Templesinindiainfo

Best Spiritual Website

Sri Shukra Kavacham Lyrics in Hindi

Sri Shukra Kavacham in Hindi:

॥ श्री शुक्र कवचम् ॥
ओं अस्य श्रीशुक्रकवचस्तोत्रमहामन्त्रस्य भरद्वाज ऋषिः । अनुष्टुप्छन्दः । भगवान् शुक्रो देवता । अं बीजं । गं शक्तिः । वं कीलकं । मम शुक्रग्रहप्रसाद सिद्ध्यर्थे जपे विनियोगः ।

करन्यासः ।
भां अङ्गुष्ठाभ्यां नमः ।
भीं तर्जनीभ्यां नमः ।
भूं मध्यमाभ्यां नमः ।
भैं अनामिकाभ्यां नमः ।
भौं कनिष्ठिकाभ्यां नमः ।
भः करतलकरपृष्ठाभ्यां नमः ॥

अंगन्यासः ।
भां हृदयाय नमः ।
भीं शिरसे स्वाहा ।
भूं शिखायै वषट् ।
भैं कवचाय हुम् ।
भौं नेत्रत्रयाय वौषट् ।
भः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् –
शुक्रं चतुर्भुजं देवं अक्षमालाकमण्डलुम्
दण्डहस्तं च वरदं भानुज्वालाङ्गशोभितम् ।
शुक्लाम्बरं शुक्लमाल्यं शुक्लगन्धानुलेपनम्
वज्रमाणिक्यभूषाढ्यं किरीटमकुटोज्ज्वलम् ।
श्वेताश्वरथमारूढं मेरुं चैव प्रदक्षिणम् ॥

मृणालकुन्देन्दुपयोहिमप्रभं सितांबरं स्निग्धवलक्षमालिनम् ।
समस्तशास्त्रश्रुतितत्त्वदर्शिनं ध्यायेत्कविं वाञ्छितवस्तुसम्पदे ॥ १ ॥

कवचम् –
शिरो मे भार्गवः पातु फालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे श्रीचन्दनद्युतिः ॥ २ ॥

पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।
रसनामुशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ॥ ३ ॥

भुजौ तेजोनिधिः पातु वक्षो योगविदां वरः ।
अक्षमालाधरो रक्षेत् कुक्षिं मे चक्षुषाङ्करः ॥ ४ ॥

कटिं मे पातु विश्वात्मा सक्थिनी सर्वपूजितः ।
जानुनी तु भृगुः पातु जङ्घे मे महतां वरः ॥ ५ ॥

गुल्फौ गुणनिधिः पातु पादौ मे पाण्डुरांबरः ।
सर्वाण्यङ्गानि मे पातु शुक्रः कविरहर्निशम् ॥ ६ ॥

य इदं कवचं दिव्यं पठेच्च श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ ७ ॥

इति श्रीस्कान्दे महापुराणे शंकरसंहितायां शुक्रकवचः ।

Also Read:

Sri Shukra Kavacham Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Shukra Kavacham Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top