Templesinindiainfo

Best Spiritual Website

Sri Siddhi Lakshmi Stotram Lyrics in Hindi

Sri Siddhi Lakshmi Stotram in Hindi:

॥ श्री सिद्धिलक्ष्मी स्तोत्रम् ॥
ओं अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः अनुष्टुप् छन्दः सिद्धिलक्ष्मीर्देवता मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकाली महालक्ष्मी महासरस्वती देवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः ।

करन्यासः ।
ओं सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं विष्णुहृदये तर्जनीभ्यां नमः ।
ओं क्लीं अमृतानन्दे मध्यमाभ्यां नमः ।
ओं श्रीं दैत्यमालिनी अनामिकाभ्यां नमः ।
ओं तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः ।
ओं ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः ।
ओं सिद्धिलक्ष्मी हृदयाय नमः ।
ओं ह्रीं वैष्णवी शिरसे स्वाहा ।
ओं क्लीं अमृतानन्दे शिखायै वषट् ।
ओं श्रीं दैत्यमालिनी कवचाय हुम् ।
ओं तं तेजःप्रकाशिनी नेत्रद्वयाय वौषट् ।
ओं ह्रीं क्लीं श्रीं ब्राह्मीं वैष्णवीं अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् ।
ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखाम्
त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधराम् ।
पीताम्बरधरां देवीं नानालङ्कारभूषिताम्
तेजःपुञ्जधरां श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥

स्तोत्रम् ।
ओङ्कारलक्ष्मीरूपेण विष्णोर्हृदयमव्ययम् ।
विष्णुमानन्दमध्यस्थं ह्रीङ्कारबीजरूपिणी ॥ १ ॥

ओं क्लीं अमृतानन्दभद्रे सद्य आनन्ददायिनी ।
ओं श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी ॥ २ ॥

तेजःप्रकाशिनी देवी वरदा शुभकारिणी ।
ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी ॥ ३ ॥

आकारब्रह्मरूपेण ओङ्कारं विष्णुमव्ययम् ।
सिद्धिलक्ष्मि परालक्ष्मि लक्ष्यलक्ष्मि नमोऽस्तु ते ॥ ४ ॥

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् ।
तन्मध्ये निकरे सूक्ष्मं ब्रह्मरूपव्यवस्थितम् ॥ ५ ॥

ओङ्कारपरमानन्दं क्रियते सुखसम्पदा ।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ॥ ६ ॥

प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा ।
तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी ॥ ७ ॥

पञ्चमे विष्णुपत्नी च षष्ठे च वैष्णवी तथा ।
सप्तमे च वरारोहा अष्टमे वरदायिनी ॥ ८ ॥

नवमे खड्गत्रिशूला दशमे देवदेवता ।
एकादशे सिद्धिलक्ष्मीर्द्वादशे ललितात्मिका ॥ ९ ॥

एतत् स्तोत्रम् पठन्तस्त्वां स्तुवन्ति भुवि मानवाः ।
सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा ॥ १० ॥

एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् ।
पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ॥ ११ ॥

ब्राह्मणाः क्लेशतो दुःखदरिद्रा भयपीडिताः ।
जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः ॥ १२ ॥

अलक्ष्मीर्लभते लक्ष्मीमपुत्रः पुत्रमुत्तमम् ।
धन्यं यशस्यमायुष्यं वह्निचौरभयेषु च ॥ १३ ॥

शाकिनीभूतवेतालसर्वव्याधिनिपातके ।
राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे ॥ १४ ॥

सभास्थाने श्मशाने च कारागेहारिबन्धने ।
अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ॥ १५ ॥

ईश्वरेण कृतं स्तोत्रम् प्राणिनां हितकारणम् ।
स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते ॥ १६ ॥

या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।
शङ्खे देवकुले नरेन्द्रभवने गङ्गातटे गोकुले
सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात्सदा निश्चला ॥

इति श्रीब्रह्माण्डपुराणे ईश्वरविष्णुसंवादे दारिद्र्यनाशनं सिद्धिलक्ष्मी स्तोत्रम् सम्पूर्णम् ॥

Also Read:

Sri Siddhi Lakshmi Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Siddhi Lakshmi Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top