Templesinindiainfo

Best Spiritual Website

Sri Subrahmanya Trishati Stotram Lyrics in Sanskrit

Sri Subrahmanya Trishati Stotram Sanskrit Lyrics:

श्री सुब्रह्मण्य त्रिशती स्तोत्रम्
श्रीं सौं शरवणभवः शरच्चन्द्रायुतप्रभः ।
शशाङ्कशेखरसुतः शचीमाङ्गल्यरक्षकः ॥ १ ॥

शतायुष्यप्रदाता च शतकोटिरविप्रभः ।
शचीवल्लभसुप्रीतः शचीनायकपूजितः ॥ २ ॥

शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दितः ।
शचीशार्तिहरश्चैव शम्भुः शम्भूपदेशकः ॥ ३ ॥

शङ्करः शङ्करप्रीतः शम्याककुसुमप्रियः ।
शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दितः ॥ ४ ॥

शचीनाथसुताप्राणनायकः शक्तिपाणिमान् ।
शङ्खपाणिप्रियः शङ्खोपमषड्गलसुप्रभः ॥ ५ ॥

शङ्खघोषप्रियः शङ्खचक्रशूलादिकायुधः ।
शङ्खधाराभिषेकादिप्रियः शङ्करवल्लभः ॥ ६ ॥

शब्दब्रह्ममयश्चैव शब्दमूलान्तरात्मकः ।
शब्दप्रियः शब्दरूपः शब्दानन्दः शचीस्तुतः ॥ ७ ॥

शतकोटिप्रविस्तारयोजनायतमन्दिरः ।
शतकोटिरविप्रख्यरत्नसिंहासनान्वितः ॥ ८ ॥

शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभूः ।
शतकोटिसुरस्त्रीणां नृत्तसङ्गीतकौतुकः ॥ ९ ॥

शतकोटीन्द्रदिक्पालहस्तचामरसेवितः ।
शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकः ॥ १० ॥

शङ्खपाणिविधिभ्यां च पार्श्वयोरुपसेवितः ।
शङ्खपद्मनिधीनां च कोटिभिः परिसेवितः ॥ ११ ॥

शशाङ्कादित्यकोटीभिः सव्यदक्षिणसेवितः ।
शङ्खपालाद्यष्टनागकोटीभिः परिसेवितः ॥ १२ ॥

शशाङ्कारपतङ्गादिग्रहनक्षत्रसेवितः ।
शशिभास्करभौमादिग्रहदोषार्तिभञ्जनः ॥ १३ ॥

शतपत्रद्वयकरः शतपत्रार्चनप्रियः ।
शतपत्रसमासीनः शतपत्रासनस्तुतः ॥ १४ ॥

शारीरब्रह्ममूलादिषडाधारनिवासकः ।
शतपत्रसमुत्पन्नब्रह्मगर्वविभेदनः ॥ १५ ॥

शशाङ्कार्धजटाजूटः शरणागतवत्सलः ।
रकाररूपो रमणो राजीवाक्षो रहोगतः ॥ १६ ॥

रतीशकोटिसौन्दर्यो रविकोट्युदयप्रभः ।
रागस्वरूपो रागघ्नो रक्ताब्जप्रिय एव च ॥ १७ ॥

राजराजेश्वरीपुत्रो राजेन्द्रविभवप्रदः ।
रत्नप्रभाकिरीटाग्रो रविचन्द्राग्निलोचनः ॥ १८ ॥

रत्नाङ्गदमहाबाहू रत्नताटङ्कभूषणः ।
रत्नकेयूरभूषाढ्यो रत्नहारविराजितः ॥ १९ ॥

रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभितः ।
रवसम्युक्तरत्नाभनूपुराङ्घ्रिसरोरुहः ॥ २० ॥

रत्नकङ्कणचूल्यादिसर्वाभरणभूषितः ।
रत्नसिंहासनासीनो रत्नशोभितमन्दिरः ॥ २१ ॥

राकेन्दुमुखषट्कश्च रमावाण्यादिपूजितः ।
राक्षसामरगन्धर्वकोटिकोट्यभिवन्दितः ॥ २२ ॥

रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकः ।
राक्षसानीकसंहारकोपाविष्टायुधान्वितः ॥ २३ ॥

राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधः ।
रवयुक्तधनुर्हस्तो रत्नकुक्कुटधारणः ॥ २४ ॥

रणरङ्गजयो रामास्तोत्रश्रवणकौतुकः ।
रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दितः ॥ २५ ॥

रक्तपीताम्बरधरो रक्तगन्धानुलेपनः ।
रक्तद्वादशपद्माक्षो रक्तमाल्यविभूषितः ॥ २६ ॥

रविप्रियो रावणेशस्तोत्रसाममनोहरः ।
राज्यप्रदो रन्ध्रगुह्यो रतिवल्लभसुप्रियः ॥ २७ ॥

रणानुबन्धनिर्मुक्तो राक्षसानीकनाशकः ।
राजीवसम्भवद्वेषी राजीवासनपूजितः ॥ २८ ॥

रमणीयमहाचित्रमयूरारूढसुन्दरः ।
रमानाथस्तुतो रामो रकाराकर्षणक्रियः ॥ २९ ॥

वकाररूपो वरदो वज्रशक्त्यभयान्वितः ।
वामदेवादिसम्पूज्यो वज्रपाणिमनोहरः ॥ ३० ॥

वाणीस्तुतो वासवेशो वल्लीकल्याणसुन्दरः ।
वल्लीवदनपद्मार्को वल्लीनेत्रोत्पलोडुपः ॥ ३१ ॥

वल्लीद्विनयनानन्दो वल्लीचित्ततटामृतम् ।
वल्लीकल्पलतावृक्षो वल्लीप्रियमनोहरः ॥ ३२ ॥

वल्लीकुमुदहास्येन्दुः वल्लीभाषितसुप्रियः ।
वल्लीमनोहृत्सौन्दर्यो वल्लीविद्युल्लताघनः ॥ ३३ ॥

वल्लीमङ्गलवेषाढ्यो वल्लीमुखवशङ्करः ।
वल्लीकुचगिरिद्वन्द्वकुङ्कुमाङ्कितवक्षकः ॥ ३४ ॥

वल्लीशो वल्लभो वायुसारथिर्वरुणस्तुतः ।
वक्रतुण्डानुजो वत्सो वत्सलो वत्सरक्षकः ॥ ३५ ॥

वत्सप्रियो वत्सनाथो वत्सवीरगणावृतः ।
वारणाननदैत्यघ्नो वातापिघ्नोपदेशकः ॥ ३६ ॥

वर्णगात्रमयूरस्थो वर्णरूपो वरप्रभुः ।
वर्णस्थो वारणारूढो वज्रशक्त्यायुधप्रियः ॥ ३७ ॥

वामाङ्गो वामनयनो वचद्भूर्वामनप्रियः ।
वरवेषधरो वामो वाचस्पतिसमर्चितः ॥ ३८ ॥

वसिष्ठादिमुनिश्रेष्ठवन्दितो वन्दनप्रियः ।
वकारनृपदेवस्त्रीचोरभूतारिमोहनः ॥ ३९ ॥

णकाररूपो नादान्तो नारदादिमुनिस्तुतः ।
णकारपीठमध्यस्थो नगभेदी नगेश्वरः ॥ ४० ॥

णकारनादसन्तुष्टो नागाशनरथस्थितः ।
णकारजपसुप्रीतो नानावेषो नगप्रियः ॥ ४१ ॥

णकारबिन्दुनिलयो नवग्रहसुरूपकः ।
णकारपठनानन्दो नन्दिकेश्वरवन्दितः ॥ ४२ ॥

णकारघण्टानिनदो नारायणमनोहरः ।
णकारनादश्रवणो नलिनोद्भवशिक्षकः ॥ ४३ ॥

णकारपङ्कजादित्यो नववीराधिनायकः ।
णकारपुष्पभ्रमरो नवरत्नविभूषणः ॥ ४४ ॥

णकारानर्घशयनो नवशक्तिसमावृतः ।
णकारवृक्षकुसुमो नाट्यसङ्गीतसुप्रियः ॥ ४५ ॥

णकारबिन्दुनादज्ञो नयज्ञो नयनोद्भवः ।
णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणिः ॥ ४६ ॥

णकारपेटकमणिर्नागपर्वतमन्दिरः ।
णकारकरुणानन्दो नादात्मा नागभूषणः ॥ ४७ ॥

णकारकिङ्किणीभूषो नयनादृश्यदर्शनः ।
णकारवृषभावासो नामपारायणप्रियः ॥ ४८ ॥

णकारकमलारूढो नामानन्तसमन्वितः ।
णकारतुरगारूढो नवरत्नादिदायकः ॥ ४९ ॥

णकारमकुटज्वालामणिर्नवनिधिप्रदः ।
णकारमूलमन्त्रार्थो नवसिद्धादिपूजितः ॥ ५० ॥

णकारमूलनादान्तो णकारस्तम्भनक्रियः ।
भकाररूपो भक्तार्थो भवो भर्गो भयापहः ॥ ५१ ॥

भक्तप्रियो भक्तवन्द्यो भगवान्भक्तवत्सलः ।
भक्तार्तिभञ्जनो भद्रो भक्तसौभाग्यदायकः ॥ ५२ ॥

भक्तमङ्गलदाता च भक्तकल्याणदर्शनः ।
भक्तदर्शनसन्तुष्टो भक्तसङ्घसुपूजितः ॥ ५३ ॥

भक्तस्तोत्रप्रियानन्दो भक्ताभीष्टप्रदायकः ।
भक्तसम्पूर्णफलदो भक्तसाम्राज्यभोगदः ॥ ५४ ॥

भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः ।
भवौषधिर्भवघ्नश्च भवारण्यदवानलः ॥ ५५ ॥

भवान्धकारमार्ताण्डो भववैद्यो भवायुधम् ।
भवशैलमहावज्रो भवसागरनाविकः ॥ ५६ ॥

भवमृत्युभयध्वंसी भावनातीतविग्रहः ।
भवभूतपिशाचघ्नो भास्वरो भारतीप्रियः ॥ ५७ ॥ [भय] ॥

भाषितध्वनिमूलान्तो भावाभावविवर्जितः ।
भानुकोपपितृध्वंसी भारतीशोपदेशकः ॥ ५८ ॥

भार्गवीनायकश्रीमद्भागिनेयो भवोद्भवः ।
भारक्रौञ्चासुरद्वेषो भार्गवीनाथवल्लभः ॥ ५९ ॥

भटवीरनमस्कृत्यो भटवीरसमावृतः ।
भटतारागणोड्वीशो भटवीरगणस्तुतः ॥ ६० ॥

भागीरथेयो भाषार्थो भावनाशबरीप्रियः ।
भकारे कलिचोरारिभूताद्युच्चाटनोद्यतः ॥ ६१ ॥

वकारसुकलासंस्थो वरिष्ठो वसुदायकः ।
वकारकुमुदेन्दुश्च वकाराब्धिसुधामयः ॥ ६२ ॥

वकारामृतमाधुर्यो वकारामृतदायकः ।
दक्षे वज्राभीतियुतो वामे शक्तिवरान्वितः ॥ ६३ ॥

वकारोदधिपूर्णेन्दुः वकारोदधिमौक्तिकम् ।
वकारमेघसलिलो वासवात्मजरक्षकः ॥ ६४ ॥

वकारफलसारज्ञो वकारकलशामृतम् ।
वकारपङ्कजरसो वसुर्वंशविवर्धनः ॥ ६५ ॥

वकारदिव्यकमलभ्रमरो वायुवन्दितः ।
वकारशशिसङ्काशो वज्रपाणिसुताप्रियः ॥ ६६ ॥

वकारपुष्पसद्गन्धो वकारतटपङ्कजम् ।
वकारभ्रमरध्वानो वयस्तेजोबलप्रदः ॥ ६७ ॥

वकारवनितानाथो वश्याद्यष्टप्रियाप्रदः ।
वकारफलसत्कारो वकाराज्यहुताशनः ॥ ६८ ॥

वर्चस्वी वाङ्मनोऽतीतो वाताप्यरिकृतप्रियः ।
वकारवटमूलस्थो वकारजलधेस्तटः ॥ ६९ ॥

वकारगङ्गावेगाब्धिः वज्रमाणिक्यभूषणः ।
वातरोगहरो वाणीगीतश्रवणकौतुकः ॥ ७० ॥

वकारमकरारूढो वकारजलधेः पतिः ।
वकारामलमन्त्रार्थो वकारगृहमङ्गलम् ॥ ७१ ॥

वकारस्वर्गमाहेन्द्रो वकारारण्यवारणः ।
वकारपञ्जरशुको वलारितनयास्तुतः ॥ ७२ ॥

वकारमन्त्रमलयसानुमन्मन्दमारुतः ।
वाद्यन्तभान्त षट्क्रम्य जपान्ते शत्रुभञ्जनः ॥ ७३ ॥

वज्रहस्तसुतावल्लीवामदक्षिणसेवितः ।
वकुलोत्पलकादम्बपुष्पदामस्वलङ्कृतः ॥ ७४ ॥

वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहः ।
वासनागन्धलिप्ताङ्गो वषट्कारो वशीकरः ॥ ७५ ॥

वासनायुक्तताम्बूलपूरिताननसुन्दरः ।
वल्लभानाथसुप्रीतो वरपूर्णामृतोदधिः ॥ ७६ ॥

इति श्री सुब्रह्मण्य त्रिशती स्तोत्रम् ।
h3>Also Read:

Sri Subrahmanya Trishati Stotram lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Subrahmanya Trishati Stotram Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top