणशिक्षकं
श्रीघनं श्रित मौनिवचनामोघतासम्पादनम् ।
श्लाघनीयदयागुणं मघवत्तपःफलपूरणं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ६ ॥

कञ्चनश्रुति गोप्यभाव मकिञ्चनाम्श्च दयारसै-
स्सिञ्चतानिजवीक्षणेन समञ्चितार्थसुखास्पदम् ।
पञ्चवक्त्रसुतं सुरद्विड्वञ्चनादृतकौशलं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ७ ॥

यच्छतक्रतुकामितं प्रायच्छदर्चितमादरा-
द्यच्छतच्छदसाम्यमन्वनुगच्छतीच्छतिसौहृदम् ।
तच्छुभम्युकराम्बुजं तव दिक्पति श्रियमर्थिने
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ८ ॥

राजराजकिरीटकोटि विराजमानमणिप्रभा
पुञ्जरञ्जितमञ्जुलाङ्घ्रिसरोजमजवृजनावहम् ।
भञ्जकं दिविषद्द्विषामनुरञ्जकं मुनिसन्तते-
र्वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ९ ॥

शिष्टकष्टनिबर्हणं सुरजुष्ट निजपदविष्टरं
दुष्टशिक्षण धूर्वहं मुनिपुष्टितुष्टीष्टप्रदम् ।
अष्टमूर्तिसुतं सुकरुणा विष्टमविनष्टादरं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ १० ॥

शुण्ठशुष्कवितर्कहरणाकुण्ठशक्तिदमर्थिने
शाठ्यविरहितवितरणं श्रीकण्ठकृतसम्भाषणम् ।
काठकश्रुति गोचरं कृत माठपत्यपरीक्षणं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ११ ॥

पुण्डरीककृताननं शशिखण्डकलितशिखण्डं
कुण्डलीश्वरपण्डितोदरमण्डजेशाभीष्टदम् ।
दण्डपाणिभयापहं मुनिमण्डली परिमण्डनं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ १२ ॥

गूढमाम्नायाशयं परिलीढमर्थिमनोरथै-
र्गाढमाश्लिष्टं गिरीश गिरीशजाभ्यां सादरम् ।
प्रौढसरसकवित्वसिद्धिद मूढनिजभक्तावनं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ १३ ॥

पाणिधृतपाशाङ्कुशं गीर्वाणगणसन्दर्शकं
श्रोणदीधितिमप्रमेयमपर्णयापरिपोषितम् ।
काणखञ्जकुणीष्टदं विश्राणितद्विजणामितं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ १४ ॥

भूतभव्यभवद्विभुं परिधूतपातकमीशसं-
जातमङ्घ्रि विलासजितकञ्जातमजितमरातिभिः ।
शीतरश्मिरवीक्षणं निर्गीतमाम्नायोक्तिभि-
र्वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ १५ ॥

प्रार्थनीयपदं महात्मभिरर्थितं पुरवैरिणा-
ऽनाथवर्ग मनोरथानपि सार्थयन्तमहर्निशम् ।
पान्थसत्पथदर्शकं गणनाथमस्मद्दैवतं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ १६ ॥

खेदशामकसुचरितं स्वाभेदबोधकमद्वयं
मोदहेतु गुणाकरं वाग्वादविजयदमैश्वरम् ।
श्रीदमनुपमसौहृदं सम्भेदकं रिपुसन्तते-
र्वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ १७ ॥

मुग्धमौग्ध्यनिवर्तकं रुचिमुग्धमुर्वनुकम्पया
दिग्धमुद्धृतपादनतजनमुद्धरन्तमिमं चमाम् ।
शुद्धचित्सुख विग्रहं परिशुद्धवृत्यभिलक्षितं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ १८ ॥

सानुकम्पमनारतं मुनिमानसाब्जमरालकं
दीनदैन्यविनाशकं सितभानुरेखाशेखरम् ।
गानरसविद्गीत सुचरितमेनसामपनोदकं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ १९ ॥

कोपतापनिरासकं सामीप्यदं निजसत्कथा-
लापिनां मनुजापिजनतापापहरमखिलेश्वरम् ।
सापराधजनायशापदमापदां परिहारकं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ २० ॥

रिप्फगेषु खगेषुजातो दुष्फलं समवाप्नुया-
त्सत्फलाय गणेशमर्चतु निष्फलं नतदर्पणम् ।
यः फलीभूतः क्रतूनां तत्फलानामीश्वरं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ २१ ॥

अम्बरं यद्वद्विनिर्मलमम्बुदैराच्छाद्यते
बिम्बभूत मुमुष्य जगतस्साम्ब सुतमज्ञानतः ।
तं बहिस्सङ्गूहितं हेरम्बमालम्बं सतां
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ २२ ॥

डम्भकर्माचरणकृतसौरम्भयाजिमुखे मनु-
स्तम्भकारिणमङ्गनाकुचकुम्भपरिरम्भातुरैः ।
शम्भुनुतमाराधितं कृति सम्भवायच कामिभि-
र्वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ २३ ॥

स्त्ॐइ भूतगणेश्वरं सप्रेममात्मस्तुतिपरे
कामितप्रदमर्थिने धृतसोममभयदमाश्विने ।
श्रीमतानवरात्रदीक्षोद्दामवैभवभावितं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ २४ ॥

आयुरारोग्यादिकामितदायिनं प्रतिहायनं
श्रेयसे सर्वैर्युगादौ भूयसे सम्भावितम् ।
कायजीव वियोग कालापाय हरमन्त्रेश्वरं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ २५ ॥

वैरिषट्कनिरासकं कामारिकामितजीवितं
शौरिचिन्ताहारकं कृतनारिकेलाहारकम् ।
दूरनिर्जितपातकं संसारसागरसेतुकं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ २६ ॥

कालकालकलाभवं कलिकालिकाघविरोधिनं
मूलभूतममुष्यजगतः श्रीलतोपघ्नायितम् ।
कीलकं मन्त्रादिसिद्धे पालकं मुनिसन्तते
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ २७ ॥

भावुकारम्भावसरसम्भावितं भगेप्सितं
सेवका वनदीक्षितं सहभावमोजन्तेजसोः ।
पावनं देवेषु सामस्तावकेष्टविधायकं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ २८ ॥

काशिकापुरकलितनिवसति मीशमस्मच्चेतसः
पाशिशिक्षा पारवश्यविनाशकं शशिभासकम् ।
केशवादिसमर्चितं गौरीशगुप्त महादनं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ २९ ॥

पेषकं पापस्य दुर्जनशोषकं सुविशेषकं
पोषकं सुजनस्य सुन्दरवेषकं निर्दोषकम् ।
मूषकं त्वधिरुह्यभक्त मनीषितपत्रिपादकं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ३० ॥

वासवादिसुरार्चितं कृतवासुदेवाभीप्सितं
भासमान मुरुप्रभाभिरुपासकाधिकसौहृदम् ।
ह्रासकं दुरहङ्कृतेर्निर्यासकं रक्षस्तते-
र्वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ३१ ॥

बाहुलेयगुरुं त्रयी यं प्राह सर्वगणेश्वरं
गूहितं मुनिमानसैरव्याहताधिक वैभवम् ।
आहिताग्नि हितं मनीषिभिरूहितं सर्वत्र तं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ३२ ॥

केलिजितसुरशाखिनं सुरपालिपूजितपादुकं
व्यालपरिवृढ कङ्कणं भक्तालिरक्षणदीक्षितम् ।
कालिकातनयं कलानिधि मौलिमाम्नायस्तुतं
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ३३ ॥

दक्षिणेन सुरेषुदुर्जनशिक्षणेषु पटीयसा
रक्षसामपनोदकेनमहोक्ष वाहप्रेयसा ।
रक्षिता वयमक्षराष्टकलक्षजपतो येनवै
वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ३४ ॥

रत्नगर्भगणेश्वरस्तुति नूत्न पद्यततिं पठे-
द्यत्नवान्यः प्रतिदिनं द्राक्प्रत्नवाक्सदृशार्थदाम् ।
रत्नरुक्मसुखोच्छ्रयं सारत्न विरहितमाप्नुया-
द्वारणाननमाश्रये वन्दारुविघ्न निवारणम् ॥ ३५ ॥

सिद्धिनायकसंस्तुतिं सिद्धान्ति सुब्रह्मण्य हृ-
च्चुद्धये समुदीरितां वाग्बुद्धिबलसन्दायिनीम् ।
सिद्धये पठतानु वासरमीप्सितस्य मनीषिणः
श्रद्धया निर्निघ्न सम्पद्वृद्धिरपि भवितायतः ॥ ३६ ॥

इति श्रीसुब्रह्मण्ययोगिविरचितं रत्नगर्भ गणेशविलासस्तोत्रं ।

Also Read:

Sri Ratnagarbha Ganesha Vilasa Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Ratnagarbha Ganesha Vilasa Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top