Templesinindiainfo

Best Spiritual Website

Svarupanusandhana Ashtakam or Vijnananauka Lyrics in Hindi

Svarupanusandhana Ashtakam Lyrics in Hindi:

॥ स्वरूपानुसन्धानाष्टकम् विज्ञाननौका च ॥

तपोयज्ञदानादिभिः शुद्धबुद्धि-
र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या ।
परित्यज्य सर्वं यदाप्नोति तत्त्वं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ १ ॥

दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं
समाराध्य मत्या विचार्य स्वरूपम् ।
यदाप्नोति तत्त्वं निदिध्यास विद्वान्-
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २ ॥

यदानन्दरूपं प्रकाशस्वरूपं
निरस्तप्रपञ्चं परिच्छेदहीनम् ।
अहम्ब्रह्मवृत्त्यैकगम्यं तुरीयं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ३ ॥

यदज्ञानतो भाति विश्वं समस्तं
विनष्टं च सद्यो यदात्मप्रबोधे ।
मनोवागतीतं विशुद्धं विमुक्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ४ ॥

निषेधे कृते नेति नेतीति वाक्यैः
समाधिस्थितानां यदाभाति पूर्णम् ।
अवस्थात्रयातीतमद्वैतमेकं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ५ ॥

यदानन्दलेशैः समानन्दि विश्वं
यदाभाति सत्त्वे तदाभाति सर्वम् ।
यदालोकने रूपमन्यत्समस्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ६ ॥

अनन्तं विभुं निर्विकल्पं निरीहं
शिवं सङ्गहीनं यदोङ्कारगम्यम् ।
निराकारमत्युज्ज्वलं मृत्युहीनं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७ ॥

यदानन्द सिन्धौ निमग्नः पुमान्स्या-
दविद्याविलासः समस्तप्रपञ्चः ।
तदा नः स्फुरत्यद्भुतं यन्निमित्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ८ ॥

स्वरूपानुसन्धानरूपां स्तुतिं यः
पठेदादराद्भक्तिभावो मनुष्यः ।
श्रुणोतीह वा नित्यमुद्युक्तचित्तो
भवेद्विष्णुरत्रैव वेदप्रमाणात् ॥ ९ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
स्वरूपानुसन्धानाष्टकम् सम्पूर्णम् ॥

आभाति = shines
आचार्यस्य = Teacher’s
आदराद् = with respect
आदिभिः = and other deeds
आलोकने = seeing
आनन्द = bliss
आप्नोति = obtains
आत्म = soul
अद्भुतं = wondrous
अद्वैतम् = non-dual
अहम् = I
अज्ञानतो = by ignorance
अनन्तं = infinite
अनुसन्धान = communion
अन्यत् = other
अष्टकम् = 8 verses
अस्मि = .. 1.. am
अतीतं = transcending
अत्र = here
अत्य् = exceedingly
अवस्था = state
अविद्या = ignorance
भाति = shines
भावो = mood
भगवत् = endowed with Lordly powers
भक्ति = devotion
भवेद् = becomes
ब्रह्म = Spirit
ब्रह्मनिष्ठं = devoted to Truth/Spirit
बुद्धि = intellect
बुद्ध्या = . discrimination
च = and
छङ्कर = Shankara
चित्तो = heart
दान = donation
दयालुं = compassionate
एकगम्यं = aiming for the One
एकं = one alone
एव = only
एव = itself
गम्यम् = . realising
गोविन्द = Govinda
गुरुं = Teacher
हीनं = without
हीनं = less
इह = here
इति = thus
कृतौ = composed
कृते = having done
लेशैः = a fraction
मनो = mind
मनुष्यः = . human
मत्या = mind
मृत्यु = death
नः = to us
नेति = neti ‘not this, not this’
निदिध्यास = constant contemplation
निमग्नः = steeped
निमित्तं = occasion
निराकारम् = formless
निरस्त = given to penance
निरीहं = desireless
निर्विकल्पं = beyond thought
निषेधे = negating
नित्यं = eternal
नृपादेः = kings and others
ओङ्कार = OM
पदे = feet
परं = supreme
परमहंस = supremely discriminating
परिच्छेद = separation
परित्यज्य = giving up
परिव्राजक = itinerant
पठेद् = studies
प्रबोधे = . enlightened
प्रकाश = illumined
प्रमाणात् = .. 9.. authority
प्रपञ्चः = . manifest world
प्रशान्तं = serene
पुमान् = human
पूज्य = worshipful
पूर्णम् = . perfect
रूपां = form
सङ्ग = attachment
सद्यो = immediately
समाधि = deep absorption
समानन्दि = blissful
समाराध्य = tranquil
समस्त = all
समस्तं = everything
सम्पूर्णम् = .. ends
सर्वं = all
सत्त्वे = in essence
शिष्यस्य = disciples
शिवं = auspicious
श्री = glorious
श्रुणोति = listens
शुद्ध = pure
सिन्धौ = ocean
स्फुरत्य् = inspires
स्थितानां = attained
स्तुतिं = praise
स्वरूप = one’s essence
स्वरूपम् = . one’s essential nature
स्याद् = if it be
तद् = that
तदा = then
तपो = [tapaH] austerity
तत् = that
तत्त्वं = essence
त्रय = three
तुच्छ = trifling
तुरीयं = the fourth state
उद्युक्त = motivated
उज्ज्वलं = bright
वा = or
वाग् = speech
वाक्यैः = phrases
वेद = Veda
विभुं = glories
विचार्य = asking
विद्वान् = wise
विलासः = play
विमुक्तं = liberated
विनष्टं = vanishing
विरक्तः = dispassionate
विष्णुर् = all pervading
विशुद्धं = pure
विश्वं = world
वृत्त्या = mental attitude
यः = who
यज्ञ = sacrifice
यन् = that
यत् = that

Svarupanusandhana Ashtakam or Vijnananauka Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top