Templesinindiainfo

Best Spiritual Website

Vallabhabhavashtakam Lyrics in Hindi

Sri Vallabhabhava Ashtakam Lyrics in Hindi:

वल्लभभावाष्टकम्

पतिः श्रीवल्लभोऽस्माकं गतिः श्रीवल्लभः सदा ।
मतिः श्रीवल्लभे ह्यस्तां रतिः श्रीवल्लभेऽस्तु मे ॥ १॥

वृत्तिः श्रीवस्त्वभीयैव कृतिः श्रीवल्लभार्थिनी ।
दर्शनं श्रीवल्लभस्य स्मरणं वल्लभप्रभोः ॥ २॥

त्वत्प्रसादसुधाघ्राणं त्वदुच्छिष्टरसाग्रहः ।
श्रवणं त्वद्गुणानां हि स्मरणं त्वत्पदाब्जयोः ॥ ३॥

गृणनं तन्महित्वस्य सेवनं करयोर्भवेत् ।
त्वत्स्वरूपान्तरो भोगो गमनं तव सन्निधौ ॥ ४॥

त्वदग्रे सर्वदा स्थानं सङ्गस्त्वत्सेवकैः सदा ।
त्वद्वार्ताऽतिरुचिर्निष्ठा भूयात्त्वद्वाक्यमात्रगा ॥ ५॥

श्रद्धा त्वदेकसम्बधे विश्वासस्त्वत्पदाब्जयोः ।
दास्यं त्वदीयमेवास्तु भूयात्त्वच्चरणाश्रयः ॥ ६॥

मस्तके श्रीवल्लभोस्तु हृदि तिष्ठतु वल्लभः ।
अभितः श्रीवल्लभोऽस्तु सर्वं श्रीवल्लभो मम ॥ ७॥

नमः श्रीवल्लभायैव दैन्यं श्रीवल्लभे सदा ।
प्रार्थना श्रीवल्लभेऽस्तु तत्पदाधीनता मम ॥ ८॥

एतदष्टकपाठेन श्रीवल्लभपदाम्बुजे ।
भवेद्भावो विनाऽऽयासं भक्तिमार्गवतात्मनाम् ॥ ९॥

इति श्रीहरिदासोक्तं श्रीवल्लभभावाष्टकम् सम्पूर्णम् ।

Vallabhabhavashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top