Gita - Geetaa

Vyasagita Kurma Purana 12-46 Lyrics in Hindi

Chaudhuri Narayan Singh, in his preface to Kurma Purana with Hindi translation 1962 (DLI) says that chapters 12-33 are Vyasa Gita. This is repeated by Anand Swarup Gupta in the critical edition of Kurma Purana (DLI). Some others (V Raghavan’s list, Kurma Purana Calcutta edition 1890) are of the opinion that the complete Uttarabhaga of Kurma Purana is Vyasa Gita. This would mean Ishvara Gita is a part of Vyasa Gita.

Vyasageetaa Kurmapurana 12-46 in Hindi:

॥ व्यासगीता कूर्मपुराणे अध्याय १२-४६ ॥

कूर्मपुराणए उत्तरभागे द्वादशोऽध्यायः
व्यास उवाच ।
श‍ृणुध्वमृषयः सर्वे वक्ष्यमाणं सनातनम् ।
कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम् ॥ १२.१ ॥

आम्नायसिद्धमखिलं बाह्मणानां प्रदर्शितम् ।
ऋषीणां श‍ृण्वतां पूर्वं मनुराह प्रजापतिः ॥ १२.२ ॥

सर्वपापहरं पुण्यमृषिसङ्घैर्निषेवितम् ।
समाहितधियो यूयं श‍ृणुध्वं गदतो मम ॥ १२.३ ॥

कृतोपनयनो वेदानधीयीत द्विजोत्तमाः ।
गर्भाष्टमेऽष्टमे वाब्दे स्वसूत्रोक्तविधानतः ॥ १२.४ ॥

दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः ।
भिक्षाहारो गुरुहितो वीक्षमाणो गुरोर्मुखम् ॥ १२.५ ॥

कार्पासमुपवीतार्थं निर्मितं ब्रह्मणा पुरा ।
ब्राह्मणानां त्रिवित् सूत्रं कौशं वा वस्त्रमेव वा ॥ १२.६ ॥

सदोपवीती चैव स्यात् सदा बद्धशिखो द्विजः ।
अन्यथा यत् कृतं कर्म तद् भवत्ययथाकृतम् ॥ १२.७ ॥

वसेदविकृतं वासः कार्पासं वा कषायकम् ।
तदेव परिधानीयं शुक्लमच्छिद्रमुत्तमम् ॥ १२.८ ॥

उत्तरं तु समाख्यातं वासः कृष्णाजिनं शुभम् ।
अभावे दिव्यमजिनं रौरवं वा विधीयते ॥ १२.९ ॥

उद्धृत्य दक्षिणं बाहुं सव्ये बाहौ समर्पितम् ।
उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जने ॥ १२.१० ॥

सव्यं बाहुं समुद्धृत्य दक्षिणे तु धृतं द्विजाः ।
प्राचीनावीतमित्युक्तं पैत्रे कर्मणि योजयेत् ॥ १२.११ ॥

अग्न्यगारे गवां गोष्ठे होमे जप्ये तथैव च ।
स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ ॥ १२.१२ ॥

उपासने गुरूणां च संध्ययोः साधुसंगमे ।
उपवीती भवेन्नित्यं विधिरेष सनातनः ॥ १२.१३ ॥

मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
मुञ्जाभावे कुशेनाहुर्ग्रन्थिनैकेन वा त्रिभिः ॥ १२.१४ ॥

धारयेद् बैल्वपालाशौ दण्डौ केशान्तकौ द्विजः ।
यज्ञार्हवृक्षजं वाऽथ सौम्यमव्रणमेव च ॥ १२.१५ ॥

सायं प्रातर्द्विजः संध्यामुपासीत समाहितः ।
कामाल्लोभाद् भयान्मोहात् त्यक्तेन पतितो भवेत् ॥ १२.१६ ॥

अग्निकार्यं ततः कुर्यात् सायं प्रातः प्रसन्नधीः ।
स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा ॥ १२.१७ ॥

देवताभ्यर्चनं कुर्यात् पुष्पैः पत्रेण चाम्बुना ।
अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः ॥ १२.१८ ॥

असावहं भो नामेति सम्यक् प्रणतिपूर्वकम् ।
आयुरारोग्यसिद्ध्यर्थं द्रव्यादिपरिवर्जितम् ॥ १२.१९ ॥

आयुष्णान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ १२.२० ॥

न कुर्याद् योऽभिवादस्य द्विजः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ १२.२१ ॥

सव्य्स्तपाणिना कार्यमुपसंग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ १२.२२ ॥

लौकिकं वैदिकं चापि तथाध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ १२.२३ ॥

नोदकं धारयेद् भैक्षं पुष्पाणि समिधस्तथा ।
एवंविधानि चान्यानि न दैवाद्येषु कर्मसु ॥ १२.२४ ॥

ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥ १२.२५ ॥

उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ ॥ १२.२६ ॥

वर्णज्येष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः ।
माता मातामही गुर्वी पितुर्मातुश्च सोदराः ॥ १२.२७ ॥

श्वश्रूः पितामहीज्येष्ठा धात्री च गुरवः स्त्रियः ।
इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ॥ १२.२८ ॥

अनुवर्त्तनमेतेषां मनोवाक्कायकर्मभिः ।
गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ॥ १२.२९ ॥

नैतैरुपविशेत् सार्द्धं विवदेन्नात्मकारणात् ।
जीवितार्थमपि द्वेषाद् गुरुभिर्नैव भाषणम् ॥ १२.३० ॥

उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ।
गुरूणामपि सर्वेषां पूज्याः पञ्च विशेषतः ॥ १२.३१ ॥

तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ।
यो भावयति या सूते येन विद्योपदिश्यते ॥ १२.३२ ॥

ज्येष्ठो भ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः ।
आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः ॥ १२.३३ ॥

पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ।
यावत् पिता च माता च द्वावेतौ निर्विकारिणौ ॥ १२.३४ ॥

तावत् सर्वं परित्यज्य पुत्रः स्यात् तत्परायणः ।
पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ॥ १२.३५ ॥

स पुत्रः सकलं धर्ममाप्नुयात् तेन कर्मणा ।
नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ॥ १२.३६ ॥

तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते ।
तयोर्नित्यं प्रियं कुर्यात् कर्मणा मनसा गिरा ॥ १२.३७ ॥

न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत् ।
वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ॥ १२.३८ ॥

धर्मसारः समुद्दिष्टः प्रेत्यानन्तफलप्रदः ।
सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ॥ १२.३९ ॥

शिष्यो विद्याफलं भुङ्क्ते प्रेत्य वा पूज्यते दिवि ।
यो भ्रातरं पितृसमं ज्येष्ठं मूर्खोऽवमन्यते ॥ १२.४० ॥

तेन दोषेण स प्रेत्य निरयं घोरमृच्छति ।
पुंसा वर्त्मनितिष्टेत पूज्यो भर्त्ता तु सर्वदा ॥ १२.४१ ॥

अपि मातरि लोकेऽस्मिन् उपकाराद्धि गौरवम् ।
येनरा भर्त्तृपिण्डार्थं स्वान् प्राणान् संत्यजन्ति हि ॥ १२.४२ ॥

तेषामथाक्षयाँल्लोकान् प्रोवाच भगवान् मनुः ।
मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ॥ १२.४३ ॥

असावहमिति ब्रूयुः प्रत्युत्थाय यवीयसः ।
अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ॥ १२.४४ ॥

भोभवत्पूर्वकत्वेनमभिभाषेत धर्मवित् ।
अभिवाद्यश्च पूज्यश्च शिरसा वन्द्य एव च ॥ १२.४५ ॥

ब्राह्मणः क्षत्रियाद्यैश्च श्रीकामैः सादरं सदा ।
नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथञ्चन ॥ १२.४६ ॥

ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः ।
ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति श्रुतिः ॥ १२.४७ ॥

सवर्णेषु सवर्णानां काम्यमेवाभिवादनम् ।
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥ १२.४८ ॥

पतिरेव गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ।
विद्या कर्म वयो बन्धुर्वित्तं भवति पञ्चमम् ॥ १२.४९ ॥

मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तरात् ।
पञ्चानां त्रिषु वर्णेषु भूयांसि बलवन्ति च ॥ १२.५० ॥

यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ।
पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे ह्यचक्षुषे ॥ १२.५१ ॥

वृद्धाय भारमग्नाय रोगिणे दुर्बलाय च ।
भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् ॥ १२.५२ ॥

निवेद्य गुरवेऽश्नीयाद् वाग्यतस्तदनुज्ञया ।
भवत्पूर्वं चरेद् भैक्ष्यमुपनीतो द्विजोत्तमः ॥ १२.५३ ॥

भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ।
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ॥ १२.५४ ॥

भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत् ।
सजातीयगृहेष्वेव सार्ववर्णिकमेव वा ॥ १२.५५ ॥

भैक्ष्यस्य चरणं प्रोक्तं पतितादिषु वर्जितम् ।
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ॥ १२.५६ ॥

ब्रह्मचारी हरेद् भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ।
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ॥ १२.५७ ॥

अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥

सर्वं वा विचरेद् ग्रामं पूर्वोक्तानामसंभवे ॥ १२.५८ ॥

नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन् ।
समाहृत्य तु तद् भैक्षं यावदर्थममायया ॥ १२.५९ ॥

भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ।
भैक्ष्येण वर्त्तयेन्नित्यं नैकान्नादी भवेद् व्रती ॥ १२.६० ॥

भैक्ष्येण व्रतिनो वृत्तिरुपवाससमा स्मृता ।
पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् ॥ १२.६१ ॥

दृष्ट्वा हृष्येत् प्रसीदेच्च ततो भुञ्जीत वाग्यतः १२.६२ ॥

अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात् तत्परिवर्जयेत् ॥ १२.६३ ॥

प्राङ्मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा ।
नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः ॥ १२.६४ ॥

प्रक्षाल्य पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत् ।
शुचौ देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ॥ १२.६५ ॥

इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
द्वादशोऽध्यायः ॥१२ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणे उत्तरभागे त्रयोदशोऽध्यायः

व्यास उवाच ।
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।
ओष्ठावलोमोकौ स्पृष्ट्वा वासो विपरिधाय च ॥ १३.१
रेतोमूत्रपुरीषाणामुत्सर्गेऽयुक्तभाषणे ।
ष्ठीवित्वाऽध्ययनारम्भे कासश्वासागमे तथा ॥ १३.२
चत्वरं वा श्मशानं वा समागम्य द्विजोत्तमः ।
संध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत् पुनः ॥ १३.३
चण्डालम्लेच्छसंभाषे स्त्रीशूद्रोच्छिष्टभाषणे ।
उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं चापि तथाविधम् ॥ १३.४ ॥

आचामेदश्रुपाते वा लोहितस्य तथैव च ।
भोजने संध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ॥ १३.५ ॥

आचान्तोऽप्याचमेत् सुप्त्वा सकृत्सकृदथान्यतः ।
अग्नेर्गवामथालम्भे स्पृष्ट्वा प्रयतमेव वा ॥ १३.६ ॥

स्त्रीणामथात्मनः स्पर्शे नीवीं वा परिधाय च
उपस्पृशेज्जलं वार्द्रं तृणं वा भूमिमेव वा ॥ १३.७ ॥

केशानां चात्मनः स्पर्शे वाससोऽक्षालितस्य च ।
अनुष्णाभिरफेनाभिः विशुद्धाद्भिश्च धर्मतः ॥ १३.८ ॥

शौचेप्सुः सर्वदाचामेदासीनः प्रागुदङ्मुखः ।
शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा ॥ १३.९ ॥

अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ।
सोपानत्को जलस्थो वा नोष्णीषी चाचमेद्बुधः ॥ १३.१० ॥

न चैव वर्षधाराभिर्न तिष्ठन् नोद्धृतोदकैः ।
नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः ॥ १३.११ ॥

न पादुकासनस्थो वा बहिर्जानुरथापि वा ।
न जल्पन् न हसन् प्रेक्षन् शयानः प्रह्व एव च
नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ।
शूद्राशुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च ॥ १३.१२ ॥

न चैवाङ्गुलिभिः शस्तं न कुर्वन् नान्यमानसः ।
न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः ॥ १३.१३ ॥

न पाणिक्षुभिताभिर्वा न बहिष्कक्ष एव वा ।
हृद्गाभिः पूयते विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ॥ १३.१४ ॥

प्राशिताभिस्तथावैश्यः स्त्रीशूद्रौ स्पर्शतोऽन्ततः ॥

अङ्गुष्ठमूलान्तरतो रेखायां ब्राह्ममुच्यते ॥ १३.१५ ॥

अन्तराङ्गुष्ठदेशिन्यो पितॄणां तीर्थमुत्तमम् ॥

कनिष्ठामूलतः पश्चात् प्राजापत्यं प्रचक्षते ॥ १३.१६ ॥

अङ्गुल्यग्रे स्मृतं दैवं तद्देवार्थं प्रकीर्त्तितः ।
मूले वा दैवमादिष्टं ग्नेयं मध्यतः स्मृतम् ॥ १३.१७ ॥

तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति ।
ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥ १३.१८ ॥

कायेन वाऽथ दैवेन पैत्रेण न तु वै द्विजाः ।
त्रिः प्राश्नीयादपः पूर्वं ब्राह्मणः प्रयतस्ततः ॥ १३.१९ ॥

संमृज्याङ्गुष्ठमूलेन मुखं वै समुपस्पृशेत् ॥

अङ्गुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः ॥ १३.२० ॥

तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापृटद्वयम् ॥

कनिष्ठाङ्गुष्ठयोगेन श्रवणे समुपस्पृशेत् ॥ १३.२१ ॥

सर्वासामथ योगेन हृदयं तु तलेन वा ।
स्पृशेद्वै शिरसस्तद्वदङ्गुष्ठेनाथवा द्वयम् ॥ १३.२२
त्रिः प्राश्नीयाद् यदम्भस्तु सुप्रीतास्तेन देवताः ।
ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुमः ॥ १३.२३
गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् ।
संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ ॥ १३.२४
नासत्यदस्रौ प्रीयेते स्पृष्टे नासापुटद्वये ।
श्रोत्रयोः स्पृष्टयोस्तद्वत् प्रीयेते चानिलानलौ ॥ १३.२५
संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः ।
मूर्ध्नि संस्पर्शनादेव प्रीतः स पुरुषो भवेत् ॥ १३.२६
नोच्छिष्टं कुर्वते नित्यं विप्रुषोऽङ्गं नयन्ति याः ।
दन्तान्तर्दन्तलग्नेषु जिह्वोष्टैऱशुचिर्भवेत् ॥ १३.२७
स्पृशान्ति बिन्दवः पादौ य आचामयतः परान् ।
भूमिकास्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥ १३.२८
मदुपर्के च सोमे च ताम्बूलस्य च भक्षणे ।
फलमूलेक्षुदण्डे न दोषं प्राह वे मनुः ॥ १३.२९
प्रचरान्नोदपानेषु द्रव्यहस्तो भवेन्नरः ।
भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ १३.३०
तैजसं वै समादाय यद्युच्छिष्टो भवेद् द्विजः ।
भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ १३.३१
यद्यमन्त्रं समादाय भवेदुच्छेषणान्वितः ।
अनिधायैव तद् द्रव्यमाचान्तः शुचितामियात् ॥ १३.३२
वस्रादिषु विकल्पः स्यात् तत्संस्पृष्ट्वाचमेदिह ।
अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि ॥ १३.३३ ॥

कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ।
निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ॥ १३.३४ ॥

अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद् दक्षिणामुखः ॥

अन्तर्धाय महीं काष्ठैः पत्रैर्लोष्ठतृणेन वा ॥ १३.३५ ॥

प्रावृत्य च शिरः कुर्याद् विण्मूत्रस्य विसर्जनम् ।
छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु ॥ १३.३६ ॥

अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ॥

न गोमये न कृष्टे वा महावृक्षे न शाड्वले ॥ १३.३७ ॥

न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके ।
न जीर्णदेवायतने न वल्मीके कदाचन ॥ १३,३८ ॥

न ससत्त्वेषु गर्तेषु न गच्छन् वा समाचरेत् ॥

तुषाङ्गारकपालेषु राजमार्गे तथैव च ॥ १३.३९ ॥

न क्षेत्रे न विमले वाऽपि न तीर्थे न चतुष्पथे ।
नोद्याने न समीपे वा नोषरे न पराशुचौ ॥ १३.४० ॥

न सोपानत्पादुको वा छत्री वा नान्तरिक्षके ॥

न चैवाभिमुखे स्त्रीणां गुरुब्राह्मणयोर्गवाम् ॥ १३.४१ ॥

न देवदेवालययोरपामपि कदाचन ॥

नदीं ज्योतींषि वीक्षित्वा न वार्यभिमुखोऽथवा ॥ १३.४२ ॥

प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥

आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणात् ॥ १३.४३ ॥

कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ॥

नाहरेन्मृत्तिकां विप्रः पांशुलान्न च कर्दमान् ॥ १३.४४ ॥

न मार्गान्नोषराद् देशाच्छौचोच्छिष्टात्तथैव च ।
न देवायतनात् कूपाद् ग्रामान्न च जलात् तथा ॥ १३.४५ ॥

उपस्पृशेत् ततो नित्यं पूर्वोक्तेन विधानतः ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
त्रयोदशोऽध्यायः ॥१३ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे त्रयोदशोऽध्यायः

व्यास उवाच ।
एवं दण्डादिभिर्युक्तः शौचाचारसमन्वितः ।
आहूतोऽध्ययनं कुर्याद् वीक्षमाणो गुरोर्मुखम् ॥ १४.१ ॥

नित्यमुद्यतपाणिः स्यात् सन्ध्याचारः समन्वितः ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ १४.२ ॥

प्रतिश्रवणसंभाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ १४.३ ॥

नच शय्यासनं चास्य सर्वदा गुरुसन्निधौ ।
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ १४.४ ॥

नोदाहरेदस्य नाम परोक्षमपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ १४.५ ॥

गुरोर्यत्र प्रतीवादो निन्दा चापि प्रवर्त्तते ।
कर्णौं तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ १४.६ ॥

दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।
न चैवास्योत्तरं ब्रूयात् स्थिते नासीत सन्निधौ ॥ १४.७ ॥

उदकुम्भं कुशान् पुष्पं समिधोऽस्याहरेत् सदा ।
मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत् ॥ १४.८ ॥

नास्य निर्माल्यशयनं पादुकोपानहावपि ।
आक्रमेदासनं चास्य छायादीन् वा कदाचन ॥ १४.९ ॥

साधयेद् दन्तकाष्ठादीन् लब्धं चास्मै निवेदयेत् ।
अनापृच्छ्य न गन्तव्यं भवेत् प्रियहिते रतः ॥ १४.१० ॥

न पादौ सारयेदस्य संनिधाने कदाचन ।
जृम्भाहारस्यादिकञ्चैव कण्ठप्रावरणं तथा ॥ १४.११ ॥

वर्जयेत् सन्निधौ नित्यमवस्फोचनमेव च ।
यथाकालमधीयीत यावन्न विमना गुरुः ॥ १४.१२ ॥

आसीताधो गुरोर्गच्छेत् फलके वा समाहितः ।
आसने शयने याने नैव तिष्ठेत् कदाचन ॥ १४.१३ ॥

धावन्तमनुधावेत्तं गच्छन्तमनुगच्छति ।
गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ॥ १४.१४ ॥

नासीत गुरुणा सार्द्धं शिलाफलकनौषु च ।
जितेन्द्रियः स्यात् सततं वश्यात्माऽक्रोधनः शुचिः ॥ १४.१५ ॥

प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम् ।
गन्धमाल्यं रसं भव्यं शुक्लं प्राणिविहिंसनम् ॥ १४.१६ ॥

अभ्यङ्गं चाञ्जनोपानच्छत्रधारणमेव च ।
कामं लोभं भयं निद्रां गीतवादित्रनर्त्तनम् ॥ १४.१७ ॥

आतज्र्जनं परीवादं स्त्रीप्रेक्षालम्भनं तथा ।
परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ॥ १४.१८ ॥

उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् ।
आहरेद् यावदर्थानि भैक्ष्यं चाहरहश्चरेत् ॥ १४.१९ ॥

कृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत् ।
अनृत्यदर्शी सततं भवेद् गीतादिनिःस्पृहः ॥ १४.२० ॥

नादित्यं वै समीक्षेत न चरेद् दन्तधावनम् ।
एकान्तमशुचिस्त्रीभिः शूद्रान्त्यैरभिभाषणम् ॥ १४.२१ ॥

गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः ।
कलापकर्षणस्नानं आचरेद्धि कदाचन ॥ १४.२२ ॥

न कुर्यान्मानसं विप्रो गुरोस्त्यागं कदाचन ।
मोहाद्वा यदि वा लोभात् त्यक्तेन पतितो भवेत् ॥ १४.२३ ॥

लौकिकं वैदिकं चापि तथाध्यात्मिकमेव च ।
आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन ॥ १४.२४ ॥

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथंप्रतिपन्नस्य मनुस्त्यागं समब्रवीत् ॥ १४.२५ ॥

गुरोर्गुरौ सन्निहिते गुरुवद् भक्तिमाचरेत् ।
न चातिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ १४.२६ ॥

विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ।
प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ॥ १४.२७ ॥

श्रेयत्सु गुरुवद् वृत्तिं नित्यमेव समाचरेत् ।
गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥ १४.२८ ॥

बालः संमानयन्मान्यान् वा शिष्यो वा यज्ञकर्मणि ।
अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥ १४.२९ ॥

उत्सादनं वै गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद् गुरुपुत्रस्य पादयोः शौचमेव च ॥ १४.३० ॥

गुरुवत् परिपूज्यास्तु सवर्णा गुरुयोषितः ।
असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ १४.३१ ॥

अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ १४.३२ ॥

गुरुपत्नी तु युवती नाभिवाद्येह पादयोः ।
कुर्वीत वन्दनं भूम्यामसावहमिति ब्रुवन् ॥ १४.३३ ॥

विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वोत सतां धर्ममनुस्मरन् ॥ १४.३४ ॥

मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा ।
सम्पूज्या गुरुपत्नीच समस्ता गुरुभार्यया ॥ १४.३५ ॥

भ्रातुर्भार्याचसंग्रृह्या सवर्णाऽहन्यहन्यपि ।
विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ॥ १४.३६ ॥

पितुर्भगिन्या मातुश्च ज्यायस्यां च स्वसर्यपि ।
मातृवद् वृत्तिमातिष्ठेन्मात् ताभ्यो गरीयसी ॥ १४.३७ ॥

एवमाचारसम्पन्नमात्मवन्तमदाम्भिकम् ।
वेदमध्यापयेद् धर्मं पुराणाङ्गानि नित्यशः ॥ १४.३८ ॥

संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् ।
हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ॥ १४.३९ ॥

आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।
शक्तोऽन्नदोऽर्थदो साधुः स्वाध्याय्या देश धर्मतः ॥ १४.४० ॥

कृतज्ञश्च तथाऽद्रोही मेधावी शुभकृन्नरः ।
आप्तः प्रियोऽथ विधिवत् षडध्याप्या द्विजातयः ॥ १४.४१ ॥

एतेषु ब्रह्मणो दानमन्यत्र तु यथोदितान् ।
आचम्य संयतो नित्यमधीयीत उदङ्मुखः ॥ १४.४२ ॥

उपसंगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम् ।
अधीष्व भो इति ब्रूयाद् विरामोऽस्त्विति नारभेत् ॥ १४.४३ ॥

प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः ।
प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ॥ १४.४४ ॥

ब्राह्मणः प्रणवं कुर्यादन्ते च विधिवद् द्विजः ।
कुर्यादध्ययनं नित्यं ब्रह्माञ्जलिकरस्थितः ॥ १४.४५ ॥

सर्वेषामेव भूतानां वेदश्चक्षुः सनातनम् ।
अधीयीताप्ययं नित्यं ब्राह्मण्याच्च्यवतेऽन्यथा ॥ १४.४६ ॥

योऽधीयीत ऋचो नित्यं क्षीराहुत्या स देवताः ।
प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदैव हि ॥ १४.४७ ॥

यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः ।
सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ॥ १४.४८ ॥

अथर्वाङ्गिरसो नित्यं मध्वा प्रीणाति देवताः ।
धर्माङ्गानि पुराणानि मांसैस्तर्पयेत्सुरान् ॥ १४.३९ ॥

अपां समीपे नियतो नैत्यिकं विधिमाश्रितः ।
गायत्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ॥ १४.५० ॥

सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्त्तितः ॥ १४.५१ ॥

गायत्रीं चैव वेदांस्तु तुलयाऽतोलयत् प्रभुः ।
एकतश्चतुरो वेदान् गायत्रीं च तथैकतः ॥ १४.५२ ॥

ओंकारमादितः कृत्वा व्याहृतीस्तदनन्तरम् ।
ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ॥ १४.५३ ॥

पुराकल्पे समुत्पन्ना भूर्भुवःस्वः सनातनाः ॥ १४.५४ ॥

महाव्याहृतयस्तिस्त्रः सर्वाशुभनिबर्हणाः ॥ १४.५५ ॥

प्रधानं पुरुषः कालो विष्णुर्ब्रह्मा महेश्वरः ।
सत्त्वं रजस्तमस्तिस्त्रः क्रमाद् व्याहृतयः स्मृताः ॥ १४.५६ ॥

ओंकारस्तत् परं ब्रह्म सावित्री स्यात् तदक्षरम् ।
एष मन्त्रो महायोगः सारात् सार उदाहृतः ॥ १४.५७ ॥

योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम् ।
विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥ १४.५८ ॥

गायत्री वेदजननी गायत्री लोकपावनी ।
न गायत्र्याः परं जप्यमेतद् विज्ञाय मुच्यते ॥ १४.५९ ॥

श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः ।
आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ॥ १४.६० ॥

उत्सृज्य ग्रामनगरं मासान् विप्रोऽर्द्धपञ्चमान् ।
अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ॥ १४.६१ ॥

पुष्ये तु छन्दसां कुर्याद् बहिरुत्सर्जनं द्विजाः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥ १४.६२ ॥

छन्दांस्यूर्ध्वमथोभ्यस्येच्छुक्लपक्षेषु वै द्विजः ।
वेदाङ्गानि पुराणानि कृष्णपक्षे च मानवः ॥ १४.६३ ॥

इमान् नित्यमनध्यायानदीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणो ह्यनध्यायन्विवर्जयेत् ॥ १४.६४ ॥

कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमूहने ।
विद्युत्स्तनितवर्षेषु महोल्कानां च सम्प्लवे ॥ १४.६५ ॥

आकालिकमनध्यायमेतेष्वाह प्रजापतिः ।
एतानभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु ।
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ।
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ॥ १४.६६ ॥

एतानाकालिकान् विद्यादनध्यायानृतावपि ।
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने ॥ १४.६७ ॥

सज्योतिः स्यादनध्यायमनृतौ चात्रदर्शने ।
नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च ॥ १४.६८ ॥

धर्मनैपुण्यकामानां पूतिगन्धे च नित्यशः ।
अन्तः शवगते ग्रामे वृषलस्य च सन्निधौ ॥ १४.६९ ॥

अनध्यायो रुद्यमाने समवाये जनस्य च ।
उदके मध्यरात्रे च विण्मूत्रे च विसर्जने ॥ १४.७० ॥

उच्छिष्टः श्राद्धबुक् चैव मनसाऽपि न चिन्तयेत् ।
प्रतिगृह्य द्विजो विद्वानेकोदिष्टस्य केतनम् ॥ १४.७१ ॥

त्र्यहं न कीर्त्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ।
यावदेकोऽनुदिष्टस्य स्नेहो गन्धश्च तिष्ठति ॥ १४.७२ ॥

विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्त्तयेत् ।
शयानः प्रौढपादश्च कृत्वा चैचावसिक्थकाम् ॥ १४.७३ ॥

नाधीयीतामिषं जग्ध्वा सूतकाद्यन्नमेव च ।
नीहारे बाणपाते च संध्ययोरुभयोरपि ॥ १४.७४ ॥

अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च ।
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ॥ १४.७५ ॥

अष्टकासु त्र्यहोरात्रं ऋत्वन्तासु च रात्रिषु ।
मार्गशीर्षे तथा पौषे माघमासे तथैव च ॥ १४.७६ ॥

तिस्रोऽष्टकाः समाख्याता कृष्णपक्षेतु सूरिभिः ।
श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च ॥ १४.७७ ॥

कदाचिदपि नाध्येयं कोविदारकपित्थयोः ।
समानविद्ये च मृते तथा सब्रह्मचारिणि ॥ १४.७८ ॥

आचार्ये संस्थिते वाऽपि त्रिरात्रं क्षपणं स्मृतम् ।
छिद्राण्येतानि विप्राणांयेऽनध्यायाः प्रकीर्तिताः ॥ १४.७९ ॥

हिंसन्ति राक्षसास्तेषु तस्मादेतान् विवर्जयेत् ।
नैत्यके नास्त्यनध्यायः संध्योपासन एव च ॥ १४.८० ॥

उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि ।
एकामृचमथैकं वा यजुः सामाथवा पुनः ॥ १४.८१ ॥

अष्टकाद्यास्वधीयीत मारुते चातिवायति ।
अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ॥ १४.८२ ॥

न धर्मशास्त्रेष्वन्येषु पर्वाण्येतानि वर्जयेत् ।
एष धर्मः समासेन कीर्त्तितो ब्रह्मचारिणाम् ॥ १४.८३ ॥

ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम् ।
योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजाः ॥ १४.८४ ॥

स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिः ।
न वेदपाठमात्रेण संतुष्टो वै भवेद् द्विजः ॥ १४.८५ ॥

पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति ।
योऽधीत्य विधिवद् वेदं वेदार्थं न विचारयेत् ॥ १४.८६ ॥

स चान्धः शूद्रकल्पस्तु पदार्थं न प्रपद्यते ।
यदि त्वात्यन्तिकं वासं कर्त्तुमिच्छति वै गुरौ ॥ १४.८७ ॥

युक्तः परिचरेदेनमाशरीरविमोक्षणात् ।
गत्वा वनं वा विधिवज्जुहुयाज्जातवेदसम् ॥ १४.८८ ॥

अभ्यसेत्स तदा नित्यं ब्रह्मनिष्ठः समाहितः
सावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः ।
अभ्यसेत् सततं युक्ते भस्मस्नानपरायणः ॥ १४.८९ ॥

एतद् विधानं परमं पुराणं
वेदागमे सम्यगिहेरितञ्च ।
पुरा महर्षिप्रवरानुपृष्टः
स्वायंभुवो यन्मनुराह देवः ॥ १४.९० ॥

एवमीश्वरसमर्पितान्तरो
योऽनुतिष्ठति विधिं विधानवित् ।
मोहजालमपहाय सोऽमृतो
याति तत् पदमनामयं शिवम् ॥ १४.९१ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
चतुर्दशोऽध्यायः ॥१४ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे पञ्चदशोऽध्यायः

व्यास उवाच ।
वेदं वेदौ तथा वेदान् विन्द्याद्वा चतुरो द्विजाः ।
अधीत्य चाभिगम्यार्थं ततः स्नायाद् द्विजोत्तमाः ॥ १५.१ ॥

गुरवे तु धनं दत्त्वा स्नायीत तदनुज्ञया ।
चीर्णव्रतोऽथ युक्तात्मा सशक्तः स्नातुमर्हति ॥ १५.२ ॥

वैणवीं धारयेद् यष्टिमन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ १५.३ ॥

छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।
रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ॥ १५.४ ॥

स्वाध्याये नित्ययुक्तः स्याद् बहिर्माल्यं न धारयेत् ।
अन्यत्रकाञ्चनाद् विप्रः नरक्तां बिभृयात् स्त्रजम् ॥ १५.५ ॥

शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ।
न जीर्णमलवद्वासा भवेद् वै वैभवे सति ॥ १५.६ ॥

न रक्तमुल्बणं चान्यधृतं वासो न कुण्डिकाम् ।
नोपानहौ स्त्रजं चाथ पादुके न प्रयोजयेत् ॥ १५.७ ॥

उपवीतकरान् दर्भान् तथा कृष्णाजिनानि च ।
नापसव्यं परीदध्याद् वासो न विकृतंञ्च यत् ॥ १५.८ ॥

आहरेद् विधिवद् दारान् सदृशानात्मनः शुभान् ।
रूपलक्षणसंयुक्तान् योनिदोषविवर्जितान् ॥ १५.९ ॥

अमातृगोत्रप्रभवामसमानर्षिगोत्रजाम् ।
आहरेद् ब्राह्मणो भार्यां शीलशौचसमन्विताम् ॥ १५.१० ॥

ऋतुकालाभिगामी स्याद् यावत् पुत्रोऽभिजायते ।
वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु ॥ १५.११ ॥

षष्ट्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥ १५.१२ ॥

आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् ।
व्रतानि स्नातको नित्यं पावनानि च पालयेत् ॥ १५.१३ ॥

वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
अकुर्वाणः पतत्याशु नरकानतिभीषणान् ॥ १५.१४ ॥

अभ्यसेत् प्रयतो वेदं महायज्ञांश्च भावयेत् ।
कुर्याद् गृह्याणि कर्माणि संध्योपासनमेव च ॥ १५.१५ ॥

सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा ।
दैवतान्यपि गच्छेत कुर्याद् भार्याभिपोषणम् ॥ १५.१६ ॥

न धर्मं ख्यापयेद् विद्वान् न पापं गूहयेदपि ।
कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पनम् ॥ १५.१७ ॥

वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।
वेषवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा ॥ १५.१८ ॥

श्रुतिस्मृत्युदितः सम्यक् साधुभिर्यश्च सेवितः ।
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् ॥ १५.१९ ॥

येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् तरिष्यति ॥ १५.२० ॥

नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ।
सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते ॥ १५.२१ ॥

संध्यास्नानपरो नित्यं ब्रह्मयज्ञुपरायणः ।
अनसूयी मृदुर्दान्तो गृहस्थः प्रेत्य वर्द्धते ॥ १५.२२ ॥

वीतरागभयक्रोधो लोभमोहविवर्जितः ।
सावित्रीजापनिरतः श्राद्धकृन्मुच्यते गृही ॥ १५.२३ ॥

मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः ।
दान्तो यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ १५.२४ ॥

त्रिवर्गसेवी सततं देवतानां च पूजनम् ।
कुर्यादहरहर्नित्यं नमस्येत् प्रयतः सुरान् ॥ १५.२५ ॥

विभागशीलः सततं क्षमायुक्तो दयालुकः ।
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ १५.२६ ॥

क्षमा दया च विज्ञानं सत्यं चैव दमः शमः ।
अध्यात्मनिरत ज्ञानमेतद् ब्राह्मणलक्षणम् ॥ १५.२७ ॥

एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः ।
यथाशक्ति चरेत् कर्म निन्दितानि विवर्जयेत् ॥ १५.२८ ॥

विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।
गृहस्थो मुच्यते बन्धात् नात्र कार्या विचारणा ॥ १५.२९ ॥

विगर्हातिक्रमाक्षेपहिंसाबन्धवधात्मनाम् ।
अन्यमन्युसमुत्थानां दोषाणां मर्षणं क्षमा ॥ १५.३० ॥

स्वदुःखेष्विव कारुण्यं परदुः खेषु सौहृदात् ।
दयेति मुनयः प्राहुः साक्षाद् धर्मस्य साधनम् ॥ १५.३१ ॥

चतुर्दशानां विद्यानां धारणं हि यथार्थतः ।
विज्ञानमिति तद् विद्याद् यत्र धर्मो विवर्द्धते ॥ १५.३२ ॥

अधीत्य विधिवद् विद्यामर्थं चैवोपलभ्य तु ।
धर्मकार्यान्निवृत्तश्चेन्न तद् विज्ञानमिष्यते ॥ १५.३३ ॥

सत्येन लोकाञ्जयति सत्यं तत्परमं पदम् ।
यथाभूतप्रवादं तु सत्यमाहुर्मनीषिणः ॥ १५.३४ ॥

दमः शरीरोपरमः शमः प्रज्ञाप्रसादजः ।
अध्यात्ममक्षरं विद्याद् यत्र गत्वा न शोचति ॥ १५.३५ ॥

यया स देवो भगवान् विद्यया वेद्यते परः ।
साक्षाद् देवो महादेवस्तज्ज्ञानमिति कीर्तितम् ॥ १५.३६ ॥

तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः ।
महायज्ञपरो विप्रो भवेत्तदनुत्तमम् ॥ १५.३७ ॥

धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् ।
न हि देहं विना रुद्रः पुरुषैर्विद्यते परः ॥ १५.३८ ॥

नित्यधर्मार्थकामेषु युज्येत नियतो द्विजः ।
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ १५.३९ ॥

सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् ।
धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु ॥ १५.४० ॥

भूतानां प्रियकारी स्यात् न परद्रोहकर्मधीः ।
न वेददेवतानिन्दां कुर्यात् तैश्च न संवदेत् ॥ १५.४१ ॥

यस्त्विमं नियतं विप्रो धर्माध्यायं पठेच्छुचिः ।
अध्यापयेत् श्रावयेद् वा ब्रह्मलोके महीयते ॥ १५.४२ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
पञ्चदशोऽध्यायः ॥१५ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे षोडशोऽध्यायः

व्यास उवाच ।
न हिंस्यात् सर्वभूतानिनानृतं वा वदेत् क्वचित् ।
नाहितं नाप्रियं वाक्यं न स्तेनः स्याद् कदाचन ॥ १६.१ ॥

तृणं वा यदि वा शाकं मृदं वा जलमेव वा ।
परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ॥ १६.२ ॥

न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि ।
न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद् बुधः ॥ १६.३ ॥

नित्यं याचनको न स्यात् पुनस्तं नैव याचयेत् ।
प्राणानपहरत्येष याचकस्तस्य दुर्मतिः ॥ १६.४ ॥

न देवद्रव्यहारी स्याद् विशेषेण द्विजोत्तमः ।
ब्रह्मस्वं वा नापहरेदापद्यपि कदाचन ॥ १६.५ ॥

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
देवस्वं चापि यत्नेन सदा परिहरेत् ततः ॥ १६.६ ॥

पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे ।
अदत्तादानमस्तेयं मनुः प्राह प्रजापतिः ॥ १६.७ ॥

ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः ।
नैकस्मादेव नियतमननुज्ञाय केवलम् ॥ १६.८ ॥

तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद् बुधः ।
धर्मार्थं केवलं ग्राह्यं ह्यन्यथा पतितो भवेत् ॥ १६.९ ॥

तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः ।
क्षुधार्तैर्नान्यथा विप्रा धर्मविद्भिरिति स्थितिः ॥ १६.१० ॥

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रलम्भनम् ॥ १६.११ ॥

प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ १६.१२ ॥

अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।
स लिङ्गिनां हरेदेनस्तिर्यग्योनौ च जायते ॥ १६.१३ ॥

बैडालव्रतिनः पापा लोके धर्मविनाशकाः ।
सद्यः पतन्ति पापेन कर्मणस्तस्य तत् फलम् ॥ १६.१४ ॥

पाखण्डिनो विकर्मस्थान् वामाचारांस्तथैव च ।
पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्चयेत् ॥ १६.१५ ॥

वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा ।
द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ॥ १६.१६ ॥

याजनं योनिसंबन्धं सहवासं च भाषणम् ।
कुर्वाणः पतते जन्तुस्तस्माद् यत्नेन वर्जयेत् ॥ १६.१७ ॥

देवद्रोहाद् गुरुद्रोहः कोटिकोटिगुणाधिकः ।
ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणाधिकम् ॥ १६.१८ ॥

गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया ।
कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः ॥ १६.१९ ॥

कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ १६.२० ॥

अनृतात् पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् ।
अश्रौतधर्माचरणात् क्षिप्रं नश्यति वै कुलम् ॥ १६.२१ ॥

अश्रोत्रियेषु वै दानाद् वृषलेषु तथैव च ।
विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ॥ १६.२२ ॥

नाधार्मिकैर्वृते ग्रामे न व्याधिबहुले भृशम् ।
न शूद्रराज्ये निवसेन्न पाखण्डजनैर्वृते ॥ १६.२३ ॥

हिमवद्विन्ध्ययोर्मध्ये पूर्वपश्चिमयोः शुभम् ।
मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद् द्विजः ॥ १६.२४ ॥

कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ।
पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद् द्विजः ॥ १६.२५ ॥

अर्द्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः ।
नान्यत्र निवसेत् पुण्यां नान्त्यजग्रामसन्निधौ ॥ १६.२६ ॥

न संवसेच्च पतितैर्न चण्डालैर्न पुक्कसैः ।
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ १६.२७ ॥

एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् ।
याजनाध्यापनं योनिस्तथैव सहभोजनम् ॥ १६.२८ ॥

सहाध्यायस्तु दशमः सहयाजनमेव च ।
एकादश समुद्दिष्टा दोषाः साङ्कर्यसंज्ञिताः ॥ १६.२९ ॥

समीपे वा व्यवस्थानात् पापं संक्रमते नृणाम् ।
तस्मात् सर्वप्रयत्नेन साङ्कर्यं परिवर्जयेत् ॥ १६.३० ॥

एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् ।
भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥ १६.३१ ॥

अग्निना भस्मना चैव सलिलेन विशेषतः ।
द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्विभिद्यते ॥ १६.३२ ॥

न कुर्याच्छुष्कवैराणि विवादं च न पैशुनम् ।
परक्षेत्रे गां चरन्तीं न चाचक्षति कस्यचित् ॥ १६.३३ ॥

न संवसेत् सूतकिना न कञ्चिन्मर्मणि स्पृशेत् ।
न सूर्यपरिवेषं वा नेन्द्रचापं शवाग्निकम् ॥ १६.३४ ॥

परस्मै कथयेद् विद्वान् शशिनं वा कदाचन ।
न कुर्याद् बहुभिः सार्द्धं विरोधं बन्धुभिस्तया ॥ १६.३५ ॥

आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
तिथिं पक्षस्य न ब्रूयात् नक्षत्राणि विनिर्दिशेत् ॥ १६.३६ ॥

नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ।
न देवगुरुविप्राणां दीयमानं तु वारयेत् ॥ १६.३७ ॥

न चात्मानं प्रशंसेद् वा परनिन्दां च वर्जयेत् ।
वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ॥ १६.३८ ॥

यस्तु देवानृषीन् विप्रान्वेदान् वा निन्दति द्विजः ।
न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ॥ १६.३९ ॥

निन्दयेद् वै गुरुं देवं वेदं वा सोपबृंहणम् ।
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ॥ १६.४० ॥

तूष्णीमासीत निन्दायां न ब्रूयात् किंचिदुत्तरम् ।
कर्णौ पिधाय गन्तव्यं न चैतानवलोकयेत् ॥ १६.४१ ॥

वर्जयेद् वै रहस्यञ्च परेषां गूहयेद् बुधः ।
विवादं स्वजनैः सार्द्धं न कुर्याद् वै कदाचन ॥ १६.४२ ॥

न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमाः ।
स तेन तुल्यदोषः स्यान्मिथ्या द्दोषवान् भवेत् ॥ १६.४३ ॥

यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् ।
तानिपुत्रान् पशून् घ्नन्ति तेषां मिथ्याभिशंसिनाम् ॥ १६.४४ ॥

ब्रिह्महत्यासुरापाने स्तेयगुर्वङ्गनागमे ।
दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ॥ १६.४५ ॥

नेक्षेतोद्यन्तमादित्यं शशिनं चानिमित्ततः ।
नास्तं यान्तं न वारिस्थं नोपसृष्टं न मघ्यगम् ॥ १६.४६ ॥

तिरोहितं वाससा वा नादर्शान्तरगामिनम् ।
न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ॥ १६.४७ ॥

न च मूत्रं पुरीषं वा न च संस्पृष्टमैथुनम् ।
नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद् बुधः ॥ १६.४८ ॥

पतितव्यङ्गचण्डालानुच्छिष्टान् नावलोकयेत् ।
नाभिभाषेत च परमुच्छिष्टो वाऽवगुण्ठितः ॥ १६.४९ ॥

न स्पृशेत् प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् ।
न तैलोदकयोश्छायां न पत्नीं भोजने सति ।
नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ॥ १६.५० ॥

नाश्नीयात् भार्यया सार्द्धंनैनामीक्षेत चाशुचिम् ।
क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम् ॥ १६.५१ ॥

नोदके चात्मनो रूपं न कूलं श्वभ्रमेव वा ।
न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत् कदाचन ॥ १६.५२ ॥

न शूद्राय मतिं दद्यात् कृशरं पायसं दधि ।
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ॥ १६.५३ ॥

न चैवास्मै व्रतं दद्यान्न च धर्मं वदेद् बुधः ।
न च क्रोधवशं गच्छेद् द्वेषं रागं च वर्जयेत् ॥ १६.५४ ॥

लोभं दम्भं तथा यत्नादसूयां विज्ञानकुत्सनम् ।
मानं मोहं तथा क्रोधं द्वेषञ्च परिवर्जयेत् ॥ १६.५५ ॥

न कुर्यात् कस्यचित् पीडां सुतं शिष्यं च ताडयेत् ।
न हीनानुपसेवेत न च तीक्ष्णमतीन् क्वचित् ॥ १६.५६ ॥

नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् ।
न विशिष्टानसत्कुर्य्यात् नात्मानं वा शंसयेद् बुधः ॥ १६.५७ ॥

न नखैर्विलिखेद् भूमिं गां च संवेशयेन्न हि ।
न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतान् ॥ १६.५८ ॥

आवासे भोजने वाऽपि न त्यजेत् हसयायिनम् ।
नावगाहेदपो नग्नो वह्निं नातिव्रजेत् पदा ॥ १६.५९ ॥

शिरोऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ।
न सर्पशस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् ॥ १६.६० ॥

रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ।
न पाणिपादावग्नौच चापलानि समाश्रयेत् ॥ १६.६१ ॥

न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ।
न चाङ्गनखवादं वै कुर्यान्नाञ्जलिना पिबेत् ॥ १६.६२ ॥

नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन ।
न शातयेदिष्टकाभिः फलानि सफलानि च ॥ १६.६३ ॥

न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ।
न भेदनमधिस्फोटं छेदनं वा विलेखनम् ॥ १६.६४ ॥

कुर्याद् विमर्दनं धीमान् नाकस्मादेव निष्फलम् ।
नोत्सङ्गेभक्षयेद् भक्ष्यान् वृथा चेष्टां च नाचरेत् ॥ १६.६५ ॥

न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ।
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ॥ १६.६६ ॥

न लौकिकैः स्तवैर्देवांस्तोषयेद् बाह्यजैरपि ।
नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् ॥ १६.६७ ॥

नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ।
न गच्छेन्न पठेद् वाऽपि न चैव स्वशिरः स्पृशेत् ॥ १६.६८ ॥

न दन्तैर्नखरोमाणि छिन्द्यात् सुप्तं न बोधयेत् ।
न बालातपमासेवेत् प्रेतधूमं विवर्जयेत् ॥ १६.६९ ॥

नैकः सुप्याच्छून्यगृहे स्वयं नोपानहौ हरेत् ।
नाकारणाद् वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ॥ १६.७० ॥

न पादक्षालनं कुर्यात् पादेनैव कदाचन ।
नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद् बुधः ॥ १६.७१ ॥

नातिप्रसारयेद् देवं ब्राह्मणान् गामथापि वा ।
वाय्वग्निगुरुविप्रान् वा सूर्यं वा शशिनं प्रति ॥ १६.७२ ॥

अशुद्धः शयनं यानं स्वाध्यायं स्नानभोजनम् ।
बहिर्निष्क्रमणं चैव न कुर्वीत कथञ्चन ॥ १६.७३ ॥

स्वप्नमध्ययनं स्नानमुच्चारं भोजनं गतिम् ।
उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ॥ १६.७४ ॥

न स्पृशेत् पाणिनोच्छिष्टो विप्रोगोब्राह्मणानलान् ।
न चैवान्नं पदा वाऽपि न देवप्रतिमां स्पृशेत् ॥ १६.७५ ॥

नाशुद्धोऽग्निं परिचरेन्न देवान् कीर्त्तयेदृषीन् ।
नावगाहेदगाधाम्बु धारयेन्नाग्निमेकतः ॥ १६.७६ ॥

न वामहस्तेनोद्धत्य पिबेद् वक्त्रेण वा जलम् ।
नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥ १६.७७ ॥

अमेध्यलिप्तमन्यद् वा लोहितं वा विषाणि वा ।
व्यतिक्रमेन्न स्रवन्तीं नाप्सु मैथुनमाचरेत् ॥ १६.७८ ॥

चैत्यं वृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत् ।
नास्थिभस्मकपालानि न केशान्न च कण्टकान् ।
ओषांङ्गारकरीषं वा नाधितिष्ठेत् कदाचन ॥ १६.७९ ॥

न चाग्निं लङ्घयेद् धीमान् नोपदध्यादधः क्वचित् ।
न चैनं पादतः कुर्यान्मुखेन न धमेद् बुधः ॥ १६.८० ॥

न कूपमवरोहेत नावेक्षेताशुचिः क्वचित् ।
अग्नौ न प्रक्षिपेदग्निं नाद्भिः प्रशमयेत् तथा ॥ १६.८१ ॥

सुहृन्मरणमार्तिं वा न स्वयं श्रावयेत् परान् ।
अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत् ॥ १६.८२ ॥

न वह्निं मुखनिश्वासैर्ज्वालयेन्नाशुचिर्बुधः ।
पुण्यस्नानोदकस्थाने सीमान्तं वा कृषेन्न तु ॥ १६.८३ ॥

न भिन्द्यात् पूर्वसमयमभ्युपेतं कदाचन ।
परस्परं पशून् व्यालान् पक्षिणो नावबोधयेत् ॥ १६.८४ ॥

परबाधां न कुर्वीत जलवातातपादिभिः ।
कारयित्वा स्वकर्माणि कारून् पश्चान्न वर्जयेत् ।
सायंप्रातर्गृहद्वारान् भिक्षार्थं नावघाटयेत् ॥ १६.८५ ॥

बहिर्माल्यं बहिर्गन्धं भार्यया सह भोजनम् ।
विगृह्य वादं कुद्वारप्रवेशं च विवर्जयेत् ॥ १६.८६ ॥

न खादन्ब्राह्मणस्तिष्ठेन्न जल्पेद् वा हसन् बुधः ।
स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत् ॥ १६.८७ ॥

न पक्षकेणोपधमेन्न शूर्पेण न पाणिना ।
मुखेनैव धमेदग्निं मुखादग्निरजायत ॥ १६.८८ ॥

परस्त्रियं न भाषेत नायाज्यं याजयेद् द्विजः ।
नैकश्चरेत् सभां विप्रः समवायं च वर्जयेत् ।
न देवायतनं गच्छेत् कदाचिद् वाऽप्रदक्षिणम् ॥ १६.८९ ॥

न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत् ।
नैकोऽध्वानं प्रपद्येत नाधार्मिकजनैः सह ॥ १६.९० ॥

न व्याधिदूषितैर्वापि न शूद्रैः पतितैर्न वा ।
नोपानद्वर्जितोऽध्वानं जलादिरहितस्तथा ॥ १६.९१ ॥

न रात्रौ वारिणा सार्द्धं न विना च कमण्डलुम् ।
नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित् ॥ १६.९२ ॥

निवत्स्यन्तीं न वनितामतिक्रामेत् क्वचिद् द्विजः ।
न निन्देद् योगिनः सिद्धान् व्रतिनो वा यतींस्तथा ॥ १६.९३ ॥

देवतायतनं प्राज्ञो देवानां चैव मन्त्रिणाम् ।
नाक्रामेत् कामतश्छायां ब्राह्मणानां च गोरपि ॥ १६.९४ ॥

स्वां तु नाक्रमयेच्छायां पतिताद्यैर्न रोगिभिः ।
नाङ्गारभस्मकेशादिष्वधितिष्ठेत् कदाचन ॥ १६.९५ ॥

वर्जयेन्मार्जनीरेणुं स्नानवस्त्रघटोदकम् ।
न भक्षयेदभक्ष्याणि नापेयं चापिबेद् द्विजः ॥ १६.९६ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
षोडशोऽध्यायः ॥१६ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे सप्तदशोऽध्यायः

व्यास उवाच ।
नाद्याच्छूद्रस्य विप्रोऽन्नं मोहाद् वा यदि वाऽन्यतः ।
स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥ १७.१ ॥

षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् ।
जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥ १७.२ ॥

ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः ।
यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ १७.३ ॥

राजान्नं नर्त्तकान्नं च तक्ष्णोऽन्नं कर्मकारिणः ।
गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत् ॥ १७.४ ॥

चक्रोपजीविरजकतस्करध्वजिनां तथा ।
गान्धर्वलोहकारान्नं सूतकान्नं च वर्जयेत् ॥ १७.५ ॥

कुलालचित्रकर्मान्नं वार्धुषेः पतितस्य च ।
सुवर्णकारशैलूषव्याधबद्धातुरस्यच ॥ १७.६ ॥

सुवर्णकारशैलूषव्याधबद्धातुरस्य च ।
चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च ।
स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च ॥ १७.७ ॥

सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥

भार्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ॥ १७.८ ॥

उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ।
अपाङ्क्त्यान्नं च सङ्घान्नं शस्त्रजीवस्य चैव हि ॥ १७.९ ॥

क्लीबसंन्यासिनोश्चान्नं मत्तोन्मत्तस्य चैव हि ।
भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षुतम् ॥ १७.१० ॥

ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य च ।
वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ॥ १७.११ ॥

अप्रजानां तु नारीणां भृतकस्य तथैव च ।
कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ॥ १७.१२ ॥

शौण्डान्नं घाटिकान्नं च भिषजामन्नमेव च ।
विद्धप्रजननस्यान्नं परिवेत्रन्नमेव च ॥ १७.१३ ॥

पुनर्भुवो विशेषेण तथैव दिधिषूपतेः ।
अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् ॥ १७.१४ ॥

गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् ।
दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् ॥ १७.१५ ॥

यो यस्यान्नं समश्नाति स तस्याश्नानि किल्बिषम् ।
आर्द्धिकः कुलमित्रश्च स्वगोपालश्च नापितः ॥ १७.१६ ॥

कुशीलवः कुम्बकारः क्षेत्रकर्मक एव च
एते शूद्रेषु भोज्यान्नं दत्वा स्वल्पं पणं बुधैः ।
पायसं स्नेहपक्वं यद् गोरसं चैव सक्तवः ॥ १७.१७ ॥

पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं द्विजातिभिः ।
वृन्ताकं नालिकाशाकं कुसुम्भाश्मन्तकं तथा ॥ १७.१८ ॥

पलाण्डुं लसुनं शुक्तं निर्यासं चैव वर्जयेत् ।
छत्राकं विड्वराहं च शेळं पीयूषमेव च ॥ १७.१९ ॥

विलयं सुमुखं चैव कवकानि च वर्जयेत् ॥

गृञ्जनं किंशुकं चैव ककुभञ्च तथैव च ॥ १७.२० ॥

उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः ॥

वृथा कृशरसंयावं पायसापूपमेव च ॥ १७.२१ ॥

अनुपाकृतमांसं च देवान्नानि हवींषि च ।
यवागूं मातुलिङ्गं च मत्स्यानप्यनुपाकृतान् ॥ १७.२२ ॥

नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् ॥

पिण्याकं चोद्धृतस्नेहं देवधान्य तथैव च ॥ १७.२३ ॥

रात्रौ च तिलसंबद्धं प्रयत्नेन दधि त्यजेत् ॥

नाश्नीयात् पयसा तक्रं न बीजान्युपजीवयेत् ॥ १७.२४ ॥

क्रियादुष्टं भावदुष्टमसत्संगं विवर्जयेत् ॥

केशकीटावपन्नं च सुहृल्लेखं च नित्यशः ॥ १७.२५ ॥

श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षितं तथा ।
उदक्यया च पतितैर्गवा चाघ्रातमेव च ॥ १७.२६ ॥

अनर्चितं पुर्युंषितं पर्याभ्रान्तं च नित्यशः ।
काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संयुतम् ॥ १७.२७ ॥

मनुष्यैरथवाघ्रातं कुष्ठिना स्पृष्टमेव च ।
न रजस्वलया दत्तं न पुंश्चाल्या सरोषया ॥ १७.२८ ॥

मलबद्वाससा वापि परवासोऽथ वर्जयेत् ।
विवत्सायाश्च गोः क्षीरमौष्ट्रं वानिर्दशं तथा ॥ १७.२९ ॥

आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ।
बलाकं हंसदात्यूहं कलविकं शुकं तथा ॥ १७.३० ॥

कुररञ्चचकारञ्च जालपादं च कोकिलम् ।
चाषांश्च खञ्जरीटांश्च श्येनं गृध्रं तथैव च ॥ १७.३१ ॥

उलूकं चक्रवाकं च भासं पारावतं तथा ।
कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ॥ १७.३२ ॥

सिंहं व्याघ्रं च मार्जारं श्वानं कुक्कुरमेव च ।
श‍ृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ।
न भक्षयेत् सर्वमृगान् पक्षिणोऽन्यान् वनेचरान् ॥ १७.३३ ॥

जलेचरान् स्थलचरान् प्राणिनश्चेति धारणा ।
गोधा कूर्मः शशः श्वावित् सल्लकी चेति सत्तमाः ॥ १७.३४ ॥

भक्ष्याः पञ्चनखा नित्यं मनुराह प्रिजापतिः ।
मत्स्यान् सशल्कान् भुञ्जीयान् मांसं रौरवमेवच ॥ १७.३५ ॥

निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यस्तु नान्यथा ।
मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम् ॥ १७.३६ ॥

वाध्रीणसं द्वीपिनञ्च भक्ष्यानाह प्रजापतिः ।
शफरं सिंहतुण्डं च तथा पाठीनरोहितौ ॥ १७.३७ ॥

मत्स्येष्वेते समुद्दिष्टा भक्षणाया द्विजोत्तमाः ।
प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया ॥ १७.३८ ॥

यथाविधि नियुक्तं च प्राणानामपि चात्यये ।
भक्षयेदेव मांसानि शेषभोजी न लिप्यते ॥ १७.३९ ॥

औषधार्थमशक्तौ वा नियोगाद्यं न कारयेत् ।
आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् ।
यावन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ॥ १७.४० ॥

अपेयं चाप्यपेयं च तथैवास्पृश्यमेव च ।
द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ॥ १७.४१ ॥

तस्मात् सर्वप्रकारेण मद्यं नित्यं विवर्जयेत् ।
पीत्वा पतति कर्मभ्यस्त्वसंभाष्यो भवेद् द्विजैः ॥ १७.४२ ॥

भक्षयित्वा ह्यभक्ष्याणि पीत्वाऽपेयान्यपि द्विजः ।
नाधिकारी भवेत् तावद् यावद् तन्न व्रजत्यधः ॥ १७.४३ ॥

तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः ।
अपेयानि च विप्रो वै तथा चेद् याति रौरवम् ॥ १७.४४ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
सप्तदशोऽध्यायः ॥१७ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे अष्टादशोऽध्यायः

ऋषय ऊचुः ।
अहन्यहनि कर्त्तव्यं ब्राह्मणानां महामुने ।
तदाचक्ष्वाखिलं कर्म येन मुच्येत बन्धनात् ॥ १८.१ ॥

व्यास उवाच ।
वक्ष्ये समाहिता यूयं श‍ृणुध्वं गदतो मम ।
अहन्यहनि कर्तव्यं ब्राह्मणानां क्रमाद् विधिम् ॥ १८.२ ॥

ब्राह्मे मुहूर्ते तूत्थाय धर्ममर्थं च चिन्तयेत् ।
कायक्लेशं तदुद्भूतं ध्यायेत मनसेश्वरम् ॥ १८.३ ॥

उषः कालेऽच सम्प्राप्ते कृत्वा चावश्यकं बुधः ।
स्नायान्नदीषु सुद्धासु शौचं कृत्वा यथाविधि ॥ १८.४ ॥

प्रातः स्नानेन पूयन्ते येऽपि पापकृतो जनाः ।
तस्मात् सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ॥ १८.५ ॥

प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् ।
ऋषीणामृषिता नित्यं प्रातः स्नानान्न संशयः ॥ १८.६ ॥

मुखे सुप्तस्य सततं लाला याः संस्त्रवन्ति हि ।
ततो नैवाचरेत् कर्म अकृत्वा स्नानमादितः ॥ १८.७ ॥

अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।
प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः ॥ १८.८ ॥

अतः स्नानं विना पुंसां पावनं कर्म संस्मृतम् ।
होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् ॥ १८.९ ॥

अशक्तावशिरस्कं वा स्नानमस्य विधीयते ।
आर्द्रेण वाससा वाऽथ मार्जनं कापिलं स्मृतम् ॥ १८.१० ॥

असामर्थ्ये समुत्पन्ने स्नानमेवं समाचरेत् ।
ब्राह्मादीनामथाशक्तौ स्नानान्याहुर्मनीषिणः ॥ १८.११ ॥

ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च ।
वारुणं यौगिकं तद्वत् षोढा स्नानं प्रकीर्तितम् ॥ १८.१२ ॥

ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ।
आग्नेयं भस्मना पादमस्तकाद्देहधूलनम् ॥ १८.१३ ॥

गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ।
यत्तु सातपवर्षेण स्नानं तद् दिव्यमुच्यते ॥ १८.१४ ॥

वारुणं चावगाहस्तु मानसं स्वात्मवेदनम् ।
यौगिनां स्नानमाख्यातं योगात्विष्णुंविचिन्तनम् ॥ १८.१५ ॥

आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ।
मनः शुचिकरं पुंसां नित्यं तत् स्नानमाचरेत् ॥ १८.१६ ॥

शक्तश्चेद् वारुणं विद्वान् प्रायश्चित्ते तथैव च ।
प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः ॥ १८.१७ ॥

आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् ।
मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसम्मितम् ॥ १८.१८ ॥

सत्वचं दन्तकाष्ठं स्यात् तदग्रेण तु धावयेत् ।
क्षीरवृक्षसमुद्भूतं मालतीसंभवं शुभम् ।
अपामार्गं च बिल्वं च करवीरं विशेषतः ॥ १८.१९ ॥

वर्जयित्वा निन्दितानि गृहीत्वैकं यथोदितम् ।
परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ॥ १८.२० ॥

नोत्पाटयेद्दन्तकाष्टंनाङ्गुल्या धारयेत् क्वचित् ।
प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौदेशे समाहितः ॥ १८.२१ ॥

स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।
आचम्य मन्त्रविन्नित्यं पुनराचम्य वाग्यतः ॥ १८.२२ ॥

संमार्ज्य मन्त्रैरात्मानं कुशैः सोदकबिन्दुभिः ।
आपो हिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥ १८.२३ ॥

ओङ्कारव्याहृतियुतां गायत्रीं वेदमातरम् ।
जप्त्वा जलाञ्जलिं दद्याद् भास्करं प्रति तन्मनाः ॥ १८.२४ ॥

प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः ।
प्राणायामत्रयं कृत्वा ध्यायेत् संध्यामिति श्रुतिः ॥ १८.२५ ॥

या संध्या सा जगत्सूतिर्मायातीता हि निष्कला ।
ऐश्वरी तु पराशक्तिस्तत्त्वत्रयसमुद्भवा ॥ १८.२६ ॥

ध्यात्वाऽर्कमण्डलगतां सावित्रीं वै जपन् बुधः ।
प्राङ्मुखः सततं विप्रः संध्योपासनमाचरेत् ॥ १८.२७ ॥

संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत् कुरुते किञ्चिन्न तस्य फलमाप्नुयात् ॥ १८.२८ ॥

अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः ।
उपास्य विधिवत् संध्यां प्राप्ताः पूर्वेऽपरां गतिम् ॥ १८.२९ ॥

योऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः ।
विहाय संध्याप्रणतिं स याति नरकायुतम् ॥ १८.३० ॥

तस्मात् सर्वप्रयत्नेन संध्योपासनमाचरेत् ।
उपासितो भवेत् तेन देवो योगतनुः परः ॥ १८.३१ ॥

सहस्रपरमां नित्यं शतमध्यां दशावराम् ।
सावित्रीं वै जपेद् विद्वान् प्राङ्मुखः प्रयतः स्थितः ॥ १८.३२ ॥

अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।
मन्त्रैस्तु विविधैः सौरै ऋग्यजुः सामसंभवैः ॥ १८.३३ ॥

उपस्थाय महायोगं देवदेवं दिवाकरम् ।
कुर्वीत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः ॥ १८.३४ ॥

ओं ङ्खद्योताय च शान्ताय कारणत्रयहेतवे ।
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ॥ १८.३५ ॥

नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे ।
त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ।
भूर्भुवः स्वस्त्वमोङ्कारः शर्व रुद्रः सनातनः ॥ १८.३६ ॥

पुरुषः सन्महोऽन्तस्थं प्रणमामि कपर्दिनम् ।
त्वमेव विश्वं बहुधा जात यज्जायते च यत् ।
नमो रुद्राय सूर्याय त्वामहं शरणं गतः ॥ १८.३७ ॥

प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते ।
नमो नमस्ते रुद्राय त्वामहं शरणं गतः ।
हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः ॥ १८.३८ ॥

अम्बिकापतये तुभ्यमुमायाः पतये नमः ।
नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ॥ १८.३९ ॥

विलोहिताय भर्गाय सहस्राक्षाय ते नमः ।
नमो हंसाय ते नित्यमादित्याय नमोऽस्तु ते ॥ १८.४० ॥

नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो नमः ।
प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् ॥ १८.४१ ॥

हिरण्मये गृहे गुप्तमात्मानं सर्वदेहिनाम् ।
नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् ॥ १८.४२ ॥

विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ॥

नमः सूर्याय रुद्राय भास्वते परमेष्ठिने ॥ १८.४३ ॥

उग्राय सर्वभक्षाय त्वां प्रपद्ये सदैव हि ।
एतद् वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् ॥ १८.४४ ॥

प्रातः कालेऽथ मध्याह्ने नमस्कुर्याद् दिवाकरम् ।
इदं पुत्राय शिष्याय धार्मिकाय द्विजातये ॥ १८.४५ ॥

प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम् ।
सर्वपापप्रशमनं वेदसारसमुद्भवम् ।
ब्राह्मणानां हितं पुण्यमृषिसङ्घैर्निषेवितम् ॥ १८.४६ ॥

अथागम्य गृहं विप्रः समाचम्य यथाविधि ।
प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम् ॥ १८.४७ ॥

ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वाऽपि सहोदरः ।
प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि ॥ १८.४८ ॥

पवित्रपाणिः पूतात्मा शुक्लाम्बरधरः शुचिः ।
अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः ॥ १८.४९ ॥

विना दर्भेण यत्कर्म विना सूत्रेण वा पुनः ।
राक्षसं तद्भवेत् सर्वं नामुत्रेह फलप्रदम् ॥ १८.५० ॥

दैवतानि नमस्कुर्याद् देयसारान्निवेदयेत् ।
दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत् ॥ १८.५१ ॥

गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् ।
वेदाभ्यासं ततः कुर्यात् प्रयत्नाच्छक्तितो द्विजः ॥ १८.५२ ॥

जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत् ।
अवेक्ष्य तच्च शास्त्राणि धर्मादीनि द्विजोत्तमः ॥ १८.५३ ॥

वैदिकांश्चैव निगमान् वेदाङ्गानि वेशिषतः ।
उपेयादीश्वरं चाथ योगक्षेमप्रसिद्धये ॥ १८.५४ ॥

साधयेद् विविधानर्थान् कुटुम्बार्थे ततो द्विजः
ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् ॥ १८.५५ ॥

पुष्पाक्षतान् कुशतिलान् गोमयं शुद्धमेव च ।
नदीषु देवखातेषु तडागेषु सरस्सु च ।
स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ १८.५६ ॥

परकीयनिपानेषु न स्नायाद् वै कदाचन ।
पञ्चपिण्डान् समुद्धृत्य स्नायाद् वाऽसंभवे पुनः ॥ १८.५७ ॥

मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ।
अधश्च तिसृभिः कार्यः पादौ षड्भिस्तथैव च ॥ १८.५८ ॥

मृत्तिका च समुद्दिष्टा सार्द्रामलकमात्रिका ।
गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत् ततः ॥ १८.५९ ॥

लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः ।
प्रक्षाल्याचम्य विधिवत् ततः स्नायात् समाहितः ॥ १८.६० ॥

अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः ।
भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम् ॥ १८.६१ ॥

आपो नारायणोद्भूतास्ता एवास्यायनं पुनः ।
तस्मान्नारायणं देवं स्नानकाले स्मरेद् बुधः ॥ १८.६२ ॥

प्रेक्ष्य सोङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये ॥ १८.६३ ॥

आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ॥ १८.६४ ॥

अन्तश्चरसि भूतेषु गुहायां विश्वतो मुखः ।
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् ॥ १८.६५ ॥

द्रुपदां वा त्रिरभ्यस्येद् व्याहृतिंप्रणवान्विताम् ।
सावित्रीं वा जपेद् विद्वान् तथा चैवाघमर्षणम् ॥ १८.६६ ॥

ततः संमार्जनं कुर्यादापोहिष्ठा मयोभुवः ।
इदमापः प्रवहत व्याहृतिभिस्तथैव च ॥ १८.६७ ॥

ततोऽभिमन्त्र्य तत् तोयं मापो हिष्ठादिमन्त्रकैः ।
अन्तर्जलगतो मग्नो जपेत् त्रिरघमर्षणम् ॥ १८.६८ ॥

त्रिपदां वाऽथ सावित्रीं तद्विष्णोः परमं पदम् ।
आवर्त्तयेद् वा प्रणवं देवं वा संस्मरेद्धरिम् ॥ १८.६९ ॥

द्रुपदादिव यो मन्त्रो यजुर्वेदे प्रतिष्ठितः ।
अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते ॥ १८.७० ॥

अपः पाणौ समादाय जप्त्वा वै मार्जने कृते ।
विन्यस्य मूर्ध्नि तत् तोयं मुच्यते सर्वपातकैः ॥ १८.७१ ॥

यथाऽश्वमेधः क्रतुराट् सर्वपापापनोदनः ।
तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ १८.७२ ॥

अथोपतिष्ठेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिम् ।
प्रक्षिप्यालोकयेद् देवमुद्वयं तमसस्परि ॥ १८.७३ ॥

उदुत्यं चित्रमित्येते तच्चक्षुरिति मन्त्रतः ।
हंसः शुचिषदन्तेन सावित्र्या सविशेषतः ॥ १८.७४ ॥

अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः ।
सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः ॥ १८.७५ ॥

विविधानि पवित्राणि गुह्यविद्यास्तथैव च ।
शतरुद्रीयमथर्वशिरः सौरान् मन्त्रांश्च सर्वतः ॥ १८.७६ ॥

प्राक्कूलेषु समासीनः कुशेषु प्राङ्मुखः शुचिः ।
तिष्ठंश्चेदीक्षमाणोऽर्कं जप्यं कुर्यात् समाहितः ॥ १८.७७ ॥

स्फाटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ।
कर्तव्या त्वक्षमाला स्यादुत्तरादुत्तमा स्मृता ॥ १८.७८ ॥

जपकाले न भाषेत नान्यानि प्रेक्षयेद् बुधः ।
न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत् ॥ १८.७९ ॥

गुह्यका राक्षसा सिद्धा हरन्ति प्रसभं यतः ।
एकान्ते सुशुभे देशे तस्माज्जप्यं समाचरेत् ॥ १८.८० ॥

चण्डालाशौचपतितान् दृष्ट्वाचैव पुनर्जपेत् ।
तैरेव भाषणं कृत्वा स्नात्वा चैव जपेत् पुनः ॥ १८.८१ ॥

आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।
सौरान् मन्त्रान् शक्तितो वै पावमानीस्तु कामतः ॥ १८.८२ ॥

यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् ।
अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ॥ १८.८३ ॥

प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ ।
आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ॥ १८.८४ ॥

ततः संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।
अदावोङ्कारमुच्चार्य नामान्ते तर्पयामि वः ॥ १८.८५ ॥

देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।
तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः ॥ १८.८६ ॥

अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
देवर्षीस्तर्पयेद् धीमानुदकाञ्जलिभिः पितन् ।
यज्ञोपवीती देवानां निवीती ऋषीतर्पणे ॥ १८.८७ ॥

प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावितः ।
निष्पीड्य स्नानवस्त्रं तु समाचम्य च वाग्यतः ।
स्वैर्मन्त्रैरर्चयेद् देवान् पुष्पैः पत्रैरथाम्बुभिः ॥ १८.८८ ॥

ब्रह्माणं शंकरं सूर्यं तथैव मधुसूदनम् ।
अन्यांश्चाभिमतान् देवान् भक्त्याचारो नरोत्तमः ॥ १८.८९ ॥

प्रदद्याद् वाऽथ पुष्पाणि सूक्तेन पौरुषेण तु ।
आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः ॥ १८.९० ॥

ध्यात्वा प्रणवपूर्वं वै दैवतानि समाहितः ।
नमस्कारेण पुष्पाणि विन्यसेद् वै पृथक् पृथक् ॥ १८.९१ ॥

विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥ १८.९२ ॥

तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु ।
न ताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ।
तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः ॥ १८.९३ ॥

अथवा देवमीशानं भगवन्तं सनातनम् ।
आराधयेन्महादेवं भावपूतो महेश्वरम् ॥ १८.९४ ॥

मन्त्रेण रुद्रागायत्र्या प्रणवेनाथ वा पुनः ।
ईशानेनाथ वा रुद्रैस्त्र्यम्बकेन समाहितः ॥ १८.९७ ॥

पुष्पैः पत्रैरथाद्भिर्वा चन्दनाद्यैर्महेश्वरम् ।
उक्त्वा नमः शिवायेति मन्त्रेणानेन वा जपेत् ॥ १८.९६ ॥

नमस्कुर्यान्महादेवं ऋतं सत्यमितिश्वरम् ।
निवेदयीत स्वात्मानं यो ब्रह्माणमितीश्वरम् ॥ १८.९७ ॥

प्रदक्षिणं द्विजः कुर्यात् पञ्च वर्षाणि वै बुधः ।
ध्यायीत देवमीशानं व्योममध्यगतं शिवम् ॥ १८.९८ ॥

अथावलोकयेदर्कं हंसः सुचिषदित्यृचा ।
कुर्यात् पञ्च महायज्ञान् गृहं गत्वा समाहितः ॥ १८.९९ ॥

देवयज्ञं पितृयज्ञं भूतयज्ञं तथैव च ।
मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञान् प्रचक्षते ॥ १८.१०० ॥

यदि स्यात् तर्पणादर्वाक् ब्रह्मयज्ञः कृतो न हि ।
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ॥ १८.१०१ ॥

अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा ।
कुशपुञ्जे समासीनः कुशपाणिः समाहितः ॥ १८.१०२ ॥

शालाग्नौ लौकिके वाऽथ जले भूभ्यामथापिवा ।
वैश्वदेवं कर्तव्यो देवयज्ञः स वै स्मृतः ॥ १८.१०३ ॥

यदि स्याल्लौकिके पक्षे ततोऽन्नं तत्र हूयते ।
शालाग्नौ तत्पचेदन्नं विधिरेष सनातनः ॥ १८.१०४ ॥

देवेभ्यस्तु हुतादन्नाच्छेषाद् भूतबलिं हरेत् ।
भूतयज्ञः स वै ज्ञेयो भूतिदः सर्वदेहिनाम् ॥ १८.१०५ ॥

श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च ।
दद्याद् भूमौ बलिं त्वन्नं पक्षिभ्यो द्विजोत्तमः ॥ १८.१०६ ॥

सायं चान्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।
भूतयज्ञस्त्वयं नित्यं सायं प्रातर्विधीयते ॥ १८.१०७ ॥

एकं तु भोजयेद् विप्रं पितॄनुद्दिश्य सन्ततम् ।
नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः ॥ १८.१०८ ॥

उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः ।
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ॥ १८.१०९ ॥

पूजयेदतिथिं नित्यं नमस्येदर्च्चयेद् द्विजम् ।
मनोवाक्कर्मभिः शान्तमागतं स्वगृहं ततः ॥ १८.११० ॥

अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः ॥ १८.१११ ॥

दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ।
भिक्षामाहुर्ग्रासमात्रमग्रं तस्याश्चतुर्गुणम् ॥ १८.११२ ॥

पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ।
गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् ॥ १८.११३ ॥

अभ्यागतान् यथाशक्ति पूजयेदतिथीन् सदा ।
भिक्षां वै भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ।
दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः ॥ १८.११४ ॥

सर्वेषामप्यलाभे त्वन्नं गोभ्यो निवेदयेत् ।
भुञ्जीत बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ॥ १८.११५ ॥

अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमाः ।
भृञ्जीत चेत् स मूढात्मा तिर्यग्योनिं स गच्छति ॥ १८.११६ ॥

वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षया ।
नाशयत्याशु पापानि देवानामर्चनं तथा ॥ १८.११७ ॥

यो मोहादथवालस्यादकृत्वा देवतार्चनम् ।
भुङ्क्ते स याति नरकं शूकरेष्वभिजायते ॥ १८.११८ ॥

तस्मात् सर्वप्रयत्नेन कृत्वा कर्माणि वै द्विजाः ।
भुञ्जीत स्वजनैः सार्द्धं स याति परमां गतिम् ॥ १८.११९ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
अष्टादशोऽध्यायः ॥१८ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे एकोनविंशतितमोऽध्यायः

व्यास उवाच ।
प्राङ्मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा ।
आसीनस्वासने शुद्धे भूम्यां पादौ निधाय तु ॥ १९.१ ॥

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते
उदङ्मुखाः ॥ १९.२ ॥

पञ्चार्द्रो भोजनं कुर्याद् भूमौ पात्रं निधाय तु ।
उपवासेन तत्तुल्यं मनुराह प्रजापतिः ॥ १९.३ ॥

उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ ।
आचम्यार्द्राननोऽक्रोधः पञ्चार्द्रो भोजनं चरेत् ॥ १९.४ ॥

महाव्यहृतिभिस्त्वन्नं परिधायोदकेन तु ।
अमृतोपस्तरणमसीत्यापोशानक्रियां चरेत् ॥ १९.५ ॥

स्वाहाप्रणवसंयुक्तां प्राणायाद्याहुतिं ततः ।
अपानाय ततो भुक्त्वा व्यानाय तदनन्तरम् ॥ १९.६ ॥

उदानाय ततः कुर्यात् समानायेति पञ्चमम् ।
विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः ॥ १९.७ ॥

शेषमन्नं यथाकामं भुञ्जीत व्यंजनैर्युतम् ।
ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम् ॥ १९.८ ॥

अमृतापिधानमसीत्युपरिष्टादपः पिबेत् ।
आचान्तः पुनराचामेदायं गौरिति मन्त्रतः ॥ १९.९ ॥

द्रुपदां वा त्रिरावर्त्य सर्वपापप्रणाशनीम् ।
प्राणानां ग्रन्थिरसीत्यालभेत हृदयं ततः ॥ १९.१० ॥

आचम्याङ्गुष्ठमात्रेण पादाङ्गुष्ठेन दक्षिणे ।
निःस्रावयेद् हस्तजलमूर्द्ध्वहस्तः समाहितः ॥ १९.११ ॥

कृतानुमन्त्रणं कुर्यात् सन्ध्यायामिति मन्त्रतः ।
अथाक्षरेण स्वात्मानं योजयेद् ब्रह्मणेति हि ॥ १९.१२ ॥

सर्वेषामेव यागानामात्मयोगः परः स्मृतः ।
योऽनेन विधिना कुर्यात् स याति ब्रह्मणः क्षयम् ॥ १९.१३ ॥

यज्ञोपवीती भुञ्जीत स्त्रग्गन्धालंकृतः शुचिः ।
सायंप्रापर्नान्तरा वै संध्यायां तु विशेषतः ॥ १९.१४ ॥

नाद्यात् सूर्यग्रहात् पूर्वं प्रति सायं शशिग्रहात् ।
ग्रहकाले च नाश्नीयात् स्नात्वाऽश्नीयात्विमुक्तये ॥ १९.१५ ॥

मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा ।
अमुक्तयोरस्तंगतयोरद्याद् दृष्ट्वा परेऽहनि ॥ १९.१६ ॥

नाश्नीयात् प्रेक्षमाणानामप्रदायैव दुर्मतिः ।
यज्ञावशिष्टमद्याद्वा न क्रुद्धो नान्यमानसः ॥ १९.१७ ॥

आत्मार्थं भोजनं यस्य रत्यर्थं यस्य मैथुनम् ।
वृत्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् ॥ १९.१८ ॥

यद्भुङ्क्ते वेष्टितशिरा यच्च भुङ्क्ते उदङ्मुखः ।
सोपानत्कश्च यद् भुङ्क्ते सर्वं विद्यात् तदासुरम् ॥ १९.१९ ॥

नार्द्धरात्रे न मध्याह्ने नाजीर्णे नार्द्रवस्त्रधृक् ।
न च भिन्नासनगतो न शयानः स्थितोऽपि वा ॥ १९.२० ॥

न भिन्नभाजने चैव न भूम्यां न च पाणिषु ।
नोच्छिष्टो घृतमादद्यान्न मूर्द्धानं स्पृशेदपि ॥ १९.२१ ॥

न ब्रह्म कीर्तयन् वापि न निः शेषं न भार्यया ।
नान्धकारे न चाकाशे न च देवालयादिषु ॥ १९.२२ ॥

नैकवस्त्रस्तु भुञ्जीत न यानशयनस्थितः ।
न पादुकानिर्गतोऽथ न हसन् विलपन्नपि ॥ १९.२३ ॥

भुक्त्वा वै सुखमास्थाय तदन्नं परिणामयेत् ।
इतिहासपुराणाभ्यां वेदार्थानुपबृंहयेत् ॥ १९.२४ ॥

ततः संध्यामुपासीत पूर्वोक्तविधिना द्विजः ।
आसीनस्तु जपेद् देवीं गायत्रीं पश्चिमां प्रति ॥ १९.२५ ॥

न तिष्ठति तु यः पुर्वां आस्ते संध्यां तु पश्चिमाम् ।
स शूद्रेण समो लोके सर्वधर्मविवर्जितः ॥ १९.२६ ॥

हुत्वाऽग्निं विधिवन्मन्त्रैर्भुक्त्वा यज्ञावशिष्टकम् ।
सभृत्यबान्धवजनः स्वपेच्छुष्कपदो निशि ॥ १९.२७ ॥

नोत्तराभिमुखः स्वप्यात् पश्चिमाभिमुखो न च ।
न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित् ॥ १९.२८ ॥

न शीर्णायां तु खट्वायां शून्यागारे न चैव हि ।
नानुवंशे न पालाशे शयने वा कदाचन ॥ १९.२९ ॥

इत्येतदखिलेनोक्तमहन्यहनि वै मया ।
ब्राह्मणानां कृत्यजातमपवर्गफलप्रदम् ॥ १९.३० ॥

नास्तिक्यादथवालस्यात् ब्राह्मणो न करोति यः ।
स याति नरकान् घोरान् काकयोनौ च जायते ॥ १९.३१ ॥

नान्यो विमुक्तये पन्था मुक्त्वाश्रमविधिं स्वकम् ।
तस्मात् कर्माणि कुर्वीत तुष्टये परमेष्ठिनः ॥ १९.३२ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
एकोनविंशोऽध्यायः ॥१९ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे विंशतितमोऽध्यायः

व्यास उवाच ।
अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः ।
पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ २०.१ ॥

पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
अपराह्णे द्विजातीनां प्रशस्तेनामिषेण च ॥ २०.२ ॥

प्रतिपत्प्रभृति ह्यन्यास्तिथयः कृष्णपक्षके ।
चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तरोत्तरे ॥ २०.३ ॥

अमावास्याष्टकास्तिस्रः पौषमासादिषु त्रिषु ।
तिस्रस्तास्त्वष्टकाः पुण्या माघी पञ्चदशी तथा ॥ २०.४ ॥

त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः ।
शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने ॥ २०.५ ॥

नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।
बान्धवानां च मरणे नारकी स्यादतोऽन्यथा ॥ २०.६ ॥

काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ।
अयने विषुवे चैव व्यतीपातेऽप्यनन्तकम् ॥ २०.७ ॥

संक्रान्त्यामक्षयं श्राद्धं तथा जन्मदिनेष्वपि ।
नक्षत्रेषु च सर्वेषु कार्यं काले विशेषतः ॥ २०.८ ॥

स्वर्गं च लभते कृत्वा कृत्तिकासु द्विजोत्तमः ।
अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्चसम् ॥ २०.९ ॥

रौद्राणां कर्मणां सिद्धिमार्द्रायां शौर्यमेव च ।
पुनर्वसौ तथा भूमिं श्रियं पुष्ये तथैव च ॥ २०.१० ॥

सर्वान् कामांस्तथा सर्प्ये पित्र्ये सौभाग्यमेव च ।
अर्यम्णे तु धनं विन्द्यात् फाल्गुन्यां पापनाशनम् ॥ २०.११ ॥

ज्ञातिश्रैष्ठ्यं तथा हस्ते चित्रायां च बहून् सुतान् ।
वाणिज्यसिद्धिं स्वातौ तु विशाखासु सुवर्णकम् ॥ २०.१२ ॥

मैत्रे बहूनि मित्राणि राज्यं शाक्रे तथैव च ।
मूले कृषिं लभेद् ज्ञानं सिद्धिमाप्ये समुद्रतः ॥ २०.१३ ॥

सर्वान् कामान् वैश्वदेवे श्रैष्ठ्यं तु श्रवणे पुनः ।
श्रविष्ठायां तथा कामान् वारुणे च परं बलम् ॥ २०.१४ ॥

अजैकपादे कुप्यं स्यादहिर्बुध्ने गृहं शुभम् ।
रेवत्यां बहवो गावो ह्यश्विन्यां तुरगांस्तथा ।
याम्येऽथ जीवितन्तु स्याद्यदि श्राद्धं प्रयच्छति ॥ २०.१५ ॥

आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च ।
कौजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु ॥ २०.१६ ॥

विद्यामभीष्टा जीवे तु धनं वै भार्गवे पुनः ।
शमैश्वरे लभेदायुः प्रतिपत्सु सुतान् शुभान् ॥ २०.१७ ॥

कन्यका वै द्वितीयायां तृतीयायां तु विन्दति ।
पशून्क्षुद्रांश्चतुर्थ्यां तु पञ्चम्यांशोभनान् सुतान् ॥ २०.१८ ॥

षष्ट्यां द्युतिं कृषिं चापि सप्तम्यां च धनं नरः ।
अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा ॥ २०.१९ ॥

स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु ।
एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान् ॥ २०.२० ॥

द्वादश्यां जातरूपं च रजतं कुप्यमेव च ।
ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु क्रुप्रजाः ।
पञ्चदश्यां सर्वकामानाप्नोति श्राद्धदः सदा ॥ २०.२१ ॥

तस्माच्छ्राद्धं न कर्त्तव्यं चतुर्दश्यां द्विजातिभिः ।
शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ॥ २०.२२ ॥

द्रव्यब्राह्मणसम्पत्तौ न कालनियमः कृतः ।
तस्माद् भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः ॥ २०.२३ ॥

कर्मारम्भेषु सर्वेषु कुर्यादाभ्युदयं पुनः ।
पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वसु स्मृतम् ॥ २०.२४ ॥

अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः ।
एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम् ॥ २०.२५ ॥

एतत् पञ्चविधं श्राद्धं मनुना परिकीर्तितम् ।
यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत् ॥ २०.२६ ॥

शुद्धये सप्तमं श्राद्धं ब्रह्मणा परिभाषितम् ।
दैविकं चाष्टमं श्राद्धं यत्कृत्वा मुच्यते भयात् ॥ २०.२७ ॥

संन्ध्यां रीत्रौ न कर्त्तव्यं राहोरन्यत्र दर्शनात् ।
देशानां च विशेषेण भवेत् पुण्यमनन्तकम् ॥ २०.२८ ॥

गङ्गायामक्षयं श्राद्धं प्रयागेऽमरकण्टके ।
गायन्ति पितरो गाथां कीर्त्तयन्ति मनीषिणः ॥ २०.२९ ॥

एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।
तेषां तु समवेतानां यद्येकोऽपि गायां व्रजेत् ॥ २०.३० ॥

गयां प्राप्यानुषङ्गेण यदि श्राद्धं समाचरेत् ।
तारिताः पितरस्तेन स याति परमां गतिम् ॥ २०.३१ ॥

वराहपर्वते चैव गङ्गायां वै विशेषतः ।
वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥ २०.३२ ॥

गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ।
कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये ॥ २०.३३ ॥

केदारे फल्गुतीर्थे च नैमिषारण्य एव च ।
सरस्वत्यां विशेषेण पुष्करेषु विशेषतः ॥ २०.३४ ॥

नर्मदायां कुशावर्त्ते श्रीशैले भद्रकर्णके ।
वेत्रवत्यां विशाखायां गोदावर्यां विशेषतः ॥ २०.३५ ॥

एवमादिषु चान्येषु तीर्थेषु पुलिनेषु च ।
नदीनां चैव तीरेषु तुष्यन्ति पितरः सदा ॥ २०.३६ ॥

व्रीहिभिश्च यवैर्माषैरद्भिर्मूलफलेन वा ।
श्यामाकैश्च यवैः शाकैर्नीवारैश्च प्रियङ्गुभिः ।
गौधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन् ॥ २०.३७ ॥

आम्रान् पाने रतानिक्षून् मृद्वीकांश्च सदाडिमान् ।
विदाश्वांश्च भरण्डाश्च श्राद्धकाले प्रादपयेत् ॥ २०.३८ ॥

लाजान् मधुयुतान् दद्यात् सक्तून् शर्करया सह ।
दद्याच्छ्राद्धे प्रयत्नेन श‍ृङ्गाटककशेरुकान् ॥ २०.३९ ॥

द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेनतु ।
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ।
षण्मासांश्छागमांसेन पार्षतेनाथ सप्त वै ॥ २०.४० ॥

अष्टावेणस्य मांसेन रौरवेण नवैव तु ।
दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ॥ २०.४१ ॥

शशकूर्मर्योर्मांसेन मासानेकादशैव तु ।
संवत्सरं तु गव्येन पयसा पायसेन तु ।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ २०.४२ ॥

कालशाकं महाशल्कः खङ्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ २०.४३ ॥

क्रीत्वा लब्ध्वा स्वयं वाऽथ मृतानादृत्य वै द्विजः ।
दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते ॥ २०.४४ ॥

पिप्पलीं क्रमुकं चैव तथा चैव मसूरकम् ।
कूष्माण्डालाबुवार्त्ताक भूतृणं सुरसं तथा ॥ २०.४५ ॥

कुसुम्भपिण्डमूलं वै तन्दुलीयकमेव च ।
राजमाषांस्तथा क्षीरं माहिषाजं च विवर्जयेत् ॥ २०.४६ ॥

आढक्यः कोविदारांश्च पालक्या मरिचांस्तथा ।
वर्जयेत् सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ॥ २०.४७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे विशोऽध्यायः ॥२० ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे एकविंशतितमोऽध्यायः

व्यास उवाच ।
स्नात्वा यथोक्तं संतर्प्य पितॄंश्चन्द्रक्षये द्विजः ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यात् सौम्यमनाः शुचिः ॥ २१.१ ॥

पूर्वमेव परीक्षेत ब्राह्मणं वेदपारगम् ।
तीर्थं तद् हव्यकव्यानां प्रदाने चातिथिः स्मृतः ॥ २१.२ ॥

ये सोमपा विरजसो धर्मज्ञाः शान्तचेतसः ।
व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥ २१.३ ॥

पञ्चाग्निरप्यधीयानो यजुर्वेदविदेव च ।
बह्वृचश्च त्रिसौपर्णस्त्रिमधुर्वाऽथ योऽभवत् ॥ २१.४ ॥

त्रिणाचिकेतच्छन्दोगो ज्येष्ठसामग एव च ।
अथर्वशिरसोऽध्येता रुद्राध्यायी विशेषतः ॥ २१.५ ॥

अग्निहोत्रपरो विद्वान् न्यायविच्च षडङ्गवित् ।
मन्त्रब्राह्मणविच्चैव यश्च स्याद् धर्मपाठकः ॥ २१.६ ॥

ऋषिव्रती ऋषीकश्च तथा द्वादशवार्षिकः ।
ब्रह्मदेयानुसंतानो गर्भशुद्धः सहस्रदः ॥ २१.७ ॥

चान्द्रायणव्रतचरः सत्यवादी पुराणवित् ।
गुरुदेवाग्निपूजासु प्रसक्तो ज्ञानतत्परः ॥ २१.८ ॥

विमुक्तः सर्वतो धीरो ब्रह्मभूतो द्विजोत्तमः ।
महादेवार्चनरतो वैष्णवः पङ्क्तिपावनः ॥ २१.९ ॥

अहिंसानिरतो नित्यमप्रतिग्रहणस्तथा ।
सत्री च दाननिरता विज्ञेयः पङ्क्तिपावनः ॥ २१.१० ॥

युवानः श्रोत्रियाः स्वस्था महायज्ञपरायणाः ।
सावित्रीजापनिरता ब्राह्मणाः पङ्क्तिपावनाः ।
कुलानां श्रुतवन्तश्च शीलवन्तस्तपस्विनः ।
अग्निचित्स्नातका विप्रः विज्ञेयाः पङ्क्तिपावनाः ।
मातापित्रोर्हिते युक्तः प्रातः स्नायी तथा द्विजः ।
अध्यात्मविन्मुनिर्दान्तो विज्ञेयः पङ्क्तिपावनः ॥ २१.११ ॥

ज्ञाननिष्ठो महायोगी वेदान्तार्थविचिन्तकः ।
श्रद्धालुः श्राद्धनिरतो ब्राह्मणः पङ्क्तिपावनः ॥ २१.१२ ॥

वेदविद्यारतः स्नातो ब्रह्मचर्यपरः सदा ।
अथर्वणो मुमुक्षुश्च ब्राह्मणः पङ्क्तिपावनः ॥ २१.१३ ॥

असमानप्रवरको ह्यसगोत्रस्तथैव च ।
असंबन्धी च विज्ञेयो ब्राह्मणः पङ्क्तिपावनः ॥ २१.१४ ॥

भोजयेद् योगिनं शान्तं तत्त्वज्ञानरतं यतः ।
अलाभे नैष्ठिकं दान्तमुपकुर्वाणकं तथा ॥ २१.१५ ॥

तदलाभे गृहस्थं तु मुमुक्षुं सङ्गवर्जितम् ।
सर्वालाभे साधकं वा गृहस्थमपि भोजयेत् ॥ २१.१६ ॥

प्रकृतेर्गुणतत्त्वज्ञो यस्याश्नाति यतिर्हविः ।
फलं वेदविदां तस्य सहस्रादतिरिच्यते ॥ २१.१७ ॥

तस्माद् यत्नेन योगीन्द्रमीश्वरज्ञानतत्परम् ।
भोजयेद् हव्यकव्येषु अलाभादितरान् द्विजान् ॥ २१.१८ ॥

एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ २१.१९ ॥

मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥ २१.२० ॥

न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः ।
पैशाची दक्षिणाशा हि नैवामुत्र फलप्रदा ॥ २१.२१ ॥

कामं श्राद्धेऽर्च्चयेन्मित्रं नाभिरूपमपि त्वरिम् ।
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ २१.२२ ॥

ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति ।
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ २१.२३ ॥

यथोषरे बीजमुप्त्वा न वप्ता लभते फलम् ।
तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम् ॥ २१.२४ ॥

यावतो ग्रसते पिण्डान् हव्यकव्येष्वमन्त्रवित् ।
तावतो ग्रसते प्रेत्य दीप्तान् स्थूलांस्त्वयोगुडान् ॥ २१.२५ ॥

अपि विद्याकुलैर्युक्ता हीनवृत्ता नराधमाः
यत्रैते भुञ्जते हव्यं तद् भवेदासुरं द्विजाः ॥ २१.२६ ॥

यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो नार्हः श्राद्धादिषु कदाचन ॥ २१.२७ ॥

शूद्रप्रेष्यो भृतो राज्ञो वृषली ग्रामयाजकः ।
बधबन्धोपजीवी च षडेते ब्रह्मबन्धवः ॥ २१.२८ ॥

दत्तानुयोगो द्रव्यार्थं पतितान् मनुरब्रवीत् ।
वेदविक्रयिणो ह्येते श्राद्धादिषु विगर्हिताः ॥ २१.२९ ॥

सुतविक्रयिणो ये तु परपूर्वासमुद्भवाः ।
असामान्यान् यजन्ते ये पतितास्ते प्रकीर्तिताः ॥ २१.३० ॥

असंस्कृताध्यापका ये भृत्या वाऽध्यापयन्ति ये ।
अधीयते तथा वेदान् पतितास्ते प्रकीर्तिताः ॥ २१.३१ ॥

वृद्धश्रावकनिर्ग्रन्थाः पञ्चरात्रविदो जनाः ।
कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः ॥ २१.३२ ॥

यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः ।
न तस्य तद् भवेच्छ्राद्धं प्रेत्य चेह फलप्रदम् ॥ २१.३३ ॥

अनाश्रमी द्विजो यः स्यादाश्रमी वा निरर्थकः ।
मिथ्याश्रमी च ते विप्रा विज्ञेयाः पङ्क्तिदूषकाः ॥ २१.३४ ॥

दुश्चर्मा कुनखी कुष्ठी श्वित्री च श्यावदन्तकः ।
विद्ध्यजननश्चैव स्तेनः क्लीबोऽथ नास्तिकः ॥ २१.३५ ॥

मद्यपो वृषलीसक्तो वीरहा दिधिषूपतिः ।
आगारदाही कुण्डाशी सोमविक्रयिणो द्विजाः ॥ २१.३६ ॥

परिवेत्ता च हिंस्रः श्च परिवित्तिर्निराकृतिः ।
पौनर्भवः कुसीदश्च तथा नक्षत्रदर्शकः ॥ २१.३७ ॥

गीतवादित्रनिरतो व्याधितः काण एव च ।
हीनाङ्गश्चातिरिक्ताङ्गो ह्यवकीर्णीस्तथैव च ॥ २१.३८ ॥

कान्तादूषी कुण्डगोलौ अभिशस्तोऽथ देवलः
मित्रध्रुक् पिशुनश्चैव नित्यं भार्यानुवर्त्तितः ॥ २१.३९ ॥

मातापित्रोर्गुरोस्त्यागी दारत्यागी तथैव च
गोत्रस्पृक् भ्रष्टशौचश्च काण्डस्पृष्टस्तथैव च ॥ २१.४० ॥

अनपत्यः कूटसाक्षी याचको रङ्गजीवकः ।
समुद्रयायी कृतहा तथा समयभेदकः ॥ २१.४१ ॥

देवनिन्दापरश्चैव वेदनिन्दारतस्तथा ।
द्विजनिन्दारतश्चैते वर्ज्याः श्राद्धादिकर्मसु ॥ २१.४२ ॥

कृतघ्नः पिशुनः क्रूरो नास्तिको वेदनिन्दकः ।
मित्रध्रुक् कुहकश्चैव विशेषात् पङ्क्तिदूषकाः ॥ २१.४३ ॥

सर्वे पुनरभोज्यान्नः तदानार्हाश्च कर्मसु ।
ब्रह्मभावनिरस्ताश्च वर्जनीयाः प्रयत्नतः ॥ २१.४४ ॥

शूद्रान्नरसपुष्टाङ्गः संध्योपासनवर्जितः ।
महायज्ञविहीनश्च ब्राह्मणः पङ्क्तिदूषकः ॥ २१.४५ ॥

अधीतनाशनश्चैव स्नानहोमविवर्जितः ।
तामसो राजसश्चैव ब्राह्मणः पङ्क्तिदूषकः ॥ २१.४६ ॥

बहुनाऽत्र किमुक्तेन विहितान् ये न कुर्वते ।
निन्दितानाचरन्त्येते वर्ज्याः श्राद्धे प्रयत्नतः ॥ २१.४७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
एकविशोऽध्यायः ॥२१ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे द्वाविंशतितमोऽध्यायः

व्यास उवाच ।
गोमयेनोदकैर्भूमिं शोधयित्वा समाहितः ।
सन्निमन्त्र्य द्विजान् सर्वान् साधुभिः सन्निमन्त्रयेत् ॥ २२.१ ॥

श्वो भविष्यति मे श्राद्धं पूर्वेद्युरभिपूज्य च ।
असंभवे परेद्युर्वा यथोक्तैर्लक्षणैर्युतान् ॥ २२.२ ॥

तस्य ते पितरः श्रुत्वा श्राद्धकालमुपस्थितम् ।
अन्योन्यं मनसा ध्यात्वा सम्पतन्ति मनोजवाः ॥ २२.३ ॥

ब्राह्मणैस्तै सहाश्नन्ति पितरो ह्यन्तरिक्षगाः ।
वायुभूतास्तु तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ॥ २२.४ ॥

आमन्त्रिताश्च ते विप्राः श्राद्धकाल उपस्थिते ।
वसेयुर्नियताः सर्वे ब्रह्मचर्यपरायणाः ॥ २२.५ ॥

अक्रोधनोऽत्वरोऽमत्तः सत्यवादी समाहितः ।
भारं मैथुनमध्वानं श्राद्धकृद् वर्जयेज्जपम् ॥ २२.६ ॥

आमन्त्रितो ब्राह्मणो वा योऽन्यस्मै कुरुते क्षणम् ।
स याति नरकं घोरं सूकरत्वां प्रायाति च ॥ २२.७ ॥

आमन्त्रयित्वा यो मोहादन्यं चामन्त्रयेद् द्विजः ।
स तस्मादधिकः पापी विष्ठाकीटोऽभिजायते ॥ २२.८ ॥

श्राद्धे निमन्त्रितो विप्रो मैथुनं योऽधिगच्छति ।
ब्रह्महत्यामवाप्नोति तिर्यग्योनौ च जायते ॥ २२.९ ॥

निमन्त्रितस्तु यो विप्रो ह्यध्वानं याति दुर्मतिः ।
भवन्ति पितरस्तस्य तन्मासं पापभोजनाः ॥ २२.१० ॥

निमन्त्रितस्तु यः श्राद्धे प्रकुर्यात् कलहं द्विजः ।
भवन्ति तस्य तन्मासं पितरो मलभोजनाः ॥ २२.११ ॥

तस्मान्निमन्त्रितः श्राद्धे नियतात्मा भवेद् द्विजः ।
अक्रोधनः शौचपरः कर्ता चैव जितेन्द्रियः ॥ २२.१२ ॥

श्वोभूते दक्षिणां गत्वा दिशं दर्भान् समाहितः ।
समूलानाहरेद् वारि दक्षिणाग्रान् सुनिर्मलान् ॥ २२.१३ ॥

दक्षिणाप्रवणं स्निग्धं विभक्तं शुभलक्षणम् ।
शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ॥ २२.१४ ॥

नदीतीरेषु तीर्थेषु स्वभूमौ चैव नाम्बुषु ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ २२.१५ ॥

पारक्ये भूमिभागे तु पितॄणां नैव निर्वपेत् ।
स्वामिभिस्तद् विहन्येत मोहाद् यत् क्रियते नरैः ॥ २२.१६ ॥

अटव्यः पर्वताः पुण्यास्तीर्थान्यायतनानि च ।
सर्वाण्यस्वामिकान्याहुर्न ह्येतेषु परिग्रहः ॥ २२.१७ ॥

तिलान् प्रविकिरेत्तत्र सर्वतो बन्धयेदजाम् ।
असुरोपहतं श्राद्धं तिलैः शुद्ध्यत्यजेन वा ॥ २२.१८ ॥

ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनमच्युतम् ।
चोष्यं पेयं समृद्धं च यथाशक्त्या प्रकल्पयेत् ॥ २२.१९ ॥

ततो निवृत्ते मध्याह्ने लुप्तरोमनखान् द्विजान् ।
अभिगम्य यथामार्गं प्रयच्छेद् दन्तधावनम् ॥ २२.२० ॥

तैलमभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम् ।
पात्रैरौदुम्बरैर्दद्याद् वैश्वदैवत्यपूर्वकम् ॥ २२.२१ ॥

ततःस्नानान्निवृत्तेभ्यः प्रत्युत्थायकृताञ्जलिः ।
पाद्यमाचमनीयं च सम्प्रयच्छेद् यथाक्रमम् ॥ २२.२२ ॥

ये चात्र विश्वेदेवानां विप्राः पूर्वं निमन्त्रिताः ।
प्राङ्मुखान्यासनान्येषां त्रिदर्भोपहितानि च ॥ २२.२३ ॥

दक्षिणामुखमुक्तानि पितॄणामासनानि च ।
दक्षिणाग्रेषु दर्भेषु प्रोक्षितानि तिलोदकैः ॥ २२.२४ ॥

तेषूपवेशयेदेतानासनं संस्पृशन्नपि ।
आसध्वमिति संजल्पन्नासीरंस्ते पृथक् पृथक् ॥ २२.२५ ॥

द्वौ दैवे प्राङ्मुखौ पित्र्ये त्रयश्चोदङ्मुखास्तथा ।
एकैकं वा भवेत् तत्र देवमातामहेष्वपि ॥ २२.२६ ॥

सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् ।
पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥ २२.२७ ॥

अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् ।
श्रुतशीलादिसम्पन्नमलक्षणविवर्जितम् ॥ २२.२८ ॥

उद्धृत्य पात्रे चान्नं तत् सर्वस्मात् प्रकृतात् पुनः ।
देवतायतने वासौ निवेद्यान्यत्प्रवर्त्तयेत् ॥ २२.२९ ॥

प्रास्येदग्नौ तदन्नं तु दद्याद् वा ब्रह्मचारिणे ।
तस्मादेकमपि श्रेष्ठं विद्वांसं भोजयेद् द्विजम् ॥ २२.३० ॥

भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः ।
उपविष्टेषु यः श्राद्धे कामं तमपि भोजयेत् ॥ २२.३१ ॥

अतिथिर्यस्य नाश्नाति न तच्छ्राद्धं प्रशस्यते ।
तस्मात् प्रयत्नाच्छ्राद्धेषु पूज्या ह्यतिथयो द्विजैः ॥ २२.३२ ॥

आतिथ्यरहिते श्राद्धे भुञ्जते ये द्विजातयः ।
काकयोनिं व्रजन्त्येते दाता चैव न संशयः ॥ २२.३३ ॥

हीनाङ्गः पतितः कुष्ठी व्रणी पुक्कसनास्तिकौ ।
कुक्कुटाः शूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः ॥ २२.३४ ॥

बीभत्सुमशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् ।
नीलकाषायवसनपाषण्डांश्च विवर्जयेत् ॥ २२.३५ ॥

यत् तत्र क्रियते कर्म पैतृकं ब्राह्मणान् प्रति ।
तत्सर्वमेव कर्त्तव्यं वैश्वदैवत्यपूर्वकम् ॥ २२.३६ ॥

यथोपविष्टान् सर्वांस्तानलंकुर्याद् विभूषणैः ।
स्रग्दामभिः शिरोवेष्टैर्धूपवासोऽनुलेपनैः ॥ २२.३७ ॥

ततस्त्वावाहयेद् देवान् ब्राह्मणानामनुज्ञया ।
उदङ्मुखो यथान्यायं विश्वे देवास इत्यृचा ॥ २२.३८ ॥

द्वे पवित्रे गृहीत्वाऽथ भाजने क्षालिते पुनः ।
शंनो देवी जलं क्षिप्त्वा यवोऽसीति यवांस्तथा ॥ २२.३९ ॥

या दिव्या इति मन्त्रेण हस्ते त्वर्घं विनिक्षिपेत् ।
प्रदद्याद् गन्धमाल्यानि धूपादीनि च शक्तितः ॥ २२.४० ॥

अपसव्यं ततः कृत्वा पितॄणां दक्षिणामुखः ।
आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः ॥ २२.४१ ॥

आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ।
शंनो देव्योदकं पात्रे तिलोऽसीति तिलांस्तथा ॥ २२.४२ ॥

क्षिप्त्वा चार्घं यथापूर्वं दत्त्वा हस्तेषु वै पुनः ।
संस्रवांश्च ततः सर्वान् पात्रे कुर्यात् समाहितः ॥ २२.४३ ॥

पितृभ्यः स्थानमेतच्च न्युब्जपात्रं निधापयेत् ।
अग्नौ करिष्यन्नादाय पृच्छेदन्नं घृतप्लुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो जुहुयादुपवीतवान् ॥ २२.४४ ॥

यज्ञोपवीतिना होमः कर्त्तव्यः कुशपाणिना ।
प्राचीनावीतिना पित्र्यं वैश्वदेवं तु होमवित् ॥ २२.४५ ॥

दक्षिणं पातयेज्जानुं देवान् परिचरन् सदा ।
पितृणां परिचर्यासु पातयेदितरं तथा ॥ २२.४६ ॥

सोमाय वै पितृमते स्वधा नम इति ब्रुवन् ।
अग्नये कव्यवाहनाय स्वधेति जुहुयात् ततः ॥ २२.४७ ॥

अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
महादेवान्तिके वाऽथ गोष्ठे वा सुसमाहितः ॥ २२.४८ ॥

ततस्तैरभ्यनुज्ञातो गत्वा वै दक्षिणां दिशम् ।
गोमयेनोपलिप्योर्वीं स्थानं कुर्यात्ससैकतम् ॥ २२.४९ ॥

मण्डलं चतुरस्रं वा दक्षिणाप्रवणं शुभम् ।
त्रिरुल्लिखेत्तस्य मध्यं दर्भेणैकेन चैव हि ॥ २२.५० ॥

ततः संस्तीर्य तत्स्थाने दर्भान्वै दक्षिणाग्रकान् ।
त्रीन् पिण्डान् निर्वपेत् तत्र हविः शेषात्समाहितः ॥ २२.५१ ॥

लुप्त पिण्डांस्तु तं हस्तं निमृज्याल्लेपभागिनाम् ।
तेषु दर्भेष्वथाचम्य त्रिराचम्य शनैरसून् ।
तदन्नं तु नमस्कुर्यात् पितॄनेव च मन्त्रवित् ॥ २२.५२ ॥

उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ।
अवजिघ्रेच्च तान् पिण्डान् यथान्युप्त्वा समाहितः ॥ २२.५३ ॥

अथ पिण्डाच्च शिष्टान्नं विधिना भोजयेद् द्विजान् ।
मांसान्यपूपान् विविधान् दद्यात् कृशरपायसम् ॥ २२.५४ ॥

ततोऽन्नमुत्सृजेद्भुक्तेष्वग्रतो विकिरन्भुवि ।
पृष्ट्वा तदन्नमित्येव तृप्तानाचामयेत्ततः ॥ २२.५५ ॥

आचान्ताननुजानीयादभितो रम्यतामिति ।
स्वधास्त्विति च ते ब्रूयुर्ब्राह्मणास्तदनन्तरम् ॥ २२.५६ ॥

ततो भुक्तवतां तेषां अन्नशेषं निवेदयेत् ।
यथा ब्रूयुः स्तथा कुर्यात् अनुज्ञातस्तु तैर्द्विजैः ॥ २२.५७ ॥

पित्रे स्वदितमित्येव वाच्यं गोष्टेषु सुश्रितम् ।
सम्पन्नमित्यभ्युदये देवे सेवितमित्यपि ॥ २२.५८ ॥

विसृज्य ब्राह्मणान् तान्वै पितृपूर्वन्तु वाग्यतः ।
दक्षिणान्दिशमाकांक्षन्याचेतेमान्वरान् पितॄन् ॥ २२.५९ ॥

दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धा च नो मा विगमद्बहुदेयञ्च नोस्त्विति ॥ २२.६० ॥

पिण्डांस्तु गोऽजविप्रेभ्यः दद्यादग्नौ जलेऽपि वा ।
मध्यमन्तु ततः पिण्डमद्यात्पत्नी सुतार्थिनी ॥ २२.६१ ॥

प्रक्षाल्य हस्त वाचम्य ज्ञातिं शेषेण तोषयेत् ।
सूपशाकफलानीक्षून् पयो दधि घृतं मधु ॥ २२.६२ ॥

अन्नं चैव यथाकामं विविधं भोज्यपेयकम् ।
यद् यदिष्टं द्विजेन्द्राणां तत्सर्वं विनिवेदयेत् ॥ २२.६३ ॥

धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथा ।
उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता ।
अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च ॥ २२.६४ ॥

नभूमौ पातयेज्जानुं न कुप्येन्नानृतं वदेत् ।
न पादेन स्पृशेदन्नं न चैवमवधूनयेत् ॥ २२.६५ ॥

क्रोधेनैवच यत्भुक्तं यद्भुक्तं त्वयथाविधि ।
यातुधाना विलुम्पन्ति जल्पता चोपपादितम् ॥ २२.६६ ॥

स्विन्नगात्रो न तिष्ठेत सन्निधौ तु द्विजोत्तमाः ।
नच पश्येत काकादीन् पक्षिणः प्रतिषेधयेत् ।
तद्रूपाः पितरस्तत्र समायान्ति बुभुक्षवः ॥ २२.६७ ॥

न दद्यात् तत्र हस्तेन प्रत्यक्षं लवणं तथा ।
न चायसेन पात्रेण न चैवाश्रद्धया पुनः ॥ २२.६८ ॥

काञ्चनेन तु पात्रेण राजतोदुम्बरेण वा
दत्तमक्षयतां याति खड्गेन च विशेषतः ॥ २२.६९ ॥

पात्रे तु मृण्मये यो वै श्राद्धे भोजयते द्विजान् ।
स याति नरकं घोरं भोक्ता चैव पुरोधसः ॥ २२.७० ॥

न पङ्क्त्यां विषमं दद्यान्न याचेन्न च दापयेत् ।
याचिता दापिता दाता नरकान् यान्ति दारुणान् ॥ २२.७१ ॥

भुञ्जीरन् वाग्यताः शिष्टा न ब्रूयुः प्राकृतान् गुणान् ।
तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ २२.७२ ॥

नाग्रासनोपविष्टस्तु भुञ्जीत प्रथमं द्विजः ।
बहूनां पश्यतां सोऽन्यः पङ्क्त्या हरति किल्बिषम् ॥ २२.७३ ॥

न किञ्चिद् वर्जयेच्छ्राद्धे नियुक्तस्तु द्विजोत्तमः ।
न मांसं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत् ॥ २२.७४ ॥

यो नाश्नाति द्विजो मांसं नियुक्तः पितृकर्मणि ।
स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ २२.७५ ॥

स्वाध्यायाञ्च्छ्रवयेदेषां धर्मशास्त्राणि चैव हि ।
इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान् ॥ २२.७६ ॥

ततोऽन्नमुत्सृजेद् भुक्ता साग्रतो विकिरन् भुवि ।
पृष्ट्वा तृप्ताः स्थ इत्येवं तृप्तानाचामयेत् ततः ॥ २२.७७ ॥

आचान्ताननुजानीयादभितो रम्यतामिति ।
स्वधाऽस्त्विति च तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ॥ २२.७८ ॥

ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ।
यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्तु तैर्द्विजैः ॥ २२.७९ ॥

पित्र्ये स्वदित इत्येव वाक्यं गोष्ठेषु सूत्रितम् ।
सम्पन्नमित्यभ्युदये दैवे रोचत इत्यपि ॥ २२.८० ॥

विसृज्य ब्राह्मणान् ल्तुत्वा वै दैवपूर्वं तु वाग्यतः ।
दक्षिणां दिशमाकाङ्क्षन्याचेतेमान् वरान् पितॄन् ॥ २२.८१ ॥

दातारो नोऽभिवर्द्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मा व्यगमद् बहुदेयं च नोस्त्त्विति ॥ २२.८२ ॥

पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ।
मध्यमं तु ततः पिण्डमद्यात् पत्नी सुतार्थिनी ॥ २२.८३ ॥

प्रक्षाल्य हस्तावाचम्य ज्ञातीन् शेषेण तोषयेत् ।
ज्ञातिष्वपि चतुष्टेषु स्वान् भृत्यान् भोजयोत् ततः ॥ २२.८४ ॥

पश्चात् स्वयं च पत्नीभिः शेषमन्नं समाचरेत् ।
नोद्वासयेत् तदुच्छिष्टं यावन्नास्तंगतो रविः ॥ २२.८५ ॥

ब्रह्मचारी भवेतां तु दम्पती रजनीं तु ताम् ।
दत्त्वा श्राद्धं तथा भुक्त्वा सेवते यस्तु मैथुनम् ॥ २२.८६ ॥

महारौरवमासाद्य कीटयोनिं व्रजेत् पुनः ॥ २२.८७ ॥

शुचिरक्रोधनः शान्तः सत्यवादी समाहितः ।
स्वाध्यायं च तथाऽध्वानं कर्त्ता भोक्ता च वर्जयेत् ॥ २२.८८ ॥

श्राद्धं भुक्त्वा परश्राद्धं भुञ्जते ये द्विजातयः ।
महापातिकिभिस्तुल्या यान्ति ते नरकान् बहून् ॥ २२.८९ ॥

एष वो विहितः सम्यक् श्राद्धकल्पः सनातनः ।
आनेन वर्द्धयेन्नित्यं ब्राह्मणो व्यसनान्वितः ॥ २२.९० ॥

आमश्राद्धं द्विजः कुर्याद् विधिज्ञः श्रद्धयान्वितः ।
तेनाग्नौ करणं कुर्यात् पिण्डांस्तेनैव निर्वपेत् ॥ २२.९१ ॥

योऽनेन विधिना श्राद्धं कुर्यात् शान्तमानसः ।
व्यपेतकल्पषो नित्यं योगिनां वर्त्तते पदम् ॥ २२.९२ ॥

तस्मात् सर्वप्रयत्नेन श्राद्धं कुर्याद् द्विजोत्तमः ।
आराधितो भवेदीशस्तेन सम्यक् सनातनः ॥ २२.९३ ॥

अपि मूलैर्फलैर्वाऽपि प्रकुर्यान्निर्धनो द्विजः ।
तिलोदकैस्तर्पयित्वा पितॄन् स्नात्वा समाहितः ॥ २२.९४ ॥

न जीवत्पितृको दद्याद्धोमान्तं वा विधीयते ।
येषां वापि पिता दद्यात् तेषां चैके प्रचक्षते ॥ २२.९५ ॥

पिता पितामहश्चैव तथैव प्रपितामहः ।
यो यस्य प्रीयते तस्मै देयं नान्यस्य तेन तु ॥ २२.९६ ॥

भोजयेद् वापि जीवन्तं यथाकामं तु भक्तितः ।
न जीवन्तमतिक्रम्य ददाति प्रयतः शुचिः ॥ २२.९७ ॥

द्व्यामुष्यायणिको दद्याद् बीजिक्षेत्रिकयोः समम् ।
अधिकारी भवेत्सोऽथ नियोगोत्पादितो यदि ॥ २२.९८ ॥

अनियुक्तः सुतो यश्च शुक्रतो जायते त्विह ।
प्रदद्याद् वीजिने पिण्डं क्षेत्रिणे तु ततोऽन्यथा ॥ २२.९९ ॥

द्वौ पिण्डौ निर्वपेत् ताभ्यां क्षेत्रिणे बीजिने तथा ।
कीर्त्तयेदथ चैकस्मिन् बीजिनं क्षेत्रिणं ततः ।
मृताहनि तु कर्त्तव्यमेकोदिष्टं विधानतः ॥ २२.१०० ॥

अशौचे स्वे परिक्षीणे काम्यं वै कामतः पुनः ।
पूर्वाह्नि चैव कर्त्तव्यं श्राद्धमभ्युदयार्थिना ॥ २२.१०१ ॥

देववत्सर्वमेव स्याद् नैव कार्याः तिलैः क्रिया ।
दर्भाश्च ऋजवः कार्या युग्मान् वै भोजयेद् द्विजान् ॥ २२.१०१ ॥

नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत् ।
मातृश्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ॥ २२.१०३ ॥

ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम् ।
दैवपूर्वं प्रदद्याद् वै न कुर्यादप्रदक्षिणम् ॥ २२.१०४ ॥

प्राङ्मुखो निर्वपेत् पिण्डानुपवीती समाहितः ।
पूर्वं तु मातरः पूज्या भक्त्या वै सगणेश्वराः ॥ २२.१०५ ॥

स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु ।
पुष्पैर्धूपैश्च नैवेद्यैर्गन्धाद्यैर्भूषणैरपि ॥ २२.१०६ ॥

पूजयित्वा मातृगणं कूर्याच्छ्राद्धत्रयं द्विजः ।
अकृत्वा मातृयोगं तु यः श्राद्धं परिवेषयेत् ।
तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ॥ २२.१०७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
द्वाविशोऽध्यायः ॥२२ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे त्रयोविंशतितमोऽध्यायः

व्यास उवाच ।
दशाहं प्राहुराशौचं सपिण्डेषु विधीयते ।
मृतेषु वाऽथ जातेषु ब्राह्मणानां द्विजोत्तमाः ॥ २३.१ ॥

नित्यानि चैव कर्माणि काम्यानि च विशेषतः ।
नकुर्याद् विहितं किञ्चित् स्वाध्यायं मनसाऽपिच ॥ २३.२ ॥

शुचीनक्रोधनान् भूम्यान् शालाग्नौ भावयेद् द्विजान् ।
शुष्कान्नेन फलैर्वापि वैतानान् जुहुयात् तथा ॥ २३.३ ॥

न स्पृशेदुरिमानन्ये न च तेभ्यः समाहरेत् ।
चतुर्थे पञ्चमे वाऽह्नि संस्पर्शः कथितो बुधैः ॥ २३.४ ॥

सूतके तु सपिण्डानां संस्पर्शो न प्रदुष्यति ।
सूतकं सूतिकां चैव वर्जयित्वा नृणां पुनः ॥ २३.५ ॥

अधीयानस्तथा वेदान् वेदविच्च पिता भवेत् ।
संस्पृश्याः सर्व एवैते स्नानान्माता दशाहतः ॥ २३.६ ॥

दशाहं निर्गुणे प्रोक्तमशौचं चातिनिर्गुणे ।
एकद्वित्रिगुणैर्युक्तः चतुस्त्र्येकदिनैः शुचिः ॥ २३.७ ॥

दशाह्नादपरं सम्यगधीयीत जुहोति च ।
चतुर्थे तस्य संस्पर्शं मनुराह प्रजापतिः ॥ २३.८ ॥

क्रियाहीनस्य मूर्खस्य महारोगिण एव च ।
यथेष्टाचरणस्येह मरणान्तमशौचकम् ॥ २३.९ ॥

त्रिरात्रं दशरात्रं वा ब्राह्मणानामशौचकम् ।
प्राक्संवत्सरात् त्रिरात्रं स्यात् तस्मादूर्ध्वं दशाहकम् ॥ २३.१० ॥

ऊनद्विवार्षिके प्रेते मातापित्रोस्तदिष्यते ।
त्रिरात्रेण शुचिस्त्वन्यो यदि ह्यत्यन्तनिर्गुणः ।
अदन्तजातमरणे पित्रोरेकाहमिष्यते ।
जातदन्ते त्रिरात्रं स्याद् यदि स्यातां तु निर्गुणौ ॥ २३.११ ॥

आदन्तजननात् सद्य आचौलादेकरात्रकम् ।
त्रिरात्रमौपनयनात् सपिण्डानामुदाहृतम् ॥ २३.१२ ॥

जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः ।
मातुश्च सूतकं तत् स्यात् पिता स्यात् स्पृश्य एव च ॥ २३.१३ ॥

सदाशौचं सपिण्डानां कर्त्तव्यं सोदरस्य च ।
ऊर्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः ॥ २३.१४ ॥

अथोर्ध्वं दन्तजननात् सपिण्डानामशौचकम् ।
एकरात्रं निर्गुणानां चौलादूर्ध्वं त्रिरात्रकम् ॥ २३.१५ ॥

अदन्तजातमरणं संभवेद् यदि सत्तमाः ।
एकरात्रं सपिण्डानां यदि तेऽत्यन्तनिर्गुणाः ॥ २३.१६ ॥

व्रतादेशात् सपिण्डानां गर्भस्रावात् स्वपाततः ।
(सर्वेषामेव गुणिनामूर्ध्वं तु विषमं पुनः ।
अर्वाक् षण्मासतः स्त्रीणां यदि स्याद् गर्भसंस्रवः ।
तदा माससमैस्तासामशौचं दिवसैः स्मृतम् ।
तत ऊर्ध्वं तु पतने स्त्रीणां द्वादशरात्रिकम् ।
सद्यः शौचं सपिण्डानां गर्भस्रावाच्च धातुतः ।
गर्भच्युतादहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे ।)
यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः ॥ २३.१७ ॥

यदि स्यात् सूतके सूतिर्मरणे वा मृतिर्भवेत् ।
शेषेणैव भवेच्छुद्धिरहः शेषे त्रिरात्रकम् ॥ २३.१८ ॥

मरणोत्पत्तियोगेन मरणेन समाप्यते ।
अघ्यंवृद्धिमदाशौचमूर्घ्वं चेत्तु न शुध्यति ॥ २३.१९ ॥

अथ चेत् पञ्चमीरात्रिमतीत्य परतो भवेत् ।
अघवृद्धिमदाशौचं तदा पूर्वेण शुध्यति ॥

देशान्तरगतं श्रुत्वा सूतकं शावमेव तु ।
तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते ॥ २३.२० ॥

अतीते सूतके प्रोक्तं सपिण्डानां त्रिरात्रकम् ।
(अथैव मरणे स्नानमूर्ध्वं संवत्सराद् यदि ॥

वेदान्तविच्चाधीयानो योऽग्निमान् वृत्तिकर्षितः ।
सद्यः शौचं भवेत् तस्य सर्वावस्थासु सर्वदा ॥

स्त्रीणामसंस्कृतानां तु प्रदानात् परतः सदा ।
सपिण्डानां त्रिरात्रं स्यात् संस्कारे भर्त्तुरेव हि ।
अहस्त्वदत्तकन्यानामशौचं मरणे स्मृतम् ।
ऊनद्विवर्षान्मरणे सद्यः शौचमुदाहृतम् ॥

आदन्तात् सोदरे सद्य आचौलादेकरात्रकम् ।)
आप्रदानात् त्रिरात्रं स्याद् दशरात्रं ततः परम् ॥ २३.२१ ॥

मातामहानां मरणे त्रिरात्रं स्यादशौचकम् ।
एकोदकानां मरणे सूतके चैतदेव हि ॥ २३.२२ ॥

पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च ।
एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणि ॥ २३.२३ ॥

प्रेते राजनि सज्योतिर्यस्य स्याद् विषये स्थितिः ।
गृहे मृतासु सर्वासु कन्यासु त्र्यहं पितुः ॥ २३.२४ ॥

परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च ।
त्रिरात्रं स्यात् तथाचार्यास्वभार्यास्वन्यगासु च ॥ २३.२५ ॥

आचार्यपुत्रे पत्न्यां च अहोरात्रमुदाहृतम् ।
एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रियेऽपि च ॥ २३.२६ ॥

त्रिरात्रमसपिण्डेषु स्वगृहे संस्थितेषु च ।
एकाहं चास्ववर्ये स्यादेकरात्रं तदिष्यते ॥ २३.२७ ॥

त्रिरात्रं श्वश्रूमरणात् श्वशुरे चै तदेव हि ।
सद्यः शौचं समुद्दिष्टं स्वगोत्रे संस्थिते सति ॥ २३.२८ ॥

शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्यति ॥ २३.२९ ॥

क्षत्रविट्शूद्रदायादा ये स्युर्विप्रस्य बान्धवाः ।
तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥ २३.३० ॥

राजन्यवैश्यावप्येवं हीनवर्णासु योनिषु ।
तमेव शौचं कुर्यातां विशुद्ध्यर्थमसंशयम् ॥ २३.३१ ॥

सर्वे तूत्तरवर्णानामशौचं कुर्युरादृताः ।
तद्वर्णविधिदृष्टेन स्वं तु शौचं स्वयोनिषु ॥ २३.३२ ॥

षड्रात्रं वा त्रिरात्रं स्यादेकरात्रं क्रमेण हि ।
वैश्यक्षत्रियविप्राणां शूद्रेष्वाशौचमेव तु ॥ २३.३३ ॥

अर्द्धमासोऽथ षड्रात्रं त्रिरात्रं द्विजपुंगवाः ।
शूद्रक्षत्रियविप्राणां वैश्येष्वाशौचमिष्यते ॥ २३.३४ ॥

षड्रात्रं वै दशाहं च विप्राणां वैश्यशूद्रयोः ।
अशौचं क्षत्रिये प्रोक्तं क्रमेण द्विजपुंगवाः ॥ २३.३५ ॥

शूद्रविट्क्षत्रियाणां तु ब्राह्मणे संस्थिते सति ।
दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः ॥ २३.३६ ॥

असपिण्डं द्विजं प्रेतं विप्रो निर्धृत्य बन्धुवत् ।
अशित्वा च सहोषित्वा दशरात्रेण शुध्यति ॥ २३.३७ ॥

यद्यन्नमत्ति तेषां तु त्रिरात्रेण ततः शुचिः ।
अन्नदंस्त्वन्नमह्ना तु न च तस्मिन् गृहे वसेत् ॥ २३.३८ ॥

सोदकेष्वेतदेव स्यान्मातुराप्तेषु बन्धुषु ।
दशाहेन शवस्पर्शी सपिण्डश्चैव शुध्यति ॥ २३.३९ ॥

यदि निर्हरति प्रेतं प्रोलभाक्रान्तमानसः ।
दशाहेन द्विजः शुध्येद् द्वादशाहेन भूमिपः ॥ २३.४० ॥

अर्द्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति ।
षड्रात्रेणाथवा सर्वे त्रिरात्रेणाथवा पुनः ॥ २३.४१ ॥

अनाथं चैव निर्धृत्य ब्राह्मणं धनवर्जितम् ।
स्नात्वा सम्प्राश्य तु घृतं शुध्यन्ति ब्राह्मणादयः ॥ २३.४२ ॥

अपरश्चेद् परं वर्णमपरं वा परो यदि ।
अशौचे संस्पृशेत् स्नेहात् तदाशौचेन शुध्यति ॥ २३.४३ ॥

प्रेतीभूतं द्विजं विप्रो हि अनुगच्छेत कामतः ।
स्नात्वा सचैलं स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति ॥ २३.४४ ॥

एकाहात् क्षत्रिये शुद्धिर्वैश्ये स्याच्च द्व्यहेन तु ।
शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥ २३.४५ ॥

अनस्थिसंचिते शूद्रे रौति चेद् ब्राह्मणः स्वकैः ।
त्रिरात्रं स्यात् तथाशौचमेकाहं त्वन्यथा स्मृतम् ॥ २३.४६ ॥

अस्थिसंचयनादर्वागेकाहं क्षत्रवैश्ययोः ।
अन्यथा चैव सज्योतिर्ब्राह्मणे स्नानमेव तु ॥ २३.४७ ॥

अनस्थिसंचित् विप्रो ब्राह्मणो रौति चेत् तदा ।
स्नानेनैव भवेच्छुद्धिः सचैलेनात्र संशयः ॥ २३.४८ ॥

यस्तैः सहाशनं कुर्याच्छयनादीनि चैव हि ।
बान्धवो वाऽपरो वाऽपि स दशाहेन शुध्यति ॥ २३.४९ ॥

यस्तेषां सममश्नाति सकृदेवापि कामतः ।
तदाशौचे निवृत्तेऽसौ स्नानं कृत्वा विशुध्यति ॥ २३.५० ॥

यावत्तदन्नमश्नाति दुर्भिक्षोपहतो नरः ।
तावन्त्यहान्यशौचं स्यात् प्रायश्चित्तं ततश्चरेत् ॥ २३.५१ ॥

दाहाद्यशौचं कर्त्तव्यं द्विजानामग्निहोत्रिणाम् ।
सपिण्डानां तु मरणे मरणादितरेषु च ॥ २३.५२ ॥

सपिण्डता च पुरुषे सप्तमे विनिवर्त्तते ।
समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ २३.५३ ॥

पिता पितामहश्चैव तथैव प्रपितामहः ।
लेपभाजस्रयो ज्ञेयाः सापिण्ड्यं साप्तपौरुषण् ॥ २३.५४ ॥

अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम् ।
तासान्तु भर्त्तुसापिण्ड्यं प्राह देवः पितामहः ॥ २३.५५ ॥

ये चैकजाता बहवो भिन्नयोनय एव च ।
भिन्नवर्णास्तु सापिण्ड्यं भवेत् तेषां त्रिपूरुषम् ॥ २३.५६ ॥

कारवः शिल्पिनो वैद्या दासीदासास्तथैव च ।
दातारो नियमाच्चैव ब्रह्मविद्ब्रह्मचारिणौ ।
सत्रिणो व्रतिनस्तावत् सद्यः शौचं उदाहृतम् ॥ २३.५७ ॥

राजा चैवाभिषिक्तश्च अन्नसत्रिण एव च ।
यज्ञे विवाहकाले च दैवयागे तथैव च ।
सद्यः शौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे ॥ २३.५८ ॥

डिम्बाहवहतानां च विद्युता पार्थिवैर्द्विजैः ।
सद्यः शौचं समाख्यातं सर्पादिमरणे तथा ॥ २३.५९ ॥

अग्निमरुत्प्रपतने वीराध्वन्यप्यनाशके ।
गोब्राह्मणार्थे च संन्यस्ते सद्यः शौचं विधीयते ॥ २३.६० ॥

नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् ।
नाशौचं कीर्त्यते सद्भिः पतिते च तथा मृते ॥ २३.६१ ॥

पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसंचयः ।
ना श्रुपातो नपिण्डौ वा कार्यं श्राद्धादि कंक्वचित् ॥ २३.६२ ॥

व्यापादयेत् तथात्मानं स्वयं योऽग्निविषादिभिः ।
विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकम् ॥ २३.६३ ॥

अथ किंचित् प्रमादेन म्रियतेऽग्निविषादिभिः ।
तस्याशौचं विधातव्यं कार्यं चैवोदकादिकम् ॥ २३.६४ ॥

जाते कुमारे तदहः कामं कुर्यात् प्रतिग्रहम् ।
हिरण्यधान्यगोवासस्तिलाश्च गुडसर्पिषा ॥ २३.६५ ॥

फलानि पुष्पं शाकं च लवणं काष्ठमेव च ।
तक्रं दधि घृतं तैलमौषधं क्षीरमेव च ।
आशौचिनो गृहाद् ग्राह्यं शुष्कान्नं चैव नित्यशः ॥ २३.६६ ॥

आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः ।
अनाहिताग्निर्गृह्येण लौकिकेनेतरो जनः ॥ २३.६७ ॥

देहाभावात् पलाशैस्तु कृत्वा प्रतिकृतिं पुनः ।
दाहः कार्यो यथान्यायं सपिण्डैः श्रद्धयाऽन्वितैः ॥ २३.६८ ॥

सकृत्प्रसिञ्चेदुदकं नामगोत्रेण वाग्यताः ।
दशाहं बान्धवैः सार्धं सर्वे चैवार्द्रवाससः ॥ २३.६९ ॥

पिण्डं प्रतिदिनं दद्युः सायं प्रातर्यथाविधि ।
प्रेताय च गृहद्वारि चतुर्थे भोजयेद् द्विजान् ॥ २३.७० ॥

द्वितीयेऽहनि कर्त्तव्यं क्षुरकर्म सबान्धवैः ।
चतुर्थे बान्धवैः सर्वैरस्थ्नां संचयनं भवेत् ।
पूर्वं तु भोजयेद् विप्रानयुग्मान् सुश्रद्धया शुचीन् ॥ २३.७१ ॥

पञ्चमे नवमे चैव तथैवैकादशेऽहनि ।
युग्मान् भोजयेद् विप्रान् नवश्राद्धं तु तद्विजाः ॥ २३.७२ ॥

एकादशेऽह्नि कुर्वोत प्रेतमुद्दिश्य भावतः ।
द्वादशे वाह्नि कर्त्तव्यमनिन्द्ये त्वथवाऽहनि ।
एकं पवित्रमेकोऽर्घः पिण्डपात्रं तथैव च ॥ २३.७३ ॥

एवं मृताह्नि कर्त्तव्यं प्रतिमासं तु वत्सरम् ।
सपिण्डीकरणं प्रोक्तं पूर्णे संवत्सरे पुनः ॥ २३.७४ ॥

कुर्याच्चत्वारि पात्राणि प्रेतादीनां द्विजोत्तमाः ।
प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत्ततः ॥ २३.७५ ॥

ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि ।
सपिण्डीकरण श्राद्धं देवपूर्वं विधीयते ॥ २३.७६ ॥

पितॄनावाहयेत् तत्र पुनः प्रेतं विनिर्दिशेत् ।
ये सपिण्डीकृताः प्रेतान तेषां स्यात् पृथक्क्रियाः ।
यस्तु कुर्यात् पृथक् पिण्डं पितृहा सोऽभिजायते ॥ २३.७७ ॥

मृते पितरि वै पुत्रः पिण्डमब्दं समाचरेत् ।
दद्याच्चान्नं सोदकुम्भं प्रत्यहं प्रेतधर्मतः ॥ २३.७८ ॥

पार्वणेन विधानेन संवत्सरिकमिष्यते ।
प्रतिसंवत्सरं कार्यं विधिरेष सनातनः ॥ २३.७९ ॥

मातापित्रोः सुतैः कार्यं पिण्डदानादिकं च यत् ।
पत्नी कुर्यात् सुताभावे पत्न्यभावे तु सोदरः ॥ २३.८० ॥

अनेनैव विधानेन जीवः श्राद्धं समाचरेत् ।
कृत्वा दानादिकं सर्वं श्रद्धायुक्तः समाहितः ॥ २३.८१ ॥

एष वः कथितः सम्यग् गृहस्थानां क्रियाविधिः ।
स्त्रीणां भर्त्तृषु शुश्रूषा धर्मो नान्य इहोच्यते ॥ २३.८२ ॥

स्वधर्मतत्परा नित्यमीश्विरार्पितमानसः ।
प्राप्नोति तत्परं स्थानं यदुक्तं वेदवादिभिः ॥ २३.८३ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
त्रयोविंशोऽध्यायः ॥२३ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे चतुर्विंशतितमोऽध्यायः

व्यास उवाच ।
अग्निहोत्रं तु जुहुयादाद्यन्तेऽहर्निशोः सदा ।
दर्शेन चैव पक्षान्ते पौर्णमासेन चैव हि ॥ २४.१ ॥

सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजोऽध्वरैः ।
पशुना त्वयनस्यान्ते समान्ते सोऽग्निकैर्मखैः ॥ २४.२ ॥

नानिष्ट्वा नवशस्येष्ट्या पशुना वाऽग्निमान् द्विजः ।
न चान्नमद्यन्मांसं वा दीर्घमायुर्जिजीविषुः ॥ २४.३ ॥

नवेनान्नेन चानिष्ट्वा पशुहव्येन चाग्न्यः ।
प्राणानेवात्तुमिच्छन्ति नवान्नामिषगृद्धिनः ॥ २४.४ ॥

सावित्रान् शान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः ।
पितॄंश्चैवाष्टकाः सर्वे नित्यमन्वष्टकासु च ॥ २४.५ ॥

एष धर्मः परो नित्यमपधर्मोऽन्य उच्यते ।
त्रयाणामिह वर्णानां गृहस्थाश्रमवासिनाम् ॥ २४.६ ॥

नास्तिक्यादथवालस्याद् योऽग्नीन् नाधातुमिच्छति ।
यजेत वा न यज्ञेन स याति नरकान् बहून् ॥ २४.७ ॥

तामिस्रमन्धतामिस्रं महारौरवरौरवौ ।
कुम्भीपाकं वैतरणीमसिपत्रवनं तथा ।
अन्यांश्च नरकान् घोरान् सम्प्राप्यान्ते सुदुर्मतिः ।
अन्त्यजानां कुले विप्राः शूद्रयोनौ च जायते ।
तस्मात् सर्वप्रयत्नेन ब्राह्मणो हि विशेषतः ।
आथायाग्निं विशुद्धात्मा यजेत परमेश्वरम् ॥ २४.८ ॥

अग्निहोत्रात् परो धर्मो द्विजानां नेह विद्यते ।
तस्मादाराधयेन्नित्यमग्निहोत्रेण शाश्वतम् ॥ २४.९ ॥

यस्त्वाध्यायाग्निमांश्च स्यान्न यष्टुं देवमिच्छति ।
स संमूढो न संभाष्यः किं पुनर्नास्तिको जनः ॥ २४.१० ॥

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं चापि विद्येत स सोमं पातुमर्हति ॥ २४.११ ॥

एष वै सर्वयज्ञानां सोमः प्रथम इष्यते ।
सोमेनाराधयेद्देवं सोमलोकमहेश्वरम् ॥ २४.१२ ॥

न सोमयागादधिको महेशाराधनात्ततः ।
न सोमो विद्यते तस्मात् सोमेनाभ्यर्चयेत् परम् ॥ २४.१३ ॥

पितामहेन विप्राणामादावभिहितः शुभः ।
धर्मो विमुक्तये साक्षाच्छ्रौतः स्मार्त्तो द्विधा पुनः ॥ २४.१४ ॥

श्रौतस्त्रेताग्निसंबन्धात् स्मार्त्तः पूर्वं मयोदितः ।
श्रेयस्करतमः श्रौतस्तस्माच्छ्रौतं समाचरेत् ॥ २४.१५ ॥

उभावभिहितौ धर्मौ वेदवेदविनिःसृतौ ।
शिष्टाचारस्तृतीयः स्याच्छ्रतिस्मृत्योरलाभतः ॥ २४.१६ ॥

धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणान्विताः ॥ २४.१७ ॥

तेषामभिमतो यः स्याच्चेतसा नित्यमेव हि ।
स धर्मः कथितः सद्भिर्नान्येषामिति धारणा ॥ २४.१८ ॥

पुराणं धर्मशास्त्रं च वेदानामुपबृंहणम् ।
एकस्माद् ब्रह्मविज्ञानं धर्मज्ञानं तथैकतः ॥ २४.१९ ॥

धर्मं जिज्ञासमानानां तत्प्रमाणतरं स्मृतम् ।
धर्मशास्त्रं पुराणानि ब्रह्मज्ञानेपरायणा ॥ २४.२० ॥

नान्यतो जायते धर्मो ब्रह्मविद्या च वैदिकी ।
तस्माद् धर्मं पुराणं च श्रद्धातव्यं द्विजातिभिः ॥ २४.२१ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
चतुर्विशोऽध्यायः ॥२४ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे पञ्चविंशतितमोऽध्यायः

व्यास उवाच ।
एष वोऽभिहितः कृत्स्नो गृहस्थाश्रमवासिनः ।
द्विजातेः परमो धर्मो वर्त्तनानि निबोधत ॥ २५.१ ॥

द्विविधस्तु गृही ज्ञेयः साधकश्चाप्यसाधकः ।
अध्यापनं याजनं च पूर्वस्याहुः प्रतिग्रहम् ।
कुसीदकृषिवाणिज्यं प्रकुर्वन्तः स्वयंकृतम् ॥ २५.२ ॥

कृषेरभावे वाणिज्यं तदभावे कुसीदकम् ।
आपत्कल्पस्त्वयं ज्ञेयः पूर्वोक्तो मुख्य इष्यते ॥ २५.३ ॥

स्वयं वा कर्षणाकुर्याद् वाणिज्यं वा कुसीदकम् ।
कष्टा पापीयसी वृत्तिः कुसीदं तद्विवर्जयेत् ॥ २५.४ ॥

क्षात्रवृत्तिं परां प्रहुर्न स्वयं कर्षणं द्विजैः ।
तस्मात् क्षात्रेण वर्त्तेत वर्त्ततेऽनापदि द्विजः ॥ २५.५ ॥

तेन चावाप्यजीवंस्तु वैश्यवृत्तिं कृषिं व्रजेत् ।
न कथंचन कुर्वीत ब्राह्मणः कर्म कर्षणम् ॥ २५.६ ॥

लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चापि पूजयेत् ।
ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः ॥ २५.७ ॥

देवेभ्यश्च पितृभ्यश्च दद्याद् भागं तु विंशकम् ।
त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन् न दुष्यति ॥ २५.८ ॥

वणिक् प्रदद्याद् द्विगुणं कुसीदी त्रिगुणं पुनः ।
कृषीपालान्न दोषेण युज्यते नात्र संशयः ॥ २५.९ ॥

शिलोञ्छं वाप्याददीत गृहस्थः साधकः पुनः ।
विद्याशिल्पादयस्त्वन्ये बहवो वृत्तिहेतवः ॥ २५.१० ॥

असाधकस्तु यः प्रोक्तो गृहस्थाश्रमसंस्थितः ।
शिलोञ्छे तस्य कथिते द्वे वृत्ती परमर्षिभिः ॥ २५.११ ॥

अमृतेनाथवा जीवेन्मृतेनाप्यथवा यदि ।
अयाचितं स्यादमृतं मृतं भेक्षं तु याचितम् ॥ २५.१२ ॥

कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।
त्र्यह्निको वापि च भवेदश्वस्तनिक एव च ॥ २५.१३ ॥

चतुर्णामपि वै तेषां द्विजानां गृहमेधिनाम् ।
श्रेयान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ २५.१४ ॥

षट्कर्मको भवेत्तेषां त्रिभिरन्यः प्रवर्त्तते ।
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥ २५.१५ ॥

वर्त्तयंस्तु शिलोञ्छाभ्यामग्निहोत्रपरायणः ।
इष्टिः पार्वायणान्तायाः केवला निर्वपेत् सदा ॥ २५.१६ ॥

न लोकवृतिं वर्त्तेत वृत्तिहेतोः कथंचन ।
अजिह्मामशठां शुद्धां जीवेद् ब्राह्मणजीविकाम् ॥ २५.१७ ॥

याचित्वा वाऽपि सद्भ्योऽन्नं पितॄन्देवांस्तु तोषयेत् ।
याचयेद् वा शुचिं दान्तं तेन तृप्येत स्वयं ततः ॥ २५.१८ ॥

यस्तु द्रव्यार्जनं कृत्वा गृहस्थस्तोषयेन्न तु ।
देवान् पितृंश्च विधिना शुनां योनिं व्रजत्यधः ॥ २५.१९ ॥

धर्मश्चार्थश्च कामश्च श्रेयो मोक्षश्चतुष्टयम् ।
धर्माद्विरुद्धः कामः स्याद् ब्राह्मणानां तु नेतरः ॥ २५.२० ॥

योऽर्थो धर्माय नात्मार्थं सोऽर्थोऽनार्थस्तथेतरः ।
तस्मादर्थं समासाद्य दद्याद् वै जुहुयाद् द्विजः ॥ २५.२१ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
पञ्चविंशोऽध्यायः ॥२५ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे षड्विंशतितमोऽध्यायः

अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् ।
दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् ॥ २६.२ ॥

यद् ददाति विशिष्टेभ्यः श्रद्धया परया युतः ।
तदविचित्रमहं मन्ये शेषं कस्यापि रक्षति ॥ २६.३ ॥

नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते ।
चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ॥ २६.४ ॥

अहन्यहनि यत् किंचिद् दीयतेऽनुपकारिणे ।
अनुद्दिश्य फलं तस्माद् ब्राह्मणाय तु नित्यकम् ॥ २६.५ ॥

यत् तु पापोपशान्त्यर्थं दीयते विदुषां करे ।
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ २६.६ ॥

अपत्यविजयैश्वर्यस्वर्गार्थं यत् प्रदीयते ।
दानं तत् काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः ॥ २६.७ ॥

यदीश्वरप्रीणनार्थं ब्रह्मवित्सु प्रदीयते ।
चेतसा धर्मयुक्तेन दानं तद् विमलं शिवम् ॥ २६.८ ॥

दानधर्मं निषेवेत पात्रमासाद्य शक्तितः ।
उत्पत्स्यते हि तत्पात्रं यत् तारयति सर्वतः ॥ २६.९ ॥

कुटुम्बभक्तवसनाद् देयं यदतिरिच्यते ।
अन्यथा दीयते यद्धि न तद् दानं फलप्रदम् ॥ २६.१० ॥

श्रोत्रियाय कुलीनाय विनीताय तपस्विने ।
वृत्तस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ॥ २६.११ ॥

यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये ।
स याति परमं स्थानं यत्र गत्वा न शोचति ॥ २६.१२ ॥

इक्षुभिः संततां भुमिं यवगोधूमशलिनीम् ।
ददाति वेदविदुषे यः स भूयो न जायते ॥ २६.१३ ॥

गोचर्ममात्रामपि वा यो भूमिं सम्प्रयच्छति ।
ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते ॥ २६.१४ ॥

भूमिदानात् परं दानं विद्यते नेह किञ्चन ।
अन्नदानं तेन तुल्यं विद्यादानं ततोऽधिकम् ॥ २६.१५ ॥

यो ब्राह्मणाय शान्ताय शुचये धर्मशालिने ।
ददाति विद्यां विधिना ब्रह्मलोके महीयते ॥ २६.१६ ॥

दद्यादहरहस्त्वन्नं श्रद्धया ब्रह्मचारिणे ।
सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात् ॥ २६.१७ ॥

गृहस्थायान्नदानेन फलं प्राप्नोति मानवः ।
आममेचास्य दातव्यं दत्त्वाप्नोति परां गतिम् ॥ २६.१८ ॥

वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा ।
उपोष्य विधिना शान्तः शुचिः प्रयतमानसः ॥ २६.१९ ॥

पूजयित्वा तिलैः कृष्णैर्मधुना च विशेषतः ।
गन्धादिभिः समभ्यर्च्य वाचयेद् वा स्व्यं वदेत् ॥ २६.२० ॥

प्रीयतां धर्मराजेति यद् वा मनसि वर्त्तते ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ २६.२१ ॥

कृष्णाजिने तिलान् कृत्त्वा हिरण्यं मधुसर्पिषी ।
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥ २६.२२ ॥

कृतान्नमुदकुम्भं च वैशाख्यां च विशेषतः ।
निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ॥ २६.२३ ॥

सुवर्णतिलयुक्तैस्तु ब्राह्मणान् सप्त पञ्च वा ।
तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति ॥ २६.२४ ॥

(माघमासे तु विप्रस्तु द्वादश्यां समुपोषितः ।)
शुक्लाम्वरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् ।
प्रदद्याद् ब्राह्मणेभ्यस्तु तिलानेव समाहितः ।
जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः ॥ २६.२५ ॥

अमावस्यामनुप्राप्य ब्राह्मणाय तपस्विने ।
यत्किचिद् देवदेवेशं दद्याद्बोद्दिश्य शंकरम् ॥ २६.२६ ॥

प्रीयतामीश्वरः सोमो महादेवः सनातनः ।
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ २६.२७ ॥

यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् ।
आराधयेद् द्विजमुखे न तस्यास्ति पुनर्भवः ॥ २६.२८ ॥

कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये ।
स्नात्वाऽभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः ॥ २६.२९ ॥

प्रीयतां मे महादेवो दद्याद्द्रव्यं स्वकीयकम् ।
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् ॥ २६.३० ॥

द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः ।
अमावास्यायां वै भक्तैस्तु पूजनीयस्त्रिलोचनः ॥ २६.३१ ॥

एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् ।
अर्चयेद् बाह्मणमुखे स गच्छेत् परमं पदम् ॥ २६.३२ ॥

एषा तिथिर्वैष्णवीं स्याद् द्वादशी शुक्लपक्षके ।
तस्यामाराधयेद् देवं प्रयत्नेन जनार्दनम् ॥ २६.३३ ॥

यत्किञ्चिद् देवमीशानमुद्दिश्य ब्राह्मणे शुचौ ।
दीयते विष्णवे वापि तदनन्तफलप्रदम् ॥ २६.३४ ॥

यो हि यां देवतामिच्छेत् समाराधयितुं नरः ।
ब्राह्मणान् पूजयेद् यत्नात् सतस्यां तोषहेतुतः ॥ २६.३५ ॥

द्विजानां वपुरास्थाय नित्यं तिष्ठन्ति देवताः ।
पूज्यन्ते ब्राह्मणालाभे प्रतिमादिष्वपि क्वचित् ॥ २६.३६ ॥

तस्मात् सर्वप्रयत्नेन तत् तत् फलमभीप्सुभिः ।
द्विजेषु देवता नित्यं पूजनीया विशेषतः ॥ २६.३७ ॥

विभूतिकामः सततं पूजयेद् वै पुरंदरम् ।
ब्रह्मवर्चसकामस्तु ब्रह्माणं ब्रह्मकामुकः ॥ २६.३८ ॥

आरोग्यकामोऽथ रविं धनकामो हुताशनम् ।
कर्मणां सिद्धिकामस्तु पूजयेद् वै विनायकम् ॥ २६.३९ ॥

भोगकामस्तु शशिनं बलकामः समीरणम् ।
मुमुक्षुः सर्वसंसारात् प्रयत्नेनार्चयेद्धरिम् ॥ २६.४० ॥

यस्तु योगं तथा मोक्षं इच्छेत्तज्ज्ञानमैश्वरम् ।
सोऽर्चयेद् वै विरूपाक्षं प्रयत्नेन महेश्वरम् ॥ २६.४१ ॥

ये वाञ्छन्ति महायोगान् ज्ञानानि च महेश्वरम् ।
ते पूजयन्ति भूतेशं केशवं चापि भोगिनः ॥ २६.४२ ॥

वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः ।
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ २६.४३ ॥

भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः ।
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ २६.४४ ॥

वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ।
अनडुदः श्रियं पुष्टां गोदो व्रध्नस्य विष्टपम् ॥ २६.४५ ॥

यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसात्म्यताम् ॥ २६.४६ ॥

धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् ।
वेदवित्सु विशिष्टेषु प्रेत्य स्वर्गं समश्नुते ॥ २६.४७ ॥

गवां वा सम्प्रदानेन सर्वपापैः प्रमुच्यते ।
इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः ॥ २६.४८ ॥

फलमूलानि शाकानि भोज्यानि विविधानि च ।
प्रदद्याद् ब्राह्मणेभ्यस्तु मुदा युक्तः सदा भवेत् ॥ २६.४९ ॥

औषधं स्नेहमाहारं रोगिणे रोगशान्तये ।
ददानो रोगरहितः सुखी दीर्घायुरेव च ॥ २६.५० ॥

असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ।
तीव्रितापं च तरति छत्रोपानत्प्रदो नरः ॥ २६.५१ ॥

यद्यदिष्टतमं लोके यच्चापि दयितं गृहे ।
तत्तद् गुणवते देयं तदेवाक्ष्यमिच्छता ॥ २६.५२ ॥

अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।
संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ॥ २६.५३ ॥

प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च ।
दत्त्वा चाक्षयमाप्नोति नदीषु च वनेषु च ॥ २६.५४ ॥

दानधर्मात् परो धर्मो भूतानां नेह विद्यते ।
तस्माद् विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ॥ २६.५५ ॥

स्वगायुर्भूतिकामेन तथा पापोपशान्तये ।
मुमुक्षुणा च दातव्यं ब्राह्मणेभ्यस्तथाऽन्वहम् ॥ २६.५६ ॥

दीयमानं तु यो मोहाद् गोविप्राग्निसुरेषु च ।
निवारयति पापात्मा तिर्यग्योनिं व्रजेत् तु सः ॥ २६.५७ ॥

यस्तु द्रव्यार्जनं कृत्वा नार्चयेद् ब्राह्मणान् सुरान् ।
सर्वस्वमपहृत्यैनं राजा राष्ट्रात् प्रवासयेत् ॥ २६.५८ ॥

यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति ।
म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः ॥ २६.५९ ॥

न तस्मात् प्रतिगृह्णीयात् न वै देयञ्च तस्य हि ।
अङ्कयित्वा स्वकाद् राष्ट्रात् तं राजा विप्रवासयेत् ॥ २६.६० ॥

यस्त्वसद्भ्यो ददातीह न द्रव्यं धर्मसाधनम् ।
स पूर्वाभ्यधिकः पापी नरके पच्यते नरः ॥ २६.६१ ॥

स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः ।
सत्यसंयमसंयुक्तास्तेभ्यो दद्याद् द्विजोत्तमाः ॥ २६.६२ ॥

सुभुक्तमपि विद्वांसं धार्मिकं भोजयेद् द्विजम् ।
न तु मूर्खमवृत्तस्थं दशरात्रमुपोषितम् ॥ २६.६३ ॥

सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति ।
स तेन कर्मणा पापी दहत्यासप्तमं कुलम् ॥ २६.६४ ॥

यदिस्यादधिको विप्रः शीलविद्यादिभिः स्वयम् ।
तस्मै यत्नेन दातव्यं अतिक्रम्यापि सन्निधिम् ॥ २६.६५ ॥

योर्च्चितं प्रतिगृह्णीयाद् दद्यादर्चितमेव च ।
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ २६.६६ ॥

न वार्यपि प्रयच्छेत नास्तिके हैतुकेऽपि च ।
पाषण्डेषु च सर्वेषु नावेदविदि धर्मवित् ॥ २६.६७ ॥

अपूपं च हिरण्यं च गामश्वं पृथिवीं तिलान् ।
अविद्वान् प्रतिगृह्णानो भस्मी भवति काष्ठवत् ॥ २६.६८ ॥

द्विजातिभ्यो धनं लिप्सेत् प्रशस्तेभ्यो द्विजोत्तमः ।
अपि वा जातिमात्रेभ्यो न तु शूद्रात् कथञ्चन ॥ २६.६९ ॥

वृत्तिसङ्कोचमन्विच्छेन्नेहेत धनविस्तरम् ।
धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते ॥ २६.७० ॥

वेदानधीत्य सकलान् यज्ञांश्चावाप्य सर्वशः ।
न तां गतिमवाप्नोति सङ्कोचाद् यामवाप्नुयात् ॥ २६.७१ ॥

प्रतिग्रहरुचिर्न स्यात् यात्रार्थं तु धनं हरेत् ।
स्थित्यर्थादधिकं गृह्णन् ब्राह्मणो यात्यधोगतिम् ॥ २६.७२ ॥

यस्तु याचनको नित्यं न स स्वर्गस्य भाजनम् ।
उद्वेजयति भूतानि यथा चौरस्तथैव सः ॥ २६.७३ ॥

गुरून् भृत्यांश्चोज्जिहीर्षन् अर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयंततः ॥ २६.७४ ॥

एवं गृहस्थो युक्तात्मा देवताऽतिथिपूजकः ।
वर्त्तमानः संयातात्मा याति तत् परमं पदम् ॥ २६.७५ ॥

पुत्रे निधाय वा सर्वं गत्वाऽरण्यं तु तत्त्ववित् ।
एकाकी विचरेन्नित्यमुदासीनः समाहितः ॥ २६.७६ ॥

एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः ।
ज्ञात्वाऽतु तिष्ठेन्नियतं तथाऽनुष्ठापयेद् द्विजान् ॥ २६.७७ ॥

इति देवमनादिमेकमीशं
गृहधर्मेण समर्चयेदजस्रम्
समतीत्य स सर्वभूतयोनिं
प्रकृतिं वै स परं न याति जन्म ॥ २६.७८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
षड्विंशोऽध्यायः ॥२६ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे सप्तविंशतितमोऽध्यायः

व्यास उवाच ।
एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः ।
वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च ॥ २७.२ ॥

निक्षिप्य भार्यां पुत्रेषु गच्छेद् वनमथापि वा ।
दृष्ट्वाऽपत्यस्य चापत्यं जर्जरीकृतविग्रहः ॥ २७.२ ॥

शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे ।
गत्वाऽरण्यं नियमवांस्तपः कुर्यात् समाहितः ॥ २७.३ ॥

फलमूलानि पूतानि नित्यमाहारमाहरेत् ।
यताहारो भवेत् तेन पूजयेत् पितृदेवताः ॥ २७.४ ॥

पूजयित्वाऽतिथिं नित्यं स्नात्वा चाभ्यर्चयेत् सुरान् ।
गृहादादाय चाश्नीयादष्टौ ग्रासान् समाहितः ॥ २७.५ ॥

जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत् ।
स्वाध्यायं सर्वदा कुर्यान्नियच्छेद् वाचमन्यतः ॥ २७.६ ॥

अग्निहोत्रं च जुहुयात् पञ्चयज्ञान् समाचरेत् ।
मुन्यन्नैर्विविधैर्वन्यैः शाकमूलफलेन च ॥ २७.७ ॥

चीरवासा भवेन्नित्यं स्नायात् त्रिषवणं शुचिः ।
सर्वभूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः ॥ २७.८ ॥

दर्शेन पौर्णमासेन यजेत् नियतं द्विजः ।
ऋक्षेष्वाग्रयणे चैव चातुर्मास्यानि चाहरेत् ॥ २७.९ ॥

उत्तरायणं च क्रमशो दक्षस्यायनमेव च ।
वासन्तैः शारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः ॥ २७.१० ॥

पुरोडाशांश्चरूंश्चैव द्विविधं निर्वपेत् पृथक् ।
देवताभ्यश्च तद् हुत्वा वन्यं मेध्यतरं हविः ॥ २७.११ ॥

शेषं समुपभुञ्जीत लवणं च स्वयं कृतम् ॥

वर्जयेन्मधुमांसानि भौमानि कवचानि च ॥ २७.१२ ॥

भूस्तृणं शिशुकं चैव श्लेष्मातकफलानि च ।
न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् ॥ २७.१३ ॥

न ग्रामजातान्यार्त्तोऽपि पुष्पाणि च फलानि च ।
श्रावणेनैव विधिना वह्निं परिचरेत् सदा ॥ २७.१४ ॥

न द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्भयो भवेत् ।
न नक्तं किंचिदश्नीयाद् रात्रौ ध्यानपरो भवेत् ॥ २७.१५ ॥

जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः ।
ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ॥ २७.१६ ॥

यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् ।
तद् व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥ २७.१७ ॥

तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः ।
न हि वेदेऽधिकारोऽस्य तद्वंशेप्येवमेव हि ॥ २७.१८ ॥

अधः शयीत सततं सावित्रीजाप्यतत्परः
शरण्यः सर्वभूतानां संविभागपरः सदा ॥ २७.१९ ॥

परिवादं मृषावादं निद्रालस्यं विवर्जयेत् ।
एकाग्निरनिकेतः स्यात् प्रोक्षितां भूमिमाश्रयेत् ॥ २७.२० ॥

मृगैः सह चरेद् वासं तैः सहैव च संवसेत् ।
शिलायां शर्करायां वा शयीत सुसमाहितः ॥ २७.२१ ॥

सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा ।
षण्मासनिचयो वा स्यात् समानिचय एव वा ॥ २७.२२ ॥

त्यजेदाश्वयुजे मासि सम्पन्नं पूर्वसंचितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ २७.२३ ॥

दन्तोलूखलिको वास्यात् कापोतीं वृत्तिमाश्रयेत् ।
अश्मकुट्टो भवेद् वाऽपि कालपक्वभुगेव वा ॥ २७.२४ ॥

नक्तं चान्नं समश्नीयाद् दिवा चाहृत्य शक्तितः ।
चतुर्थकालिको वा स्यात् स्याद्वाचाष्टमकालिकः ॥ २७.२५ ॥

चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्त्तयेत् ।
पक्षे पक्षे समश्नीयाद् द्विजाग्रान् कथितान् सकृत् ॥ २७.२६ ॥

पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत् सदा ।
स्वाभाविकैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ २७.२७ ॥

भूमौ वा परिवर्त्तेत तिष्ठेद् वा प्रपदैर्दिनम् ।
स्थानासनाभ्यां विहरेन्न क्वचिद् धैर्यमुत्सृजेत् ॥ २७.२८ ॥

ग्रीष्मे पञ्चतपास्तद्वत् वर्षास्वभ्रावकाशकः ।
आर्द्रवासास्तु हेमन्ते क्रमशो वर्द्धयंस्तपः ॥ २७.२९ ॥

उपस्पृश्य त्रिषवणं पितृदेवांश्च तर्पयेत् ।
एकपादेन तिष्ठेत मरीचीन् वा पिबेत् तदा ॥ २७.३० ॥

पञ्चाग्निर्धूमपो वा स्यादुष्मपः सोमपोऽथ वा ।
पयः पिबेच्छुक्लपक्षे कृष्णापक्षे तु गोमयम् ॥ २७.३१ ॥

शीर्णपर्णाशनो वा स्यात् कृच्छ्रैर्वा वर्त्तयेत् सदा ।
योगाभ्यासरतश्च स्याद् रुद्राध्यायी भवेत् सदा ॥ २७.३२ ॥

अथर्वशिरसोऽध्येता वेदान्ताभ्यासतत्परः ।
यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ॥ २७.३३ ॥

कृष्णाजिनः सोत्तरीयः शुक्लयज्ञोपवीतवान् ॥

अथ चाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ॥ २७.३४ ॥

अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् ।
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ २७.३५ ॥

गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥

ग्रामादाहृत्य चाश्नीयादष्टौ ग्रासान् वने वसन् ॥ २७.३६ ॥

प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ।
विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् ॥ २७.३७ ॥

विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च ।
महाप्रास्थानिकं वासौ कुर्यादनशनं तु वा ।
अग्निप्रवेशमन्यद् वा ब्रर्ह्मार्पणविधौ स्थितः ॥ २७.३८ ॥

यस्तु सम्यगिममाश्रमं शिवं
संश्रयन्त्यशिवपुञ्जनाशनम् ।
ते विशन्ति परमैश्वरं पदं
यान्ति यत्र गतमस्य संस्थितेः ॥ २७.३९ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
सप्तविशोऽध्यायः ॥२७ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे अष्टाविंशतितमोऽध्यायः

व्यास उवाच ।
एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः ।
चतुर्थमायुषो भागं संन्यासेन नयेत् क्रमात् ॥ २८.१ ॥

अग्नीनात्मनी संस्थाप्य द्विजः प्रव्रजितो भवेत् ।
योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥ २८.२ ॥

यदा मनसि संजातं वैतृष्ण्यं सर्ववस्तुषु ।
तदा संन्यासमिच्छन्ति पतितः स्याद् विपर्यये ॥ २८.३ ॥

प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः ।
दान्तः पक्वकषायोऽसौ ब्रह्माश्रममुपाश्रयेत् ॥ २८.४ ॥

ज्ञानसंन्यासिनः केचिद् वेदसंन्यासिनः परे ।
कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥ २८.५ ॥

यः सर्वसङ्गनिर्मुक्तो निर्द्वन्द्वश्चैव निर्भयः ।
प्रोच्यते ज्ञानसंन्यासी स्वात्मन्येव व्यवस्थितः ॥ २८.६ ॥

वेदमेवाभ्यसेन्नित्यं निर्द्वन्दो निष्परिग्रहः ।
प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेन्द्रियः ॥ २८.७ ॥

यस्त्वग्नीनात्मसात्कृत्वा ब्रह्मार्पणपरो द्विजः ।
ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः ॥ २८.८ ॥

त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः ।
न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः ॥ २८.९ ॥

निर्ममो निर्भयः शान्तो निर्द्वन्द्वः पर्णभोजनः ।
जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः ॥ २८.१० ॥

ब्रह्मचारी मिताहारो ग्रामादन्नं समाहरेत् ।
अध्यात्ममतिरासीत निरपेक्षो निरामिषः ॥ २८.११ ॥

आत्मनैव सहायेन सुखार्थी विचरेदिह ।
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ २८.१२ ॥

कालमेव प्रतीक्षेत निदेशं भृतको यथा ।
नाध्येतव्यं न वक्तव्यं श्रोतव्यं न कदाचन ॥ २८.१३ ॥

एवं ज्ञात्वा परो योगी ब्रह्मभूयाय कल्पते ।
एकवासाऽथवा विद्वान् कौपीनाच्छादनस्तथा ॥ २८.१४ ॥

मुण्डी शिखी वाऽथ भवेत् त्रिदण्डी निष्परिग्रहः ।
काषायवासाः सततं ध्यानयोगपरायणः ॥ २८.१५ ॥

ग्रामान्ते वृक्षमूले वा वसेद् देवालयेऽपि वा ।
समः शत्रौ च मित्रे च तथा मानापमानयोः ॥ २८.१६ ॥

भैक्ष्येण वर्त्तयेन्नित्यं नैकान्नादी भवेत् क्वचित् ।
यस्तु मोहेन वान्यस्मादेकान्नादी भवेद् यतिः ॥ २८.१७ ॥

न तस्य निष्कृतिः काचिद् धर्मशास्त्रेषु कथ्यते ।
रागद्वेषविमुक्तात्मा समलोष्टाश्मकाञ्चनः ॥ २८.१८ ॥

प्राणिहंसानिवृत्तश्च मौनी स्यात् सर्वनिस्पृहः ।
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
शास्त्रपूतां वदेद् वाणीं मनः पूतं समाचरेत् ॥ २८.१९ ॥

नैकत्र निवसेद् देशे वर्षाभ्योऽन्यत्र भिक्षुकः ।
स्नानशौचरतो नित्यं कमण्डलुकरः शुचिः ॥ २८.२० ॥

ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत् ।
मोक्षशास्त्रेषु निरतो ब्रह्मचारी जितेन्द्रियः ॥ २८.२१ ॥

दम्भाहंकारनिर्मुक्तो निन्दापैशुन्यवर्जितः ।
आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात् ॥ २८.२२ ॥

अभ्यसेत् सततं वेदं प्रणवाख्यं सनातनम् ।
स्नात्वाचम्य विधानेन शुचिर्देवालयादिषु ॥ २८.२३ ॥

यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः ।
धौतकाषायवसनो भस्मच्छन्नतनूरहः ॥ २८.२४ ॥

अधियज्ञं ब्रह्म जपेदाधिदैविकमेव वा ।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ २८.२५ ॥

पुत्रेषु चाऽथ निवसन् ब्रह्मचारी यतिर्मुनिः ।
वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम् ॥ २८.२६ ॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तपः परम् ।
क्षमा दया च सन्तोषो व्रतान्यस्य विशेषतः ॥ २८.२७ ॥

वेदान्तज्ञाननिष्ठो वा पञ्च यज्ञान् समाहितः ।
ज्ञान ध्यान समायुक्तो भिक्षार्थे नैव तेन हि ॥ २८.२८ ॥

होममन्त्राञ्जपेन्नित्यं काले काले समाहितः ।
स्वाध्यायं चान्वहं कुर्यात् सावित्रीं संध्ययोर्जपेत् ॥ २८.२९ ॥

ध्यायीत सततं देवमेकान्ते परमेश्वरम् ।
एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम् ॥ २८.३० ॥

एकवासा द्विवासा वा शिखी यज्ञोपवीतवान् ।
कमण्डलुकरो विद्वान् त्रिदण्डी याति तत्परम् ॥ २८.३१ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां
संहितायामुपरिविभागेऽष्टाविंशोऽध्यायः ॥२८ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे नवविंशतितमोऽध्यायः

एवं स्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् ।
भैक्षेण वर्त्तनं प्रोक्तं फलमूलैरथापि वा ॥ २९.१ ॥

एककालं चरेद् भैक्षं न प्रसज्येत विस्तरे ।
भैक्ष्य प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ २९.२ ॥

सप्तागारं चरेद् भैक्षमलाभात् तु पुनश्चरेत् ।
प्रक्षाल्य पात्रे भुञ्जीयादद्भिः प्रक्षालयेत् तु पुनः ॥ २९.३ ॥

अथवाऽन्यदुपादाय पात्रे भुञ्जीत नित्यशः ।
भुक्त्वा तत् संत्यजेत् पात्रं यात्रामात्रमलोलुपः ॥ २९.४ ॥

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ २९.५ ॥

गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ।
भिक्षेत्युक्त्वा सकृत् तूष्णीमश्नीयाद् वाग्यतः शुचिः ॥ २९.६ ॥

प्रक्षाल्य पाणिपादौ च समाचम्य यथाविधि ।
आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्मुखोत्तरः ॥ २९.७ ॥

हुत्वा प्राणाहुतीः पञ्च ग्रासानष्टौ समाहितः ।
आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम् ॥ २९.८ ॥

अलाबुं दारुपात्रं च मृण्मयं वैणवं ततः ।
चत्वारि यतिपात्राणि मनुराह प्रजापतिः ॥ २९.९ ॥

प्राग्रात्रे पररात्रे च मध्यरात्रे तथैव च ।
संध्यास्वग्नि विशेषेण चिन्तयेन्नित्यमीश्वरम् ॥ २९.१० ॥

कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् ।
आत्मानं सर्वभूतानां परस्तात् तमसः स्थितम् ॥ २९.११ ॥

सर्वस्याधारभूतानामानन्दं ज्योतिरव्ययम् ।
प्रधानपुरुषातीतमाकाशं दहनं शिवम् ॥ २९.१२ ॥

तदन्तः सर्वभावानामीश्वरं ब्रह्मरूपिणम् ।
ध्यायेदनादिमध्यान्तमानन्दादिगुणालयम् ॥ २९.१३ ॥

महान्तं पुरुषं ब्रह्म ब्रह्माणं सत्यमव्ययम् ।
तरुणादित्यसंकाशं महेशं विश्वरूपिणम् ॥ २९.१४ ॥

ओंकारान्तेऽथ चात्मानं संस्थाप्य परमात्मनि ।
आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ॥ २९.१५ ॥

कारणं सर्वभावानामानन्दैकसमाश्रयम् ।
पुराणं पुरुषं शुभ्रं ध्यायन् मुच्येत बन्धनात् ॥ २९.१६ ॥

यद्वा गुहायां प्रकृतं जगत्संमोहनालये ।
विचिन्त्य परमं व्योम सर्वभूतैककारणम् ॥ २९.१७ ॥

जीवनं सर्वभूतानां यत्र लोकः प्रलीयते ।
आनन्दं ब्रह्मणः सूक्ष्मं यत् पश्यन्ति मुमुक्षवः ॥ २९.१८ ॥

तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् ।
अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः ॥ २९.१९ ॥

गुह्याद् गुह्यतमं ज्ञानं यतीनामेतदीरितम् ।
योऽनुतिष्ठेन्महेशेन सोऽश्नुते योगमैश्वरम् ॥ २९.२० ॥

तस्माद् ध्यानरतो नित्यमात्मविद्यापरायणः ।
ज्ञानं समभ्यसेद् ब्राह्मं येन मुच्येत बन्धनात् ॥ २९.२१ ॥

गत्वा पृथक् स्वमात्मानं सर्वस्मादेव केवलम् ।
आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम् ॥ २९.२२ ॥

यस्मात् भवन्ति भूतानि यद् गत्वा नेह जायते ।
स तस्मादीश्वरो देवः परस्माद् योऽधितिष्ठति ॥ २९.२३ ॥

यदन्तरे तद् गगनं शाश्वतं शिवमच्युतम् ।
यदाहुस्तत्परो यः स्यात् स देवः स्यान्महेश्वरः ॥ २९.२४ ॥

व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च ।
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ॥ २९.२५ ॥

उपेत्य च स्त्रियं कामात् प्रायश्चित्तं समाहितः ।
प्राणायामसमायुक्तः कुर्यात् सांतपनं शुचिः ॥ २९.२६ ॥

ततश्चरेत नियमात् कृच्छ्रं संयतमानसः ।
पुनराश्रममागम्य चरेद् भिश्रुरतन्द्रितः ॥ २९.२७ ॥

न नर्मयुक्तमनृतं हिनस्तीति मनीषिणः ।
तथापि च न कर्त्तव्यं प्रसङ्गो ह्येष दारुणः ॥ २९.२८ ॥

एकरात्रोपवासश्च प्राणायामशतं तथा ।
उक्त्वा नूनं प्रकर्तव्यं यतिना धर्मलिप्सुना ॥ २९.२९ ॥

परमापद्गतेनापि न कार्यं स्तेयमन्यतः ।
स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः ॥ २९.३० ॥

हिंसा चैषापरा दिष्टा या चात्मज्ञाननाशिका ।
यदेतद् द्रविणं नाम प्राण ह्येते बहिश्वराः ॥ २९.३१ ॥

स तस्य हरति प्राणान् यो यस्य हरते धनम् ।
एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताहतः ।
भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम् ॥ २९.३२ ॥

विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः ।
भूयो निर्वेदमापन्नश्चरेद् भिक्षुरतन्द्रितः ॥ २९.३३ ॥

अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् ।
कुर्यात्कृछ्रातिकृच्छ्रं तु चान्द्रायणमथापि वा ॥ २९.३४ ॥

स्कन्नमिन्द्रियदौर्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि ।
तेन धारयितव्या वै प्राणायामास्तु षोडश ॥ २९.३५ ॥

दिवास्कन्ने त्रिरात्रं स्यात् प्राणायामशतं तथा ।
एकान्ते मधुमांसे च नवश्राद्धे तथैव च ।
प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ॥ २९.३६ ॥

ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् ।
तस्मान्महेश्वरं ज्ञात्वा तस्य ध्यानपरो भवेत् ॥ २९.३७ ॥

यद् ब्रह्म परमं ज्योतिः प्रतिष्ठाक्षरमद्वयम् ।
योऽन्तरा परं ब्रह्म स विज्ञेयो महेश्वरः ॥ २९.३८ ॥

एष देवो महादेवः केवलः परमः शिवः ।
तदेवाक्षरमद्वैतं तदादित्यान्तरं परम् ॥ २९.३९ ॥

यस्मान्महीयसो देवः स्वधाग्नि ज्ञानसंस्थिते ।
आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः ॥ २९.४० ॥

नान्यं देवंमहादेवाद् व्यतिरिक्तं प्रपश्यति ।
तमेवात्मानमात्मेति यः स याति परमं पदम् ॥ २९.४१ ॥

मन्यते ये स्वमात्मानं विभिन्नं परमेश्वरात् ।
न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः ॥ २९.४२ ॥

एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् ।
स देवस्तु महादेवो नैतद् विज्ञाय बध्यते ॥ २९.४३ ॥

तस्माद् यतेत नियतं यतिः संयतमानसः ।
ज्ञानयोगरतः शान्तो महादेवपरायणः ॥ २९.४४ ॥

एष वः कथितो विप्रो यतीनामाश्रमः शुभः ।
पितामहेन विभुना मुनीनां पूर्वमीरितम् ॥ २९.४५ ॥

नापुत्रशिष्ययोगिभ्यो दद्यादिदमनुत्तमम् ।
ज्ञानं स्वयंभुना प्रोक्तं यतिधर्माश्रयं शिवम् ॥ २९.४६ ॥

इति यतिनियमानामेतदुक्तं विधानं
पशुपतिपरितोषे यद् भवेदेकहेतुः ।
न भवति पुनरेषामुद्भवो वा विनाशः
प्रणिहितमनसो ये नित्यमेवाचरन्ति ॥ २९.४७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
एकोनत्रिंशोऽध्यायः ॥२९ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे त्रिंशत्तमोऽध्यायः

व्यास उवाच ।
अतः परं प्रवलक्ष्यामि प्रायश्चित्तविधिं शुभम् ।
हिताय सर्वविप्राणां दोषाणामपनुत्तये ॥ ३०.१ ॥

अकृत्वा विहितं कर्म कृत्वा निन्दितमेव च ।
दोषमाप्नोति पुरुषः प्रायश्चित्तं विशोधनम् ॥ ३०.२ ॥

प्रायश्चित्तमकृत्वा तु न तिष्ठेद् ब्राह्मणः क्वचित् ।
यद् ब्रूयुर्ब्राह्मणाः शान्ता विद्वांसस्तत्समाचरेत् ॥ ३०.३ ॥

वेदार्थवित्तमः शान्तो धर्मकामोऽग्निमान् द्विजः ।
स एव स्यात् परो धर्मो यमेकोऽपि व्यवस्यति ॥ ३०.४ ॥

अनाहिताग्नयो विप्रास्त्रयो वेदार्थपारगाः ।
यद् ब्रूयुर्धर्मकामास्ते तज्ज्ञेयं धर्मसाधनम् ॥ ३०.५ ॥

अनेकधर्मशास्त्रज्ञा ऊहापोहविशारदाः ।
वेदाध्ययनसम्पन्नाः सप्तैते परिकीर्त्तिताः ॥ ३०.६ ॥

मीमांसाज्ञानतत्त्वज्ञा वेदान्तकुशला द्विजाः ।
एकविंशतिविख्याताः प्रयाश्चित्तं वदन्ति वै ॥ ३०.७ ॥

ब्रह्महा मद्यपः स्तेनो गुरुतल्पग एव च ।
महापातकिनस्त्वेते यश्चैतैः सह संवसेत् ॥ ३०.८ ॥

संवत्सरं तु पतितैः संसर्गं कुरुते तु यः ।
यानशय्यासनैर्नित्यं जानन् वै पतितो भवेत् ॥ ३०.९ ॥

याजनं योनिसंबन्धं तथैवाध्यापनं द्विजः ।
कृत्वा सद्यः पतत्येव सह भोजनमेव च ॥ ३०.१० ॥

अविज्ञायाथ यो मोहात् कुर्यादध्यापनं द्विजः ।
संवत्सरेण पतति सहाध्ययनमेव च ॥ ३०.११ ॥

ब्रह्माहा द्वादशाब्दानि कुटिं कृत्वा वने वसेत् ।
भैक्षमात्मविशुद्ध्यर्थे कृत्वा शवशिरोर्ध्वजम् ॥ ३०.१२ ॥

ब्राह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् ।
विनिन्दन् स्वयमात्मानं ब्राह्मणं तं च संस्मरन् ॥ ३०.१३ ॥

असंकल्पितयोग्यानि सप्तागाराणि संविशेत् ।
विधूमे शनकैर्नित्यं व्यङ्गारे भुक्तवज्जने ॥ ३०.१४ ॥

एककालं चरेद् भैक्षं दोषं विख्यापयन् नृणाम् ।
वन्यमूलफलैर्वापि वर्त्तयेद् वै समाश्रितः ॥ ३०.१५ ॥

कपालपाणिः खट्वाङ्गी ब्रह्मचर्यपरायणः ।
पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ ३०.१६ ॥

अकामतः कृते पापे प्रायश्चित्तमिदं शुभम् ।
कामतो मरणाच्छुद्धिर्ज्ञेया नान्येन केनचित् ॥ ३०.१७ ॥

कुर्यादनशनं वाऽथ भृगोः पतनमेव वा ।
ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत् स्वयम् ॥ ३०.१८ ॥

ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेत् ।
ब्रह्महत्यापनोदार्थमन्तरा वा मृतस्य तु ॥ ३०.१९ ॥

दीर्घामयाविनं विप्रं कृत्वानामयमेव वा ।
दत्त्वा चान्नं सुविदुषे ब्रह्महत्यां व्यपोहति ॥ ३०.२० ॥

अश्वमेधावभृथके स्नात्वा वा शुध्यते द्विजः ।
सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदाय तु ॥ ३०.२१ ॥

सरस्वत्यास्त्वरुणया संगमे लोकविश्रुते ।
शुध्येत् त्रिषवणस्नानात् त्रिरात्रोपोषितो द्विजः ॥ ३०.२२ ॥

गत्वा रामेश्वरं पुण्यं स्नात्वा चैव महोदधौ ।
ब्रह्मचर्यादिभिर्युक्तो दृष्ट्वा रुद्रं विमुच्यते ॥ ३०.२३ ॥

कपालमोचनं नाम तीर्थं देवस्य शूलिनः ।
स्नात्वाऽभ्यर्च्य पितॄन् देवान् ब्रह्महत्यां व्यपोहति ॥ ३०.२४ ॥

यत्र देवादिदेवेन भैरवेणामितौजसा ।
कपालं स्थापितं पूर्वं ब्रह्मणः परमेष्ठिनः ॥ ३०.२५ ॥

समभ्यर्च्य महादेवं तत्र भैरवरूपिणम् ।
तर्पपित्वा पितॄन् स्नात्वा मुच्यते ब्रह्महत्यया ॥ ३०.२६ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रिशोऽध्यायः ॥३० ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे एकत्रिंशत्तमोऽध्यायः

ऋषय ऊचुः ।
कथं देवेन रुद्रेण शंकरेणातितेजसा ।
कपालं ब्रह्मणः पूर्वं स्थापितं देहजं भुवि ॥ ३१.१ ॥

सूत उवाच ।
श‍ृणुध्वमृषयः पुण्यां कथां पापप्रणाशनीम् ।
माहात्म्यं देवदेवस्य महादेवस्य धीमतः ॥ ३१.२ ॥

पुरा पितामहं देवं मेरुश‍ृङ्गे महर्षयः ।
प्रोचुः प्रणम्य लोकादिं किमेकं तत्त्वमव्ययम् ॥ ३१.३ ॥

स मायया महेशस्य मोहितो लोकसंभवः ।
अविज्ञाय परं भावं स्वात्मानं प्राह धर्षिणम् ॥ ३१.४ ॥

अहं धाता जगद्योनिः स्वयंभूरेक ईश्वरः ।
अनादिमत्परं ब्रह्म मामभ्यर्च्य विमुच्यते ॥ ३१.५ ॥

अहं हि सर्वदेवानां प्रवर्त्तकनिवर्त्तकः ।
न विद्यते चाभ्यधिको मत्तो लोकेषु कश्चन ॥ ३१.६ ॥

तस्यैवं मन्यमानस्य जज्ञे नारायणांशजः ।
प्रोवाच प्रहसन् वाक्यं रोषताम्रविलोचनः ॥ ३१.७ ॥

किं कारणमिदं ब्रह्मन् वर्त्तते तव सांप्रतम् ।
अज्ञानयोगयुक्तस्य न त्वेतदुचितं तव ॥ ३१.८ ॥

अहं धाता हि लोकानां जज्ञे नारायणात्प्रभोः ।
न मामृतेऽस्य जगतो जीवनं सर्वदा क्वचित् ॥ ३१.९ ॥

अहमेव परं ज्योतिरहमेव परा गतिः ।
मत्प्रेरितेन भवता सृष्टं भुवनमण्डलम् ॥ ३१.१० ॥

एवं विवदतोर्मोहात् परस्परजयैषिणोः ।
आजग्मुर्यत्र तौ देवौ वेदाश्चत्वार एव हि ॥ ३१.११ ॥

अन्वीक्ष्य देवं ब्रह्माणं यज्ञात्मानं च संस्थितम् ।
प्रोचुः संविग्नहृदया याथात्म्यं परमेष्ठिनः ॥ ३१.१२ ॥

ऋग्वेद उवाच ।
यस्यान्तः स्थानि भूतानि यस्मात्सर्वं प्रवर्त्तते ।
यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ॥ ३१.१३ ॥

यजुर्वेद उवाच ।
यो यज्ञैरखिलैरीशो योगेन च समर्च्यते ।
यमाहुरीश्वरं देवं स देवः स्यात् पिनाकधृक् ॥ ३१.१४ ॥

सामवेद उवाच ।
येनेदं भ्राम्यते विश्वं यदाकाशान्तरं शिवम् ।
योगिभिर्विद्यते तत्त्वं महादेवः स शंकरः ॥ ३१.१५ ॥

अथर्ववेद उवाच ।
यं प्रपश्यन्ति देवेशं यतन्तो यतयः परम् ।
महेशं पुरुषं रुद्रं स देवो भगवान् भवः ॥ ३१.१६ ॥

एवं स भगवान् ब्रह्मा वेदानामीरितं शुभम् ।
श्रुत्वाह प्रहसन् वाक्यं विश्वात्माऽपि विमोहितः ॥ ३१.१७ ॥

कथं तत्परमं ब्रह्म सर्वसङ्गविवर्जितम् ।
रमते भार्यया सार्द्धं प्रमथैश्चातिगर्वितैः ॥ ३१.१८ ॥

इतिरितेऽथ भगवान् प्रणवात्मा सनातनः ।
अमूर्त्तो मूर्तिमान् भूत्वा वचः प्राह पितामहम् ॥ ३१.१९ ॥

प्रणव उवाच ।
न ह्येष भगवानीशः स्वात्मनो व्यतिरिक्तया ।
कदाचिद् रमते रुद्रस्तादृशो हि महेश्वरः ॥ ३१.२० ॥

अयं स भगवानीशः स्वयंज्योतिः सनातनः ।
स्वानन्दभूता कथिता देवी आगन्तुका शिवा ॥ ३१.२१ ॥

इत्येवमुक्तेऽपि तदा यज्ञमूर्त्तेरजस्य च ।
नाज्ञानमगमन्नाशमीश्वरस्यैव मायया ॥ ३१.२२ ॥

तदन्तरे महाज्योतिर्विरिञ्चो विश्वभावनः ।
प्रापश्यदद्भुतं दिव्यं पूरयन् गगनान्तरम् ॥ ३१.२३ ॥

तन्मध्यसंस्थं विमलं मण्डलं तेजसोज्ज्वलम् ।
व्योममध्यगतं दिव्यं प्रादुरासीद् द्विजोत्तमाः ॥ ३१.२४ ॥

स दृष्ट्वा वदनं दिव्यं मूर्ध्नि लोकपितामहः ।
तैजसं मण्जलं घोरमालोकयदनिन्दितम् ॥ ३१.२५ ॥

प्रजज्वालातिकोपेन ब्रह्मणः पञ्चमं शिरः ।
क्षणादपश्यत महान् पुरुषो नीललोहितः ॥ ३१.२६ ॥

त्रिशूलपिङ्गलो देवो नागयज्ञोपवीतवान् ।
तं प्राह भगवान् ब्रह्मा शंकरं नीललोहितम् ॥ ३१.२७ ॥

जानामि भगवान् पूर्वं ललाटादद्य शंकरम् ।
प्रादुर्भूतं महेशानं मामतः शरणं व्रज ॥ ३१.२८ ॥

श्रुत्वा सगर्ववचनं पद्मयोनेरथेश्वरः ।
प्राहिणोत् पुरुषं कालं भैरवं लोकदाहकम् ॥ ३१.२९ ॥

स कृत्वा सुमहद् युद्धं ब्रह्मणा कालभैरवः ।
चकर्त्त तस्य वदनं विरिञ्चस्याथ पञ्चमम् ॥ ३१.३० ॥

निकृत्तवदनो देवो ब्रह्मा देवेन शंभुना ।
ममार चेशो योगेन जीवितं प्राप विश्वसृक् ॥ ३१.३१ ॥

अथान्वपश्यद् गिरिशं मण्डलान्तरसंस्थितम् ।
समासीनं महादेव्या महादेवं सनातनम् ॥ ३१.३२ ॥

भुजङ्गराजवलयं चन्द्रावयवभूषणम् ।
कोटिसूर्यप्रतीकाशं जटाजूटविराजितम् ॥ ३१.३३ ॥

शार्दूलचर्मवसनं दिव्यमालासमन्वितम् ।
त्रिशूलपाणिं दुष्प्रेक्ष्यं योगिनं भूतिभूषणम् ॥ ३१.३४ ॥

यमन्तरा योगनिष्ठाः प्रपश्यन्ति हृदीश्वरम् ।
तमादिमेकं ब्रह्माणं महादेवं ददर्श ह ॥ ३१.३५ ॥

यस्य सा परमा देवी शक्तिराकाशसंस्थिता ।
सोऽनन्तैश्वर्ययोगात्मा महेशो दृश्यते किल ॥ ३१.३६ ॥

यस्याशेषजगद् बीजं विलयं याति मोहनम् ।
सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ॥ ३१.३७ ॥

योऽथ नाचारनिरतास्तद्भक्तानेव केवलम् ।
विमोचयति लोकात्मा नायको दृश्यते किल ॥ ३१.३८ ॥

यस्य ब्रह्मादयो देवा ऋषयो ब्रह्मवादिनः ।
अर्चयन्ति सदा लिङ्गं विश्वेशः खलु दृश्यते ॥ ३१.३९ ॥

यस्याशेषजगत्सूतिः विज्ञानतनुरीश्वरः ।
न मुञ्चति सदा पार्श्वं शंकरोऽसौ च दृश्यते ॥३१.४० ॥

विद्यासहायो भगवान् यस्यासौ मण्डलान्तरम् ।
हिरण्यगर्भपुत्रोऽसावीश्वरो दृश्यते परः ॥३१.४१ ॥

पुष्पं वा यदि वा पत्रं यत्पादयुगले जलम् ।
दत्त्वा तरति संसारं रुद्रोऽसौ दृश्यते किल ॥ ३१.४२ ॥

तत्सन्निधाने सकलं नियच्छति सनातनः ।
कालं किल स योगात्मा कालकालो हि दृश्यते ॥ ३१.४३ ॥

जीवनं सर्वलोकानां त्रिलोकस्यैव भूषणम् ।
सोमः स दृश्यते देवः सोमो यस्य विभूषणम् ॥ ३१.४४ ॥

देव्या सह सदा साक्षाद् यस्य योगः स्वभावतः ।
गीयते परमा मुक्तिः महादेवः स दृश्यते ॥ ३१.४५ ॥

योगिनो योगतत्त्वज्ञा वियोगाभिमुखोऽनिशम् ।
योगं ध्यायन्ति देव्याऽसौ स योगी दृश्यते किल ॥ ३१.४६ ॥

सोऽनुवीक्ष्य महादेवं महादेव्या सनातनम् ।
वरासने समासीनमवाप परमां स्मृतिम् ॥ ३१.४७ ॥

लब्ध्वा माहेश्वरीं दिव्यां संस्मृतिं भगवानजः ।
तोषयामास वरदं सोमं सोमविभूषणम् ॥ ३१.४८ ॥

ब्रह्मोवाच ।
नमो देवाय महते महादेव्यै नमो नमः ।
नमः शिवाय शान्ताय शिवायै सततं नमः ॥ ३१.४९ ॥

ओं नमो ब्रह्मणे तुभ्यं विद्यायै ते नमो नमः ।
मूलप्रकृतये तुभ्यं महेशाय नमो नमः ॥ ३१.५० ॥

नमो विज्ञानदेहाय चिन्तायै ते नमो नमः ।
नमोऽस्तु कालकालाय ईश्वरायै नमो नमः ॥ ३१.५१ ॥

नमो नमोऽस्तु रुद्राय रुद्राण्यै ते नमो नमः ।
नमो नमस्ते कामाय मायायै च नमो नमः ॥ ३१.५२ ॥

नियन्त्रे सर्वकार्याणां क्षोभिकायै नमो नमः ।
नमोऽस्तु ते प्रकृतये नमो नारायणाय च ॥ ३१.५३ ॥

योगादाय नमस्तुभ्यं योगिनां गुरवे नमः ।
नमः संसारनाशाय संसारोत्पत्तये नमः ॥ ३१.५६ ॥

नित्यानन्दाय विभवे नमोऽस्त्वानन्दमूर्त्तये ।
नमः कार्यविहीनाय विश्वप्रकृतये नमः ॥ ३१.५७ ॥

ओंकारमूर्त्तये तुभ्यं तदन्तः संस्थिताय च ।
नमस्ते व्योमसंस्थाय व्योमशक्त्यै नमो नमः ॥ ३१.५८ ॥

इति सोमाष्टकेनेशं प्रणिपत्य पितामहः ।
पपात दण्डवद् भूमौ गृणन् वै शतरुद्रियम् ॥ ३१.५९ ॥

अथ देवो महादेवः प्रणतार्तिहरो हरः ।
प्रोवाचोत्थाप्य हस्ताभ्यां प्रीतोऽस्मि तव सांप्रतम् ॥ ३१.६० ॥

दत्त्वाऽस्मै परमं योगमैश्वर्यमतुलं महत् ।
प्रोवाचान्ते स्थितं देवं नीललोहितमीश्वरम् ॥ ३१.५९ ॥

एष ब्रह्माऽस्य जगतः सम्पूज्यः प्रथमः स्थितः ।
आत्मना रक्षणीयस्ते गुरुर्ज्येष्ठः पिता तव ॥ ३१.६० ॥

अयं पुराणपुरुषो न हन्तव्यस्त्वयाऽनघ ।
स्वयोगैश्वर्यमाहात्म्यान्मामेव शरणं गतः ॥ ३१.६१ ॥

अयं च यज्ञो भगवान् सगर्वो भवताऽनघ ।
शासितव्यो विरिञ्चस्य धारणीयं शिरस्त्वया ॥ ३१.६२ ॥

ब्रह्महत्यापनोदार्थं व्रतं लोके प्रदर्शयन् ।
चरस्व सततं भिक्षां संस्थापय सुरद्विजान् ॥ ३१.६३ ॥

इत्येतदुक्त्वा वचनं भगवान् परमेश्वरम् ।
स्थानं स्वाभाविकं दिव्यं ययौ तत्परमं पदम् ॥ ३१.६४ ॥

ततः स भगवानीशः कपर्दी नीललोहितः ।
ग्राहयामास वदनं ब्रह्मणः कालभैरवम् ॥ ३१.६५ ॥

चर त्वं पापनाशार्थं व्रतं लोकहितावहम् ।
कपालहस्तो भगवान् भिक्षां गृह्णातु सर्वतः ॥ ३१.६६ ॥

उक्त्वैवं प्राहिणोत् कन्यां ब्रह्महत्येति विश्रुताम् ।
दंष्ट्राकरालवदनां ज्वालामालाविभूषणाम् ॥ ३१.६७ ॥

यावद् वाराणसीं दिव्यां पुरीमेष गमिष्यति ।
तावत् विभीषणाकारा ह्यनुगच्छ त्रिशूलि८म् ॥ ३१.६८ ॥

एवमाभाष्य कालाग्निं प्राह देवो महेश्वरम् ।
अटस्व निखिलं लोकं भिक्षार्थी मन्नियोगतः ॥ ३१.६९ ॥

यदा द्रक्ष्यसि देवेशं नारायणमनामयम् ।
तदाऽसौ वक्ष्यति स्पष्टमुपायं पापशोधनम् ॥ ३१.७० ॥

स देवदेवतावाक्यमाकर्ण्य भगवान् हरः ।
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ॥ ३१.७१ ॥

आस्थाय विकृतं वेषं दीप्यमानं स्वतेजसा ।
श्रीमत् पवित्रं रुचिरं लेचनत्रयसंयुतं ३१.७२ ॥

कोटिसूर्यप्रतीकाशैः प्रमथैश्चातिगर्वितैः ।
भाति कालाग्निनयनो महादेवः समावृतः ॥ ३१.७३ ॥

पीत्वा तदमृतं दिव्यमानन्दं परमेष्ठिनः ।
लीलाविलासूबहुलो लोकानागच्छतीश्वरः ॥ ३१.७४ ॥

तं दृष्ट्वा कालवदनं शंकरं कालभैरवम् ।
रूपलावण्यसम्पन्नं नारीकुलमगादनु ॥ ३१.७५ ॥

गायन्ति विविधं गीतं नृत्यन्ति पुरतः प्रभोः ।
सस्मितं प्रेक्ष्य वदनं चक्रुर्भ्रूभङ्गमेव च ॥ ३१.७६ ॥

स देवदानवादीनां देशानभ्येत्य शूलधृक् ।
जगाम विष्णोर्भवनं यत्रास्ते मधुसूदनः ॥ ३१.७७ ॥

निरीक्ष्य दिव्यभवनं शंकरो लोकशंकरः ।
सहैव भूतप्रवरैः प्रवेष्टुमुपचक्रमे ॥ ३१.७८ ॥

अविज्ञाय परं भावं दिव्यं तत्पारमेश्वरम् ।
न्यवारयत् त्रिशूलाङ्कं द्वारपालो महाबलः ॥ ३१.७९ ॥

शङ्खचक्रगदापाणिः पीतवासा महाभुजः ।
विष्वक्सेन इति ख्यातो विष्णोरंशसमुद्भवः ॥ ३१.८० ॥

(अथैनं शंकरगणं युयुधे विष्णुसंभवः ।
भीषणो भैरवादेशात् कालवेग इति श्रुतः ) ॥

विजित्य तं कालवेगं क्रोधसंरक्तलोचनः ।
दुद्रावाभिमुखं रुद्रं चिक्षेप च सुदर्शनम् ॥ ३१.८१ ॥

अथ देवो महादेवस्त्रिपुरारिस्त्रिशूलभृत् ।
तमापतन्तं सावज्ञमालोकयदमित्रजित् ॥ ३१.८२ ॥

तदन्तरे महद्भूतं युगान्तदहनोपमम् ।
शूलेनोरसि निर्भिद्य पातयामास तं भुवि ॥ ३१.८३ ॥

स शूलाभिहतोऽत्यर्थं त्यक्त्वा स्वं परमं बलम् ।
तत्याज जीवितं दृष्ट्वा मृत्युं व्याधिहता इव ॥ ३१.८४ ॥

निहत्य विष्णुपुरुषं सार्धं प्रमथपुंगवैः ।
विवेश चान्तरगृहं समादाय कलेवरम् ॥ ३१.८५ ॥

निरीक्ष्य जगतो हेतुमीश्वरं भगवान् हरिः ।
शिरो ललाटात् संभिद्य रक्तधारामपातयत् ॥ ३१.८६ ॥

गृहाण भगवन् भिक्षां मदीयाममितद्युते ।
न विद्यतेऽन्या ह्युचिता तव त्रिपुरमर्दन ॥ ३१.८७ ॥

न सम्पूर्णं कपालं तद् ब्रह्मणः परमेष्ठिनः ।
दिव्यं वर्षसहस्रं तु सा च धारा प्रवाहिता ॥ ३१.८८ ॥

अथाब्रवीत् कालरुद्रं हरिर्नारायणः प्रभुः ।
संस्तूय वैदिकैर्मन्त्रैर्बहुमानपुरः सरम् ॥ ३१.८९ ॥

किमर्थमेतद् वदनं ब्रह्मणो भवता धृतम् ।
प्रोवाच वृत्तमखिलं भगवान् परमेश्वरः ॥ ३१.९० ॥

समाहूय हृषीकेशो ब्रह्महत्यामथाच्युतः ।
प्रार्थयामास देवेशो विमुञ्चेति त्रिशूलिनम् ॥ ३१.९१ ॥

न तत्याजाथ सा पार्श्वं व्याहृताऽपि मुरारिणा ।
चिरं ध्यात्वा जगद्योनिं शंकरं प्राह सर्ववित् ॥ ३१.९२ ॥

व्रजस्व भगवन् दिव्यां पुरीं वाराणसीं शुभाम् ।
यत्राखिलजगद्दोषात् क्षिप्रं नाशयतीश्वरः ॥ ३१.९३ ॥

ततः सर्वाणि भूतानि तीर्थान्यायतनानि च ।
जगाम लीलया देवो लोकानां हितकाम्यया ॥ ३१.९४ ॥

संस्तूयमानः प्रमथैर्महायोगैरितस्ततः ।
नृत्यमानो महायोगी हस्तन्यस्तकलेवरः ॥ ३१.९५ ॥

तमभ्यधावद् भगवान् हरिर्नारायणः प्रभुः ।
अथास्थायापरं रूपं नृत्यदर्शनलालसः ॥ ३१.९६ ॥

निरीक्षमाणो नोविन्दं वृषेन्द्राङ्कितशासनः ।
सस्मितोऽनन्तयोगात्मा नृत्यति स्म पुनः पुनः ॥ ३१.९७ ॥

अथ सानुचरो रुद्रः सहरिर्धर्मवाहनः ।
भेजे महादेवपुरीं वाराणसीति विश्रुताम् ॥ ३१.९८ ॥

प्रविष्टमात्रे देवेशे ब्रह्महत्या कपर्दिनि ।
हा हेत्युक्त्वा सनादं वै पातालं प्राप दुःखिता ॥ ३१.९९ ॥

प्रविश्य परमं स्थानं कपालं ब्रह्मणो हरः ।
गणानामग्रतो देवः स्थापयामास शंकरः ॥ ३१.१०० ॥

स्थापयित्वा महादेवो ददौ तच्च कलेवरम् ।
उक्त्वा सजीवमस्त्विति विष्णवेऽसौ घृणानिधिः ॥ ३१.१०१ ॥

ये स्मरन्ति ममाजस्रं कापालं वेषमुत्तमम् ।
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ ३१.१०२ ॥

आगम्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।
तर्पयित्वा पितॄन् देवान् मुच्यते ब्रह्महत्यया ॥ ३१.१०३ ॥

अशाश्वतं जगज्ज्ञात्वा येऽस्मिन् स्थाने वसन्ति वै ।
देहान्ते तत् परं ज्ञानं ददामि परमं पदम् ॥ ३१.१०४ ॥

इतीदमुक्त्वा भगवान् समालिङ्ग्य जनार्दनम् ।
सहैव प्रमथेशानैः क्षणादन्तरधीयत ॥ ३१.१०५ ॥

स लब्ध्वा भगवान् कृष्णो विष्वक्सेनं त्रिशूलिनः ।
स्वंदेशमगत् तूष्णीं गृहीत्वा परमं बुधः ॥ ३१.१०६ ॥

एतद् वः कथितं पुण्यं महापातकनाशनम् ।
कपालमोचनं तीर्थं स्थाणोः प्रियकरं शुभम् ॥ ३१.१०७ ॥

य इमं पठतेऽध्यायं ब्राह्मणानां समीपतः ।
वाचिकैर्मानसैः पापैः कायिकैश्च विमुच्यते ॥ ३१.१०८ ॥

ति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
एकत्रिशोऽध्यायः ॥३१ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे द्वात्रिंशत्तमोऽध्यायः

व्यास उवाच ।
सुरापस्तु सुरां तप्तामग्निवर्णां स्वयं पिबेत् ।
तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः ॥ ३२.१ ॥

गोमूत्रमग्निवर्णं वा गोशकृद्रसमेव वा ।
पयो घृतं जलं वाऽथ मुच्यते पातकात् ततः ॥ ३२.२ ॥

जलार्द्रवासाः प्रयतो ध्यात्वा नारायणं हरिम् ।
ब्रह्महत्याव्रतं चाथ चरेत् पापप्रशान्तये ॥ ३२.३ ॥

सुवर्णस्तेयकृद् विप्रो राजानमभिगम्य तु ।
स्वकर्म ख्यापयन् ब्रूयान्मा भवाननुशास्त्विति ॥ ३२.४ ॥

गृहीत्वा मुसलं राजा सकृद् हन्यात् ततः स्वयम् ।
वधे तु शुद्ध्यते स्तेनो ब्राह्मणस्तपसाथवा ॥ ३२.५ ॥

स्कन्धेनादाय मुसलं लकुडं वाऽपि खादिरम् ।
शक्तिंचादायतीक्ष्णाग्रामायसं दण्डमेव वा ॥ ३२.६ ॥

राजा तेन च गन्तव्यो मुक्तकेशेन धावता ।
आचक्षाणेन तत्पापमेवंकर्माऽस्मि शाधि माम् ॥ ३२.७ ॥

शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते ।
अशासित्वा तु तं राजास्तेनस्याप्नोति किल्बिषम् ॥ ३२.८ ॥

तपसापनोतुमिच्छस्तु सुवर्णस्तेयजं मलम् ।
चीरवासा द्विजोऽरण्ये चरेद् ब्रह्महणो व्रतम् ॥ ३२.९ ॥

स्नात्वाऽश्वमेधावभृथे पूतः स्यादथवा द्विजः ।
प्रदद्याद् वाऽथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम् ॥ ३२.१० ॥

चरेद् वा वत्सरं कृच्छ्रं ब्रह्मचर्यपरायणः ।
ब्राह्मणः स्वर्णहारी तु तत्पापस्यापनुत्तये ॥ ३२.११ ॥

गुरोर्भार्यां समारुह्य ब्राह्मणः काममोहितः ।
अवगूहेत् स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम् ॥ ३२.१२ ॥

स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्चलौ ।
आतिष्ठेद् दक्षिणामाशामानिपातादजिह्मगः ॥ ३२.१३ ॥

गुर्वह्गनागमः शुद्ध्यै चरेद् वा ब्रह्महणो व्रतम् ।
शाखां वा कण्टकोपेतां परिष्वज्याथ वत्सरम् ॥ ३२.१४ ॥

अधः शयीत नियतो मुच्यते गुरुतल्पगः ।
कृच्छ्रं वाब्दं चरेद् विप्रश्चीरवासाः समाहितः ॥ ३२.१५ ॥

अश्वमेधावभृथके स्नात्वा वा शुद्ध्यते नरः ।
कालेऽष्टमे वा भुञ्जानो ब्रह्मचारी सदाव्रती ॥ ३२.१६ ॥

स्थानाशनाभ्यां विहरंस्त्रिरह्नोऽभ्युपयत्नतः ।
अधः शायी त्रिभिर्वर्षैस्तद् व्यपोहति पातकम् ॥ ३२.१७ ॥

चान्द्रायणानि वा कुर्यात् पञ्च चत्वारि वा पुनः ।
पतितैः सम्प्रयुक्तात्मा अथ वक्ष्यामि निष्कृतिम् ॥ ३२.१८ ॥

पतितेन तु संसर्गं यो येन कुरुते द्विजः ।
स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत् ॥ ३२.१९ ॥

तप्तकृच्छ्रं चरेद् वाऽथ संवत्सरमतन्द्रितः ।
षाण्मासिके तु संसर्गे प्रायश्चित्तार्थंमाचरेत् ॥ ३२.२० ॥

एभिर्व्रतैरपोहन्ति महापातकिनो मलम् ।
पुण्यतीर्थाभिगमनात् पृथिव्यां वाऽथ निष्कृतिः ॥ ३२.२१ ॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
कृत्वा तैश्चापि संसर्गं ब्राह्मणः कामकारतः ॥ ३२.२२ ॥

कुर्यादनशनं विप्रः पुण्यतीर्थे समाहितः ।
ज्वलन्तं वा विशेदग्निं ध्यात्वा देवं कपर्दिनम् ॥ ३२.२३ ॥

न ह्यन्या निष्कृतिर्दृष्टा मुनिभिर्धर्मवादिभिः ।
तस्मात् पुण्येषु तीर्थेषु दहन्वापि स्वदेहकम् ॥ ३२.२४ ॥

इति श्री कूर्मपुराणे द्वात्रिंशोऽध्यायः ॥३२ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे त्रयस्त्रिंशत्तमोऽध्यायः

गत्वा दुहितरं विप्रः स्वसारं वा स्नुषामपि ।
प्रविशेज्ज्वलनं दीप्तं मतिपूर्वमिति स्थितिः ॥ ३३.१ ॥

मातृष्वसां मातुलानीं तथैव च पितृष्वसाम् ।
भागिनेयीं समारुह्य कुर्यात् कृच्छ्रातिकृच्छ्रकौ ॥ ३३.२ ॥

चान्द्रायणं च कुर्वीत तस्य पापस्य शान्तये ।
ध्यायन् देवं जगद्योनिमनादिनिधनं परम् ॥ ३३.३ ॥

भ्रातृभार्यां समारुह्य कुर्यात् तत्पापशान्तये ।
चान्द्रायणानि चत्वारि पञ्च वा सुसमाहितः ॥ ३३.४ ॥

पैतृष्वस्त्रेयीं गत्वा तु स्वस्त्रीयां मातुरेव च ।
मातुलस्य सुतां वाऽपि गत्वा चान्द्रायणं चरेत् ॥ ३३.५ ॥

सखिभार्यां समारुह्य गत्वा श्यालीं तथैव च ।
अहोरात्रोषितो भूत्वा ततः कृच्छ्रं समाचरेत् ॥ ३३.६ ॥

उदक्यागमने विप्रस्त्रिरात्रेण विशुध्यति ।
चाण्डालीगमने चैव तप्तकृच्छ्रत्रयं विदुः ॥ ३३.७ ॥

शुद्धि सांतपनेनास्यान्नान्यथा निष्कृतिः स्मृता ।
मातृगोत्रां समारुह्य समानप्रवरां तथा ॥ ३३.८ ॥

चाद्रायणेन शुध्येत प्रयतात्मा समाहितः ।
ब्राह्मणो ब्राह्मणीं गत्वा गृच्छ्रमेकं समाचरेत् ॥ ३३.९ ॥

कन्यकान् दूषयित्वा तु चरेच्चान्द्रायणव्रतम् ।
अमानुषीषु पुरुष उदक्यायामयोनिषु ॥ ३३.१० ॥

रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ।
वार्द्धिकीगमने विप्रस्त्रिरात्रेण विशुद्ध्यति ॥ ३३.११ ॥

गवि मैथुनमासेव्य चरेच्चान्द्रायणव्रतम् ।
वेश्यायां मैथुनं कृत्वा प्राजापत्यं चरेद् द्विजः ॥ ३३.१२ ॥

पतितां च स्त्रियं गत्वा त्रिभिः कृच्छ्रैर्विशुद्ध्यति ।
पुल्कसीगमने चैव क्रच्छ्रं चान्द्रायणं चरेत् ॥ ३३.१३ ॥

नटीं शैलूषकीं चैव रजकीं वेणुजीविनीम् ।
गत्वा चान्द्रायणं कुर्यात् तथा चर्मोपजीविनीम् ॥ ३३.१४ ॥

ब्रहमचारी स्त्रियं गच्छेत् कथञ्चित्काममोहितः ।
सप्तागारं चरेद् भैक्षं वसित्वा गर्दभाजिनम् ॥ ३३.१५ ॥

उपस्पृशेत् त्रिषवणं स्वपापं परिकीर्त्तयन् ।
संवत्सरेण चैकेन तस्मात् पापात् प्रमुच्यते ॥ ३३.१६ ॥

ब्रह्महत्याव्रतश्चापि षण्मासानाचरेद् यमी ।
मुच्यते ह्यवकीर्णी तु ब्राह्मणानुमते स्थितः ॥ ३३.१७ ॥

सप्तरात्रमकृत्वा तु भैक्षचर्याग्निपूजनम् ।
रेतसश्च समुत्सर्गे प्रायश्चित्तं समाचरेत् ॥ ३३.१८ ॥

ओंकारपूर्विकाभिस्तु महाव्याहृतिभिः सदा ।
संवत्सरं तु भुञ्जानो नक्तं भिक्षाशनः शुचिः ॥ ३३.१९ ॥

सावित्रीं च जपेच्चैव नित्यं क्रोधविवर्जितः ।
नदीतीरेषु तीर्थेषु तस्मात् पापाद् विमुच्यते ॥ ३३.२० ॥

हत्वा तु क्षत्रियं विप्रः कुर्याद् ब्रह्महणो व्रतम् ।
अकामतो वै षण्मासान् दद्यान् पञ्चशतं गवाम् ॥ ३३.२१ ॥

अब्दं चरेद्यानयतो वनवासी समाहितः ।
प्राजापत्यं सान्तपनं तप्तकृच्छ्रं तु वा स्वयम् ॥ ३३.२२ ॥

प्रमादात्कामतो वैश्यं कुर्यात् संवत्सरत्रयम् ।
गोसहस्रन्तु पादं च दद्याद् ब्रह्महणो व्रतम् ॥ ३३.२३ ॥

कृच्छ्रातिकृच्छ्रौ वा कुर्याच्चान्द्रायणमथावि वा ।
संवत्सरं व्रतं कुर्याच्छूद्रं हत्वा प्रमादतः ॥ ३३.२४ ॥

गोसहस्रार्द्धपादं च दद्यात् तत्पापशान्तये ।
अष्टौ वर्षाणि वा त्रीणि कुर्याद् ब्रह्महणो व्रतम् ।
हत्वा तु क्षत्रियं वैश्यं शूद्रं चैव यथाक्रमम् ॥ ३३.२५ ॥

निहत्य ब्राह्मणीं विप्रस्त्वष्टवर्षं व्रतं चरेत् ।
राजन्यां वर्षषट्कं तु वैश्यां संवत्सरत्रयम् ॥ ३३.२६ ॥

वत्सरेण विशुद्ध्येत शूदीं हत्वा द्विजोत्तमः ।
वैश्यां हत्वा द्विजातिस्तु किञ्चिद् दद्याद् द्विजातये ॥ ३३.२७ ॥

अन्त्यजानां वधे चैव कुर्याच्चान्द्रायणं व्रतम् ।
पराकेणाथवा शुद्धिरित्याह भगवानजः ॥ ३३.२८ ॥

मण्डूकं नकुलं काकं बिडालं खरमूषकौ ।
श्वानं हत्वा द्विजः कुर्यात् षोडशांशं व्रतं ततः ॥ ३३.२९ ॥

पयः पिबेत् त्रिरात्रं तु श्वानं हत्वा ह्ययन्त्रितः ।
मार्जारं वाऽथ नकुलं योजनं वाध्वनो व्रजेत् ॥ ३३.३० ॥

कृच्छ्रं द्वादशरात्रं तु कुर्यादश्ववधे द्विजः ।
अर्च्चां कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ॥ ३३.३१ ॥

पलालभारकं षण्डे सीसकं चैकमाषकम् ।
धृतकुम्भं वराहे तु तिलद्रोणं च तित्तिरे ॥ ३३.३२ ॥

शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ।
हत्वा हंसं बलाकां च बकं बर्हिणमेव च ॥ ३३.३३ ॥

वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ।
क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ॥ ३३.३४ ॥

अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ।
किञ्चिद्देयन्तु विप्राय दद्यादस्थिमतां वधे ॥ ३३.३५ ॥

अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ।
फलदानां तु वृक्षाणां छेदने जप्यमृक्षतम् ॥ ३३.३६ ॥

गुल्मवल्लीलतानां तु पुष्पितानां च वीरुधाम् ।
अन्येषां चैव वृक्षाणां सरसानां च सर्वशः ॥३३.३७ ॥

फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ।
हस्तिनां च वधे दृष्टं तप्तकृच्छ्रं विशोधनम् ॥ ३३.३८ ॥

चान्द्रायणं पराकं वा गां हत्वा तु प्रमादतः ।
मतिपूर्ववधे चास्याः प्रायश्चित्तं न विद्यते ॥ ३३.३९ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
त्रयस्त्रिंशोऽध्यायः ॥३३ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे चतुस्त्रिंशत्तमोऽध्यायः

व्यास उवाच ।
मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च ।
वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु ॥ ३४.१ ॥

द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मनः ।
चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ ३४.२ ॥

धान्यान्नधनचौर्यं तु कृत्वा कामाद् द्विजोत्तमः ।
स्वजातीयगृहादेव कृच्छ्रार्द्धेन विशुद्ध्यति ॥ ३४.३ ॥

भक्ष्यभोज्योपहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ ३४.४ ॥

तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ ३४.५ ॥

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयः स्कांतोपलानां च द्वादशाहं काणाशनम् ॥ ३४.६ ॥

कार्पासकीटजोर्णानां द्विशफैकशफस्य च ।
पुष्पगन्धौषधीनां च पिबेच्चैव त्र्यहं पयः ॥ ३४.७ ॥

नरमांसाशनं कृत्वा चान्द्रायणमथाचरेत् ।
काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च ॥ ३४.८ ॥

वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति ।
क्रव्यादानां च मांसानि पुरीषं मूत्रमेव च ॥ ३४.९ ॥

गोगोमायुकपीनां च तदेव व्रतमाचरेत् ।
शिशुमारं तथाचाषं मत्यमांसं तथैव च ॥३४.१० ॥

उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद् घृतम् ।
नकुलोलूकमार्जारं जग्ध्वा सांतपनं चरेत् ॥ ३४.११ ॥

श्वापदोष्ट्रखराञ्जग्ध्वा तप्तकृच्छ्रेण शुद्ध्यति ।
व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु ॥ ३४.१२ ॥

बकं चैव बलाकाञ्च हंसं कारण्डवं तथा ।
चक्रवाकपलं जग्घ्वा द्वादशाहमभोजनम् ॥ ३४.१३ ॥

कपोतं टिट्टिभाञ्चैव शुकं सारसमेव च ।
उलूकं जालपादं च जग्ध्वाऽप्येतद् व्रतं चरेत् ॥ ३४.१४ ॥

शिशुमारं तथा चाषं मत्स्यमांसं तथैव च ।
जग्ध्वा चैव कटाहारमेतदेव चरेद् व्रतम् ॥ ३४.१५ ॥

कोकिलं चैव मत्स्यांश्च मण्डुकं भुजगं तथा ।
गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ ३४.१६ ॥

जलेचरांश्च जलजान् प्रणुदानथविष्किरान् ।
रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् ॥ ३४.१७ ॥

शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् ।
भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये ॥ ३४.१८ ॥

वृन्ताकं भुस्तृणं शिग्रुं कुभाण्डं करकं तथा ।
प्राजापत्यं चरेज्जग्ध्वा खड्गं कुम्भीकमेव च ॥ ३४.१९ ॥

पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् ।
नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति ॥ ३४.२० ॥

अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुद्ध्यति ।
प्राजापत्येन शुद्धिः स्यात् कुसुम्भस्य च भक्षणे ॥ ३४.२१ ॥

अलाबु किंशुकं चैव भुक्त्वा चैतद् व्रतं चरेत् ।
उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति ॥

वृथा कृसरसंयावं पायसापूपसंकुलम् ।
भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति ॥

पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः ।
गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥

अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च ।
संधिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत् ।
एतेषां च विकाराणि पीत्वा मोहेन वा पुनः ॥ ३४.२२ ॥

गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति ।
भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा ॥ ३४.२३ ॥

चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः ।
यस्याग्नौ हूयते नित्यमन्नस्याग्रं न दीयते ॥ ३४.२४ ॥

चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः ।
अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् ॥ ३४.२५ ॥

अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति ॥

चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् ॥ ३४.२६ ॥

बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च ।
असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् ॥ ३४.२७ ॥

अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति ।
विण्मूत्रप्राशनं कृत्वा रेतसश्चैतदाचरेत् ॥ ३४.२८ ॥

अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः ।
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ॥ ३४.२९ ॥

प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ।
अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ॥ ३४.३० ॥

पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।
क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम् ॥ ३४.३१ ॥

महासांतपनं मोहात् तथा कुर्याद् द्विजोत्तमः ।
भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत् ॥ ३४.३२ ॥

प्राजापत्येन शुद्ध्येत ब्राहामणोच्छिष्टभोजने ।
क्षत्रिये तप्तकृच्छ्रं स्याद् वैश्ये चैवातिकृच्छ्रकम् ॥ ३४.३३ ॥

शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम् ।
सुराभाण्डोदरे वारि पीत्वा चान्द्रायणं चरेत् ॥ ३४.३४ ॥

समुच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुद्ध्यति ।
गोमूत्रयावकाहारः पीतशेषं च वा गवाम् ॥ ३४.३५ ॥

अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद् यदा ।
तदा सांतपनं प्रोक्तं व्रतं पापविशोधनम् ॥ ३४.३६ ॥

चाण्डालकूपभाण्डेषु यदि ज्ञानात् पिबेज्जलम् ।
चरेत् सांतपनं कृच्छ्रं ब्राह्मणः पापशोधनम् ॥ ३४.३७ ॥

चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः ।
त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि ॥ ३४.३८ ॥

महापातकिसंस्पर्शे भुक्त्वा स्नात्वा द्विजो यदि ।
बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत् ॥ ३४.३९ ॥

स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् ।
प्रमादाद् भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति ॥ ३४.४० ॥

स्नानार्हो यदि भुञ्जीत अहोरात्रेण शुद्ध्यति ।
बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः ॥ ३४.४१ ॥

शुष्कपर्युषितादीनि गवादिप्रतिदूषिताः ।
भुक्त्वोपवासं कुर्वीत कृच्छ्रपादमथापि वा ॥ ३४.४२ ॥

संवत्सरान्ते कृच्छ्रं तु चरेद् विप्रः पुनः पुनः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ ३४.४३ ॥

व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च ।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ ३४.४४ ॥

ब्राह्मणादिहतानां तु कृत्वा दाहादिकाः क्रियाः ।
गोमूत्रयावकाहारः प्राजापत्येन शुद्ध्यति ॥ ३४.४५ ॥

तैलाभ्यक्तोऽथवा कुर्याद् यदि मूत्रपुरीषके ।
अहोरात्रेण शुद्ध्येत श्मश्रुकर्माणि मैथुने ॥ ३४.४६ ॥

एकाहेन विहायाग्निं परिहार्य द्विजोत्तमः ।
त्रिरात्रेण विशद्ध्येत त्रिरात्रात् षडहं पुनः ॥ ३४.४७ ॥

दशाहं द्वादशाहं वा परिहार्य प्रमादतः ।
कृच्छ्रं चान्द्रायणं कुर्यात् तत्पापस्यापनुत्तये ॥ ३४.४८ ॥

पतिताद् द्रव्यमादाय तदुत्सर्गेण शुद्ध्यति ।
चरेत् सांतपनं कृच्छ्रमित्याह भगवान् मनुः ॥ ३४.४९ ॥

अनाशकान्निवृत्तास्तु प्रव्रज्यावसितास्तथा ।
चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥ ३४.५० ॥

पुनश्च जातकर्मादिसंस्कारैः संस्कृता द्विजाः ।
शुद्ध्येयुस्तद् व्रतं सम्यक् चरेयुर्धर्मवर्द्धनाः ॥ ३४.५१ ॥

अनुपासितसंध्यस्तु तदहर्यावके वसेत् ।
अनश्नन् संयतमना रात्रौ चेद् रात्रिमेव हि ॥ ३४.५२ ॥

अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः ।
गायत्र्यष्टसहस्रस्य जप्यं कुर्याद् विशुद्धये ॥ ३४.५३ ॥

उपवासी चरेत् संध्यां गृहस्थोऽपि प्रमादतः ।
स्नात्वा विशुद्ध्यते सद्यः परिश्रान्तस्तु संयमात् ॥ ३४.५४ ॥

वेदोदितानि नित्यानि कर्माणि च विलोप्य तु ।
स्नातकव्रतलोपं तु कृत्वा चोपवसेद् दिनम् ॥ ३४.५५ ॥

संवत्सरं चरेत् कृच्छ्रमन्योत्सादी द्विजोत्तमः ।
चान्द्रायणं चरेद् व्रात्यो गोप्रदानेन शुद्ध्यति ॥ ३४.५६ ॥

नास्तिक्यं यदि कुर्वीत प्राजापत्यं चरेद् द्विजः ।
देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुद्ध्यति ॥ ३४.५७ ॥

उष्ट्रयानं समारुह्य खरयानं च कामतः ।
त्रिरात्रेण विशुद्ध्येत् तु नग्नो वा प्रविशेज्जलम् ॥ ३४.५८ ॥

षष्ठान्नकालतामासं संहिताजप एव च ।
होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥ ३४.५९ ॥

नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि ।
अहोरात्रोषितः स्नातः पञ्चगव्येन शुद्ध्यति ॥ ३४.६० ॥

वेदधर्मपुराणानां चण्डालस्य तु भाषणे ।
चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥ ३४.६१ ॥

उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित् ।
चान्द्रायणेन शुद्धिः स्यात् प्राजापत्येन वा पुनः ॥ ३४.६२ ॥

उच्छिष्टो यद्यनाचान्तश्चाण्डालादीन् स्पृशेद् द्विजः ।
प्रमादाद् वै जपेत् स्नात्वा गायत्र्यष्टसहस्रकम् ॥ ३४.६३ ॥

द्रुपदानां शतं वापि ब्रह्मचारी समाहितः ।
त्रिरात्रोपोषितः सम्यक् पञ्चगव्येन शुद्ध्यति ॥ ३४.६४ ॥

चण्डालपतितादींस्तु कामाद् यः संस्पृशेद् द्विजः ।
उच्छिष्टस्तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥ ३४.६५ ॥

चाण्डालसूतकशवांस्तथा नारीं रजस्वलाम् ।
स्पृष्ट्वा स्नायाद् विशुद्ध्यर्थं तत्स्पृष्टपतितितास्तथा ॥ ३४.६६ ॥

चाण्डालसूतकशवैः संस्पृष्टं संस्पृशेद् यदि ।
प्रमादात् तत आचम्य जपं कुर्यात् समाहितः ॥ ३४.६७ ॥

तत् स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः ।
आचमेत् तद् विशुद्ध्यर्थं प्राह देवः पितामहः ॥ ३४.६८ ॥

भुञ्जानस्य तु विप्रस्य कदाचित् संस्पृशेत् यदि ।
कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद् व्रतम् ॥ ३४.६९ ॥

चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद् विशुद्धये ।
स्पृष्ट्वाऽभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति ॥ ३४.७० ॥

सुरां स्पृष्ट्वा द्विजः कुर्यात् प्राणायामत्रयं शुचिः ।
पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥ ३४.७१ ॥

ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् ।
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ ३४.७२ ॥

स्यादेतत् त्रिगुणं बाह्वोर्मूर्ध्नि च स्याच्चतुर्गुणम् ।
स्नात्वा जपेद् वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः ॥ ३४.७३ ॥

अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते तु द्विजोत्तमः ।
अनातुरः सति धने कृच्छ्रार्द्धेन स शुद्ध्यति ॥ ३४.७४ ॥

आहिताग्निरुपस्थानं न कुर्याद् यस्तु पर्वणि ।
ऋतौ न गच्छेद् भार्यां वा सोऽपि कृच्छ्रार्द्धमाचरेत् ॥ ३४.७५ ॥

विनाऽद्भिरप्सु नाप्यार्त्तः शरीरं सन्निवेश्य च ।
सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति ॥ ३४.७६ ॥

बुद्धिपूर्वं त्वभ्युदितो जपेदन्तर्जले द्विजः ।
गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद् व्रती ॥ ३४.७७ ॥

अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः ।
गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च ॥ ३४.७८ ॥

कृत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम् ।
सचैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम् ॥ ३४.७९ ॥

पङ्क्त्यां विषमदानं तु कृत्वा कृच्छ्रेण शुद्ध्यति ।
छायां श्वपाकस्यारुह्य स्नात्वा सम्प्राशयेद् घृतम् ॥ ३४.८० ॥

ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा ।
मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति ॥ ३४.८१ ॥

कृत्वा तु मिथ्याध्ययनं चरेद् भैक्षं तु वत्सरम् ।
कृतघ्नो ब्राह्मणगृहे पञ्च संवत्सरं व्रती ॥ ३४.८२ ॥

हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः ।
स्नात्वाऽनश्नन्नहः शेषं प्रणिपत्य प्रसादयेत् ॥ ३४.८३ ॥

ताडयित्वा तृणेनापि कण्ठं बद्ध्वापि वाससा ।
विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ ३४.८४ ॥

अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ३४.८५ ॥

गुरोराक्रोशमनृतं कृत्वा कुर्याद् विशोधनम् ।
एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये ॥ ३४.८६ ॥

देवर्षीणामभिमुखं ष्ठीवनाक्रोशने कृते ।
उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम् ॥ ३४.८७ ॥

देवोद्याने तु यः कुर्यान्मूत्रोच्चारं सकृद् द्विजः ।
छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा ॥ ३४.८८ ॥

देवतायतने मूत्रं कृत्वा मोहाद् द्विजोत्तमः ।
शिश्नस्योत्कर्त्तनं कृत्वा चान्द्रायणमथाचरेत् ॥ ३४.८९ ॥

देवतानामृषीणां च देवानां चैव कुत्सनम् ।
कृत्वा सम्यक् प्रकुर्वीत प्राजापत्यं द्विजोत्तमः ॥ ३४.९० ॥

तैस्तु संभाषणं कृत्वा स्नात्वा देवान् समर्चयेत् ।
दृष्ट्वा वीक्षेत भास्वन्तं स्मृत्वा विशेश्वरं स्मरेत् ॥ ३४.९१ ॥

यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति ।
न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैरपि ॥ ३४.९२ ॥

चान्द्रायणं चरेत् पूर्वं कृच्छ्रं चैवातिकृच्छ्रक् ।
प्रपन्नः शरणं देवं तस्मात् पापाद् विमुच्यते ॥ ३४.९३ ॥

सर्वस्वदानं विधिवत् सर्वपापविशोधन ।
चान्द्रायणं चविधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥ ३४.९४ ॥

पुण्यक्षेत्राभिगमनं सर्वपापविनाशन ।
अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम् ॥ ३४.९५ ॥

ब्राह्मणान् पूजयित्वा तु सर्वपापैः प्रमुच्यते ॥ ३४.९६ ॥

कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् ।
सम्पूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥ ३४.९७ ॥

त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् ।
दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥ ३४.९८ ॥

उपोषितश्चतुर्दश्यां कृष्णपक्षे समाह४४तः ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ ३४.९९ ॥

वैवस्वताय कालाय सर्वप्रहरणाय च ।
प्रत्येकं तिलसंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् ॥ ३४.१०० ॥

स्नात्वा दद्याच्च पूर्वाह्णे मुच्यते सर्वपातकैः ।
ब्रह्मचर्यमधः शय्यामुपवासं द्विजार्चनम् ॥ ३४.१०१ ॥

व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः ।
अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम् ॥ ३४.१०२ ॥

ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः ।
षष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः ॥ ३४.१०३ ॥

सप्तम्यामर्चयेद् भानुं मुच्यते सर्वपातकैः ।
भरण्यां च चतुर्थ्यां च शनैश्चरदिने यमम् ॥ ३४.१०४ ॥

पूजयेत् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः ॥

एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ॥ ३४.१०५ ॥

द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ।
तपो जपस्तीर्थसेवा देवब्राह्मणपूजनं ३४४.१०६ ॥

ग्रहणादिषु कालेषु महापातकशोधनम् ।
यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः ॥ ३४.१०७ ॥

नियमेन त्यजेत् प्राणान् स मुच्येत् सर्वपातकैः ।
ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ॥ ३४.१०८ ॥

भर्त्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् ।
एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः ॥ ३४.१०९ ॥

सर्वपापसमुद्भूतौ नात्र कार्या विचारणा ।
पतिव्रता तु या नारी भर्तृशुश्रूषणोत्सुका ।
न तस्या विद्यते पापमिह लोके परत्र च ॥ ३४.११० ॥

पतिव्रता धर्मरता भद्राण्येव सभेत् सदा ।
नास्याः पराभवं कर्त्तुं शक्नोतीह जनः क्वचित् ॥ ३४.१११ ॥

यथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता ।
पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ ३४.११२ ॥

रामस्य भार्यां विमलां रावणो राक्षसेश्वरः ।
सीतां विशालनयनां चकमे कालचोदितः ॥ ३४.११३ ॥

गृहीत्वा मायया वेषं चरन्तीं विजने वने ।
समाहर्त्तुं मतिं चक्रे तापसः किल कामिनीम् ॥ ३४.११४ ॥

विज्ञाय सा च तद्भावं स्मृत्वा दाशरथिं पतिम् ।
जगाम शरणं वह्निमावसथ्यं शुचिस्मितः ॥ ३४.११५ ॥

उपतस्थे महायोगं सर्वदोषविनाशनम् ।
कृताञ्जली रामपत्नी शाक्षात् पतिमिवाच्युतम् ॥ ३४.११६ ॥

नमस्यामि महायोगं कृतान्तं गहनं परम् ।
दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ ३४.११७ ॥

नमस्ये पावकं देवं शाश्वतं विश्वतोमुखम् ।
योगनं कृत्तिवसनं भूतेशं परमम्पदम् ॥३४.११८ ॥

आत्मानं दीप्तवपुषं सर्वभूतहृदी स्थितम् ।
तं प्रपद्ये जगन्मूर्त्तिं प्रभवं सर्वतेजसाम् ।
महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम् ॥ ३४.११९ ॥

प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् ।
कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ ३४.१२० ॥

प्रपद्ये त्वां विरूपाक्षं भुर्भुवः स्वः स्वरूपिणम् ।
हिरण्यमये गृहे गुप्तं महान्तममितौजसम् ॥ ३४.१२१ ॥

वैश्वानरं प्रपद्येऽहं सर्वभूतेष्ववस्थितम् ।
हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ ३४.१२२ ॥

प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः शिवम् ।
भार्गवाग्निपरं ज्योतिः रक्ष मां हव्यवाहन ॥ ३४.१२३ ॥

इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी ।
ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ ३४.१२४ ॥

अथावसथ्याद् भगवान् हव्यवाहो महेश्वरः ।
आविरासीत् सुदीप्तात्मा तेजसा निर्दहन्निव ॥ ३४.१२५ ॥

सृष्ट्वा मायामयीं सीतां स रावणवधेप्सया ।
सीतामादाय धर्मिष्ठां पावकोऽन्तरधीयत ॥ ३४.१२६ ॥

तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः ।
समादाय ययौ लङ्कां सागरान्तरसंस्थिताम् ॥ ३४.१२७ ॥

कृत्वाऽथ रावणवधं रामो लक्ष्मणसंयुतः ।
समादायाभवत् सीतां शङ्काकुलितमानसः ॥ ३४.१२८ ॥

सा प्रत्ययाय भूतानां सीता मायामयी पुनः ।
विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् ॥ ३४.१२९ ॥

दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः ।
रामायादर्शयत् सीतां पावकोऽभूत् सुरप्रियः ॥ ३४.१३० ॥

प्रगृह्य भर्त्तुश्चरणौ कराभ्यां सा सुमध्यमा ।
चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ ३४.१३१ ॥

दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः ।
ननाम वह्निं सिरसा तोषयामास राघवः ॥ ३४.१३२ ॥

उवाच वह्निर्भगवान् किमेषा वरवर्णिनी ।
दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता ॥ ३४.१३३ ॥

तमाह देवो लोकानां दाहको हव्यवाहनः ।
यथावृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ ३४.१३४ ॥

इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम् ।
आराध्य लब्ध्वा तपसा देव्याश्चात्यन्तवल्लभा ॥ ३४.१३५ ॥

भर्त्तुः शुश्रूषणोपेता सुशीलेयं पतिव्रता ।
भवानीपार्श्वमानीता मया रावणकामिता ॥ ३४.१३६ ॥

या नीता राक्षसेशेन सीता भगवताहृता ।
मया मायामयी सृष्टा रावणस्य वधाय सा ॥ ३४.१३७ ॥

तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः ।
मयोपसंहृता चैव हतो लोकविनाशनम् ॥ ३४.१३८ ॥

गृहाण विमलामेनां जानकीं वचनान्मम ।
पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम् ॥ ३४.१३९ ॥

इत्युक्त्वा भगवांश्चण्डो विश्चार्चिर्विश्वतोमुखः ।
मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत ॥ ३४.१४० ॥

एतत् पतिव्रतानां वैं माहात्म्यं कथितं मया ।
स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम् ॥ ३४.१४१ ॥

अशेषपापयुक्तस्तु पुरुषोऽपि सुसंयतः ।
स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात् ॥ ३४.१४२ ॥

पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः ।
मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः ॥ ३४.१४३ ॥

व्यास उवाच ।
इत्येष मानवो धर्मो युष्माकं कथितो मया ।
महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम् ॥ ३४.१४४ ॥

योऽनेन विधिना युक्तो ज्ञानयोगं समाचरेत् ।
स पश्यति महादेवं नान्यः कल्पशतैरपि ॥ ३४.१४५ ॥

स्थापयेद् यः परं धर्मं ज्ञानं तत्पारमेश्वरम् ।
न तस्मादधिको लोके स योगी परमो मतः ॥ ३४.१४६ ॥

य संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः ।
स योगयुक्तोऽपि मुनिर्नात्यर्थं भगवत्प्रियः ॥ ३४.१४७ ॥

तस्मात् सदैव दातव्यं ब्राह्मणेषु विशेषतः ।
धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै ॥ ३४.१४८ ॥

यः पठेद् भवतां नित्यं संवादं मम चैव हि ।
सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम् ॥ ३४.१४९ ॥

श्राद्धे वा दैविके कार्ये ब्राह्मणानां च सन्निधौ ।
पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः ॥ ३४.१५० ॥

योऽर्थं विचार्य युक्तात्मा श्रावयेद् ब्राह्मणान् शुचीन् ।
स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम् ॥ ३४.१५१ ॥

एतावदुक्त्वा भगवान् व्यासः सत्यवतीसुतः ।
समाश्वास्य मुनीन् सूतं जगाम च यथागतम् ॥ ३४.१५२ ॥

इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
त्रयस्त्रिशोऽध्यायः ॥३४ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे पञ्चत्रिंशत्तमोऽध्यायः

ऋषय ऊचुः ।
तीर्थानि यानि लोकेऽस्मिन् विश्रुतानि माहन्ति च ।
तानि त्वं कथयास्माकं रोमहर्षण सांप्रतम् ॥ ३५.१ ॥

रोमहर्षण उवा ।
श‍ृणुध्वं कथयिष्येऽहं तीर्थानि विविधानि च ।
कथितानि पुराणेषु मुनिभिर्ब्रह्मवादिभिः ॥ ३५.२ ॥

यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् ।
एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम् ॥ ३५.३ ॥

पञ्चयोजनविस्तीर्णं ब्रह्मणः परमेष्ठिनः ।
प्रयागं प्रथितं तीर्थं तस्य माहात्म्यमीरितम् ॥ ३५.४ ॥

अन्यच्च तीर्थप्रवरं कुरूणां देववन्दितम् ।
ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम् ॥ ३५.५ ॥

तत्र स्नात्वा विशुद्धात्मा दम्भमात्सर्यवर्जितः ।
ददाति यत्किञ्चिदपि पुनात्युभयतः कुलम् ॥ ३५.६ ॥

गयातीर्थं परं गुह्यं पितॄणां चाति दुर्ल्लभम् ।
कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः ॥ ३५.७ ॥

सकृद् गयाभिगमनं कृत्वा पिण्डं ददाति यः ।
तारिताः पितरस्तेन यास्यन्ति परमां गतिम् ॥ ३५.८ ॥

तत्र लोकहितार्थाय रुद्रेण परमात्मना ।
शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत् ॥ ३५.९ ॥

गयाऽभिगमनं कर्त्तुं यः शक्तो नाभिगच्छति ।
शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः ॥ ३५.१० ॥

गायन्ति पितरो गाथाः कीर्त्तयन्ति महर्षयः ।
गयांयास्यतियः कश्चित् सोऽस्मान् संतारयिष्यति ॥ ३५.११ ॥

यदि स्यात् पातकोपेतः स्वधर्मपरिवर्जितः ।
गयां यास्यति वंश्यो यः सोऽस्मान् संतारयिष्यति ॥ ३५.१२ ॥

एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।
तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् ॥ ३५.१३ ॥

तस्मात् सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः ।
प्रदद्याद् विधिवत् पिण्डान् गयां गत्वा समाहितः ॥ ३५.१४ ॥

गधन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः ।
कुलान्युभयतः सप्त समुद्धृत्याप्नुयुः परम् ॥ ३५.१५ ॥

अन्यच्च तीर्थप्रवरं सिद्धावासमुदाहृतम् ।
प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः ॥ ३५.१६ ॥

तत्र स्नानं तपः श्राद्धं ब्राह्मणानां च पूजनम् ।
कृत्वा लोकमवाप्नोति ब्रह्मणोऽक्षय्यमुत्तमम् ॥ ३५.१७ ॥

तीर्थं त्रैयम्बकं नाम सर्वदेवनमस्कृतम् ।
पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत् ॥ ३५.१८ ॥

सुवर्णाक्षं महादेवं समभ्यर्च्य कपर्दिनम् ।
ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद् ध्रुवम् ॥ ३५.१९ ॥

सोमेश्वरं तीर्थवरं रुद्रस्य परमेष्ठिनः ।
सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम् ॥ ३५.२० ॥

तीर्थानां परमं तीर्थं विजयं नाम शोभनम् ।
तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम् ॥ ३५.२१ ॥

षण्मासनियताहारो ब्रह्मचारी समाहितः ।
उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम् ॥ ३५.२२ ॥

अन्यच्च तीर्थप्रवरं पूर्वदेशेषु शोभनम् ।
एकान्तं देवदेवस्य गाणपत्यफलप्रदम् ॥ ३५.२३ ॥

दत्त्वात्र शिवभक्तानां किञ्चिच्छश्वन्महीं शुभाम् ।
सार्वभौमो भवेद् राजा मुमुक्षुर्मोक्षमाप्नुयात् ॥ ३५.२४ ॥

महानदीजलं पुण्यं सर्वपापविनाशनम् ।
ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः ॥ ३५.२५ ॥

अन्या च विरजा नाम नदी त्रैलोक्यविश्रुता ।
तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते ॥ ३५.२६ ॥

तीर्थं नारायणस्यान्यन्नाम्ना तु पुरुषोत्तमम् ।
तत्र नारायणः श्रीमानास्ते परमपूरुषः ॥ ३५.२७ ॥

पूजयित्वा परं विष्णुं स्नात्वा तत्र द्विजोत्तमः ।
ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात् ॥ ३५.२८ ॥

तीर्थानां परमं तीर्थं गोकर्णं नाम विश्रुतम् ।
सर्वपापहरं शंभोर्निवासः परमेष्ठिनः ॥ ३५.२९ ॥

दृष्ट्वा लिंङ्गं तु देवस्य गोकर्णेश्वरमुत्तमम् ।
ईप्सिताँल्लभते कामान् रुद्रस्य दयितो भवेत् ॥ ३५.३० ॥

उत्तरं चापि गोकर्णं लिङ्गं देवस्य शूलिनः ।
महादेवं अर्चयित्वा शिवसायुज्यमाप्नुयात् ॥ ३५.३१ ॥

तत्र देवो महादेवः स्थाणुरित्यभिविश्रुतः ।
तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः ॥ ३५.३२ ॥

अन्यत् कुब्जाम्रमतुलं स्थानं विष्णोर्महात्मनः ।
सम्पूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते ॥ ३५.३३ ॥

यत्र नारायणो देवो रुद्रेण त्रिपुरारिणा ।
कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः ॥ ३५.३४ ॥

समन्ताद् योजनं क्षेत्रं सिद्धर्षिगणवन्दितम् ।
पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः ॥ ३५.३५ ॥

अन्यत् कोकामुखे विष्णोस्तीर्थमद्भुतकर्मणः ।
मृतोऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात् ॥ ३५.३६ ॥

शालग्रामं महातीर्थं विष्णोः प्रीतिविवर्धनम् ।
प्राणांस्तत्र नरस्त्यक्त्वा हृषीकेषं प्रपश्यति ॥ ३५.३७ ॥

अश्वतीर्थमिति ख्यातं सिद्धावासं सुपावनम् ।
आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम् ॥ ३५.३८ ॥

तीर्थं त्रैलोक्यविख्यातं सिद्दवासं सुशोबनम् ।
तत्रास्ति पुण्यदं तीर्थं ब्रह्मणः परमेष्टिनः ॥३५.३९ ॥

पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम् ।
मनसा संस्मरेद् यस्तु पुष्करं वै द्विजोत्तमः ॥ ३५.४० ॥

पूयते पातकैः सर्वैः शक्रेण सह मोदते ।
तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ॥ ३५.४१ ॥

उपासते सिद्धसङ्घा ब्रह्माणं पद्मसंभवम् ।
तत्र स्नात्वा भवेच्छुद्धो ब्रह्माणं परमेष्ठिनम् ॥३५.४२ ॥

पूजयित्वा द्विजवरं ब्रह्माणं सम्प्रपष्यति ।
तत्राभिगम्य देवेशं पुरुहूतमनिन्दितम् ॥ ३५.४३ ॥

सुरूपो जायते मर्त्यः सर्वान् कामानवाप्नुयात् ।
सप्तसारस्वतं तीर्थं ब्रह्माद्यैः सेवितं परम् ॥ ३५.४४ ॥

पूजयित्वा तत्र रुद्रमश्वमेधफलं लभेत् ।
यत्र मङ्कणको रुद्रं प्रपन्नः परमेश्वरम् ॥ ३५.४५ ॥

आराधयामास शिवं तपसा गोवृषध्वजम् ।
प्रजज्वालाथ तपसा मुनिर्मङ्कणकस्तदा ॥ ३५.४६ ॥

ननर्त्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम् ।
तं प्राह भगवान् रुद्रः किमर्थं नर्तितं त्वया ॥ ३५.४७ ॥

दृष्ट्वाऽपि देवमीशानं नृत्यति स्म पुनः पुनः ।
सोऽन्वीक्ष्य भगवानीशः सगर्वं गर्वशान्तये ॥ ३५.४८ ॥

स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत् ।
पश्येमं मच्छरीरोत्थं भस्मराशिं द्विजोत्तम ॥ ३५.४९ ॥

माहात्म्यमेतत् तपसस्त्वादृशोऽन्योऽपि विद्यते ।
यत् सगर्वं हि भवता नर्तितं मुनिपुंगव ॥ ३५.५० ॥

न युक्तं तापसस्यैतत् त्वत्तोऽप्यत्राधिको ह्यहम् ।
इत्याभाष्य मुनिश्रेष्ठं स रुद्रः किल विश्वदृक् ॥ ३५.५१ ॥

आस्थाय परमं भावं ननर्त्त जगतो हरः ।
सहस्रशीर्षा भूत्वा सहस्राक्षः सहस्रपात् ॥ ३५.५२ ॥

दंष्ट्राकरालवदनो ज्वालामाली भयंकरः ।
सोऽन्वपश्यदथेषस्य पार्श्वे तस्य त्रिशूलिनः ॥ ३५.५३ ॥

विशाललोचनमेकां देवीं चारुविलासिनीम् ।
सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम् ॥ ३५.५४ ॥

सस्मितं प्रेक्ष्य विश्वेशं तिष्ठन्तममितद्युतिम् ।
दृष्ट्वा संत्रस्तहृदयो वेपमानो मुनीश्वरः ॥ ३५.५५ ॥

ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी ।
प्रसन्नो भगवानीशस्त्र्यम्बको भक्तवत्सलः ॥ ३५.५६ ॥

पूर्ववेषं स जग्राह देवी चान्तर्हिताऽभवत् ।
आलिङ्ग्य भक्तं प्रणतं देवदेवः स्वयंशिवः ॥ ३५.५७ ॥

न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम् ।
प्रणम्य मूर्ध्ना गिरिशं हरं त्रिपुरसूदनम् ॥ ३५.५८ ॥

विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः ।
नमोऽस्तु ते महादेव महेश्वर नमोऽस्तु ते ॥ ३५.५९ ॥

किमेतद् भगवद्रूपं सुघोरं विश्वतोमुखम् ।
का च सा भगवत्पार्श्वे राजमाना व्यवस्थिता ॥ ३५.६० ॥

अन्तर्हितेव च सहसा सर्वमिच्छामि वेदितुम् ।
इत्युक्ते व्याजहारेशस्तदा मङ्कणकं हरः ॥ ३५.६१ ॥

महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः ।
अहं सहस्रनयनः सर्वात्मा सर्वतोमुखः ॥ ३५.६२ ॥

दाहकः सर्वपापानां कालः कालकरो हरः ।
मयैव प्रेर्यते कृत्स्नं चेतनाचेतनात्मकम् ॥ ३५.६३ ॥

सोऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः ।
तस्य सा परमा माया प्रकृतिस्त्रिगुणात्मिका ॥ ३५.६४ ॥

प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी ।
स एष मायया विश्वं व्यामोहयति विश्ववित् ॥ ३५.६५ ॥

नारायणः परोऽव्यक्तो मायारूप इति श्रुतिः ।
एवमेतज्जगत् सर्वं सर्वदा स्थापयाम्यहम् ॥ ३५.६६ ॥

योजयामि प्रकृत्याऽहं पुरुषं पञ्चविंशकम् ।
तथा वै संगतो देवः कूटस्थः सर्वगोऽमलः ॥ ३५.६७ ॥

सृजत्यशेषमेवेदं स्वमूर्त्तेः प्रकृतेरजः ॥

स देवो भगवान् ब्रह्मा विश्वरूपः पितामहः ॥ ३५.६८ ॥

तवैतत् कथितं सम्यक् स्रष्ट्वृत्वं परमात्मनः ।
एकोऽहं भगवान् कलो ह्यनादिश्चान्तकृद् विभुः ॥ ३५.६९ ॥

समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः ।
मम वै साऽपरा शक्तिर्देवी विद्येति विश्रुता ॥ ३५.७० ॥

दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः ।
एवमेतानि तत्त्वानि प्रधानपुरुषेश्वराः ॥ ३५.७१ ॥

विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः ।
त्रयमेतदनाद्यन्तं ब्रह्मण्येव व्यवस्थितम् ॥ ३५.७२ ॥

तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः ।
आत्मानन्दपरं तत्त्वं चिन्मात्रं परमं पदम् ॥ ३५.७३ ॥

आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते ।
एवं विज्ञाय भवता भक्तियोगाश्रयेण तु ॥ ३५.७४ ॥

सम्पूज्यो वन्दनीयोऽहं ततस्तं पश्य शाश्वतम् ।
एतावदुक्त्वा भगवाञ्जगामादर्शनं हरः ॥ ३५.७५ ॥

तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः ।
एतत् पवित्रमतुलं तीर्थं ब्रह्मर्षिसेवितम् ।
संसेव्य ब्राह्मणो विद्वान् मुच्यते सर्वपातकैः ॥ ३५.७६ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
पञ्चत्रिंशोऽध्यायः ॥३५ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे षड्त्रिंशत्तमोऽध्यायः

सूत उवाच ।
अन्यत् पवित्रं विपुलं तीर्थं त्रैलोक्यविश्रुतम् ।
रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः ॥ ३६.१ ॥

पुरा पुण्यतमे काले देवदर्शनतत्पराः ।
कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम् ॥ ३६.२ ॥

अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम् ।
अन्योऽन्यं भक्तियुक्तानां व्याघातो जायते किल ॥ ३६.३ ॥

तेषां भक्तिं तदा दृष्ट्वा गिरिशो योगिनां गुरुः ।
कोटिरूपोऽभवद् रुद्रो रुद्रकोटिस्ततः स्मृतः ॥ ३६.४ ॥

ते स्म सर्वे महादेवं हरं गिरिगुहाशयम् ।
पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियोऽभवन् ॥ ३६.५ ॥

अनाद्यन्तं महादेवं पूर्वमेवाहमीश्वरम् ।
दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियोऽभवन् ॥ ३६.६ ॥

अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम् ।
ज्योतिस्तत्रैव ते सर्वेऽभिलषन्तः परं पदम् ॥ ३६.७ ॥

एतत् स्वदेशाध्युषितं तीर्थं पुण्यतमं शुभम् ।
दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात् ॥ ३६.८ ॥

अन्यच्च तीर्थप्रवरं नाम्ना मधुवनं स्मृतम् ।
तत्र गत्वा नियमवानिन्द्रस्यार्द्धासनं लभेत् ॥ ३६.९ ॥

अथान्या पुष्पनगरी देशः पुण्यतमः शुभः ।
तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम् ॥ ३६.१० ॥

कालञ्जरं महातीर्थं रुद्रलोके महेश्वरः ।
कालंजरं भवन्देवो यत्र भक्तप्रियो हरः ॥ ३६.११ ॥

श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा ।
तदाशीस्तन्नमस्कारैः पूजयामास शूलिनम् ॥ ३६.१२ ॥

संस्थाप्य विधिना लिङ्गं भक्तियोगपुरः सरः ।
जजाप रुद्रमनिशं तत्र संन्यस्तमानसः ॥ ३६.१३ ॥

सितं कलोजिनं दीप्तं शूलमादाय भीषणम् ।
नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥ ३६.१४ ॥

वीक्ष्य राजा भयाविष्टः शूलहस्तं समागतम् ।
कालं कालकरं घोरं भीषणं चण्डदीपितम् ॥ ३६.१५ ॥

उबाभ्यामथ हस्ताभ्यां स्पृट्वाऽसौ लिङ्गमैश्वरम् ।
ननाम शिरसा रुद्रं जजाप शतरुद्रियम् ॥ ३६.१६ ॥

जपन्तमाह राजानं नमन्तं मनसा भवम् ।
एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥ ३६.१७ ॥

तमुवाच भयाविष्टो राजा रुद्रपरायणः ।
एकमीशार्चनरतं विहायान्यन्निषूदय ॥ ३६.१८ ॥

इत्युक्तवन्तं भगवानब्रवीद् भीतमानसम् ।
रुद्रार्चनरतो वाऽन्यो मद्वशे को न तिष्ठति ॥ ३६.१९ ॥

एवमुक्त्वा स राजानं कालो लोकप्रकालनः ।
बबन्ध पाशै राजाऽपि जजाप शतरुद्रियम् ॥ ३६.२० ॥

अथान्तरिक्षे विमलं दीप्यमानंतेजोराशिं भूतभर्त्तुः पुराणम् ।
ज्वालामालासंवृतं व्याप्य विश्वं प्रादुर्भूतं संस्थितं संददर्श ॥ ३६.२१ ॥

तन्मध्येऽसौ पुरुषं रुक्मवर्णं देव्या देवं चन्द्रलेखोज्ज्वलाङ्गम् ।
तेजोरूपं पश्यति स्मातिहृष्टो मेने चात्मानमप्यागच्छतीति ॥ ३६.२२ ॥

आगच्छन्तं नातिदूरेऽथ दृष्ट्वाकालो रुद्रं देवदेव्या महेशम् ।
व्यपेतभीरखिलेशैकनाथंराजर्षिस्तं नेतुमभ्याजगाम ॥ ३६.२३ ॥

आलोक्यासौ भगवानुग्रकर्मादेवो रुद्रो भूतभर्त्ता पुराणः ।
एवं भक्तं सत्वरं मां स्मरन्तं देहीतीमं कालरूपं ममेति ॥ ३६.२४ ॥

श्रुत्वा वाख्यं गोपतेरुद्रभावः कालात्माऽसौ मन्यमानः स्वभावम् ।
बद्ध्वा भक्तं पुनरेवाऽथ पाशैः रुद्रो रौद्रमभिदुद्राव वेगात् ॥ ३६.२५ ॥

प्रेक्ष्यायान्तं शैलपुत्रीमथेशः सोऽन्वीक्ष्यान्ते विश्वमायाविधिज्ञः ।
सावज्ञं वै वामपादेन कालंत्वेतस्यैनं पश्यतो व्याजघान ॥ ३६.२६ ॥

ममार सोऽतिभीषणो महेशपादघातितः ।
रराज देवतापतिः सहोमया पिनाकधृक् ॥ ३६.२७ ॥

निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् ।
ननाम साम्बमव्ययं स राजपुंगवस्तदा ॥ ३६.२८ ॥

नमो भवाय हेतवे हराय विश्वसंभवे ।
नमः शिवाय धीमते नमोऽपवर्गदायिने ॥ ३६.२९ ॥

नमो नमो नमो नमो महाविभूतये नमः ।
विभागहीनरूपिणे नमो नराधिपाय ते ॥ ३६.३० ॥

नमोऽस्तु ते गणेश्वर प्रपन्नदुःखनाशन ।
अनादिनित्यभूतये वराहश‍ृङ्गधारिणे ॥ ३६.३१ ॥

नमो वृषध्वजाय ते कपालमालिने नमः ।
नमो महानटाय ते शिवाय शङ्कराय ते ॥ ३६.३२ ॥

अथानुगृह्य शंकरः प्रणामतत्परं नृपम् ।
स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥ ३६.३३ ॥

सहोमया सपार्षदः सराजपुंगवो हरः ।
मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात् ॥ ३६.३४ ॥

काले महेशाभिहते लोकनाथः पितामहः ।
अयाचत वरं रुद्रं सजीवोऽयं भवत्विति ॥ ३६.३५ ॥

नास्ति कश्चिदपीशान दोषलेशो वृषध्वज ।
कृतान्तस्यैव भवता तत्कार्ये विनियोजितः ॥ ३६.३६ ॥

स देवदेववचनाद् देवदेवेश्वरो हरः ।
तथास्त्वित्याह विश्वात्मा सोऽपि तादृग्विधोऽभवत् ॥ ३६.३७ ॥

इत्येतत् परमं तीर्थं कालंजरमिति श्रुतम् ।
गत्वाऽभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥ ३६.३८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
षट्त्रिंशोऽध्यायः ॥३६ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे सप्तत्रिंशत्तमोऽध्यायः

सूत उवाच ।
इदमन्यत् परं स्थानं गुह्याद् गुह्यतमं महत् ।
महादेवस्य देवस्य महालयमिति श्रुतम् ॥ ३७.१ ॥

तत्र देवादिदेवेन रुद्रेण त्रिपुरारिणा ।
शिलातले पदं न्यस्तं नास्तिकानां निदर्शनम् ॥ ३७.२ ॥

तत्र पाशुपताः शान्ता भस्मोद्धूलितविग्रहाः ।
उपासते महादेवं वेदाध्ययनतत्पराः ॥ ३७.३ ॥

स्नात्वा तत्र पदं शार्वं दृष्ट्वा भक्तिपुरः सरम् ।
नमस्कृत्वाऽथ शिरसा रुद्रसामीप्यमाप्नुयात् ॥ ३७.४ ॥

अन्यच्च देवदेवस्य स्थानं शंभोर्महात्मनः ।
केदारमिति विख्यातं सिद्धानामालयं शुभम् ॥ ३७.५ ॥

तत्र स्नात्वा महादेवमभ्यर्च्य वृषकेतनम् ।
पीत्वा चैवोदकं शुद्धं गाणपत्यमवाप्नुयात् ॥ ३७.६ ॥

श्राद्धदानादिकं कृत्वा ह्यक्ष्यं लभते फलम् ।
द्विजातिप्रवरैर्जुष्टं योगिभिर्ज्जितमानसैः ॥ ३७.७ ॥

तीर्थं प्लक्षावतरणं सर्वपापविनाशनम् ।
तत्राभ्यर्च्य श्रीनिवासं विष्णुलोके महीयते ॥ ३७.८ ॥

अन्यच्च मगधारण्यं सर्वलोकगतिप्रदम् ।
अक्षयं विन्दते स्वर्गं तत्र गत्वा द्विजोत्तमः ॥ ३७.९ ॥

तीर्थं कनखलं पुण्यं महापातकनाशनम् ।
यत्र देवेन रुद्रेण यज्ञो दक्षस्य नाशितः ॥ ३७.१० ॥

तत्र गङ्गामुपस्पृश्य शुचिर्भावसमन्वितः ।
मुच्यते सर्वपापैस्तु ब्रह्मलोकं लभेन्मृतः ॥ ३७.११ ॥

महातीर्थमिति ख्यातं पुण्यं नारायणप्रियम् ।
तत्राभ्यर्च्य हृषीकेशं श्वेतद्वीपं सगच्छति ॥ ३७.१२ ॥

अन्यच्च तीर्थप्रवरं नाम्ना श्रीपर्वतं शुभम् ।
तत्र प्राणान् परित्यज्य रुद्रस्य दयितो भवेत् ॥ ३७.१३ ॥

तत्र सन्निहितो रुद्रो देव्या सह महेश्वरः ।
स्नानपिण्डादिकं तत्र कृतमक्षय्यमुत्तमम् ॥ ३७.१४ ॥

गोदावरी नदी पुण्या सर्वपापविनाशनी ।
तत्र स्नात्वा पितॄन् देवांस्तर्पयित्वा यथाविधि ॥ ३७.१५ ॥

सर्वपापविशुद्धात्मा गोसहस्रफलं लभेत् ।
पवित्रसलिला पुण्या कावेरी विपुला नदी ॥ ३७.१६ ॥

तस्यां स्नात्वोदकं कृत्वा मुच्यते सर्वपातकैः ।
त्रिरात्रोपोषितेनाथ एकरात्रोषितेन वा ॥ ३७.१७ ॥

द्विजातीनां तु कथितं तीर्थानामिह सेवनम् ।
यस्य वाङ्मनसी शुद्धे हस्तपादौ च संस्थितौ ॥ ३७.१८ ॥

अलोलुपो ब्रह्मचारी तीर्थानां फलमाप्नुयात् ।
स्वामितीर्थं महातीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ३७.१९ ॥

तत्र सन्निहितो नित्यं स्कन्दोऽमरनमस्कृतः ।
स्नात्वा कुमारधारायां कृत्वा देवादितर्पणम् ॥ ३७.२० ॥

आराध्य षण्मुखं देवं स्कन्देन सह मोदते ।
नदी त्रैलोक्यविख्याता ताम्रपर्णोति नामतः ॥ ३७.२१ ॥

तत्र स्नात्वा पितॄन् भक्त्या तर्पयित्वा यथाविधि ।
पापकर्तॄनपि पितॄस्तारयेन्नात्र संशयः ॥ ३७.२२ ॥

चन्द्रतीर्थमिति ख्यातं कावेर्याः प्रभवेऽक्षयम् ।
तीर्थे तत्रभवेद्धत्तं मृतानां स्वर्गतिर्ध्रुवा ॥ ३७.२३ ॥

विन्ध्यपादे प्रपश्यन्ति देवदेवं सदाशिवम् ।
भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः ॥ ३७.२४ ॥

देविकायां वृषो नाम तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वोदकं दत्वा योगसिद्धिं च विन्दति ॥ ३७.२५ ॥

दशाश्वमेधिकं तीर्थं सर्वपापविनाशकम् ।
दशानामश्वमेधानां तत्राप्नोति फलं नरः ॥ ३७.२६ ॥

पुण्डरीकं महातीर्थं ब्राह्मणैरुपसेवितम् ।
तत्राभिगम्य युक्तात्मा पुण्डरीकफलं लभेत् ॥ ३७.२७ ॥

तीर्थेभ्यः परमं तीर्थं ब्रह्मतीर्थमिति श्रुतम् ।
ब्रह्माणमर्चयित्वा तु ब्रह्मलोके महीयते ॥ ३३.२८ ॥

सरस्वत्या विनशनं प्लक्षप्रस्रवणं शुभम् ।
व्यासतीर्थं परं तीर्थं मैनाकं च नगोत्तमम् ॥ ३७.२९ ॥

यमुनाप्रभवं चैव सर्वपापविनाशनम् ।
पितॄणां दुहिता देवी गन्धकालीति विश्रुता ॥ ३७.३० ॥

तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत् ।
कुबेरतुङ्गं पापघ्नं सिद्धचारणसेवितम् ॥ ३७.३१ ॥

प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत् ।
उमातुङ्गमिति ख्यातं यत्र सा रुद्रवल्लभा ॥ ३७.३२ ॥

तत्राभ्यर्च्य महादेवीं गोसहस्रफलं लभेत् ।
भृगुतुङ्गे तपस्तप्तं श्राद्धं दानं तथा कृतम् ॥ ३७.३३ ॥

कुलान्युभयतः सप्त पुनातीति मतिर्मम ।
काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् ॥ ३७.३४ ॥

तत्र श्राद्धानि देयानि नित्यं पापक्षयेच्छया ।
दशार्णायां तथा दानं श्राद्धं होमस्तपो जपः ॥३७.३५ ॥

अक्षयं चाव्ययं चैव कृतं भवति सर्वदा ।
तीर्थं द्विजातिभिर्जुष्टं नाम्ना वै कुरुजाङ्गलम् ॥ ३७.३६ ॥

दत्त्वा तु दानं विधिवद् ब्रह्मलोके महीयते ।
वैतरण्यां महातीर्थे स्वर्णवेद्यां तथैव च ॥ ३७.३७ ॥

धर्मपृष्ठे च सरसि ब्रह्मणः परमे शुभे ।
भरतस्याश्रमे पुण्ये पुण्ये श्राद्धवटे शुभे ॥ ३७.३८ ।
महाह्रदे च कौशिक्यां दत्तं भवति चाक्षयम् ।
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ॥ ३७.३९ ॥

हिताय सर्वभूतानां नास्तिकानां निदर्शनम् ।
अल्पेनापि तु कालेन नरो धर्मपरायणः ॥३७.४० ॥

पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः ।
नाम्ना कनकनन्देति तीर्थं त्रैलोक्यविश्रुतम् ॥ ३७.४१ ॥

उदीच्यां मुञ्जपृष्ठस्य ब्रह्मर्षिगणसेवितम् ।
तत्र स्नात्वा दिवं यान्ति सशरीरा द्विजातयः ॥ ३७.४२ ॥

दत्तं चापि सदा श्राद्धमक्षयं समुदाहृतम् ।
ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः ॥ ३७.४३ ॥

मानसे सरसि स्नात्वा शक्रस्यार्द्धासनं लभेत् ।
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ ३७.४४ ॥

तस्मान्निर्वर्त्तयेच्छ्राद्धं यथाशक्ति यथाबलम् ।
कामान् सलभते दिव्यान् मोक्षोपायं च विन्दति ॥ ३७.४५ ॥

पर्वतो हिमवान्नाम नानाधातुविभूषितः ।
योजनानां सहस्राणि साशीतिस्त्वायतो गिरिः ॥ ३७.४६ ॥

सिद्धचारणसंकीर्णा देवर्षिगणसेवितः ।
तत्र पुष्करिणी रम्या सुषुम्ना नाम नामतः ॥ ३७.४७ ॥

तत्र गत्वा द्विजो विद्वान् ब्रह्महत्यां विमुञ्चति ।
श्राद्धं भवति चाक्षय्यं तत्र दत्तं महोदयम् ॥ ३७.४८ ॥

तारयेच्च पितॄन् सम्यग् दश पूर्वान् दशापरान् ।
सर्वत्र हिमवान् पुण्यो गङ्गा पुण्या समन्ततः ॥ ३७.४९ ॥

नद्यः समुद्रगाः पुण्याः समुद्रश्च विशेषतः ।
बदर्याश्रममासाद्य मुच्यते कलिकल्बिषात् ॥३७.५० ॥

तत्र नारायणो देवो नरेणास्ते सनातनः ।
अक्षयं तत्र दानं स्यात् जप्यं वाऽपि तथाविधम् ॥ ३७.५१ ॥

महादेवप्रियं तीर्थं पावनं तद् विशेषतः ।
तारयेच्च पितॄन् सर्वान् दत्त्वा श्राद्धं समाहितः ॥ ३७.५२ ॥

देवदारुवनं पुण्यं सिद्धगन्धर्वसेवितम् ।
महादेवेन देवेन तत्र दत्तं महद् वरम् ॥ ३७.५३ ॥

मोहयित्वा मुनीन् सर्वान् समस्तैः सम्प्रपूजितः ।
प्रसन्नो भगवानीशो मुनीन्द्रान् प्राह भावितान् ॥ ३७.५४ ॥

इहाश्रमवरे रम्ये निवसिष्यथ सर्वदा ।
मद्भावनासमायुक्तास्ततः सिद्धिमवाप्स्यथ ॥ ३७.५५ ॥

येऽत्र मामर्चयन्तीह लोके धर्मपरा जनाः ।
तेषां ददामि परमं गाणपत्यं हि शाश्वतम् ॥ ३७.५६ ॥

अत्र नित्यं वसिष्यामि सह नारायणेन च ।
प्राणानिह नरस्त्यक्त्वा न भूयो जन्म विन्दति ॥ ३७.५७ ॥

संस्मरन्ति च ये तीर्थं देशान्तरगता जनाः ।
तेषां च सर्वपापानि नाशयामि द्विजोत्तमाः ॥ ३७.५८ ॥

श्राद्धं दानं तपो होमः पिण्डनिर्वपणं तथा ।
ध्यानं जपश्च नियमः सर्वमत्राक्षयं कृतम् ॥ ३७.५९ ॥

तस्मात् सर्वप्रयत्नेन द्रष्टव्यं हि द्विजातिभिः ॥

देवदारुवनं पुण्यं महादेवनिषेवितम् ॥ ३७.६० ॥

यत्रेस्वरो महादेवो विष्णुर्वा पुरुषोत्तमः ।
तत्र सन्निहिता गङ्गातीर्थान्यायतनानि च ॥ ३७.६१ ॥

इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
सप्तत्रिंशोऽध्यायः ॥३७ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे अष्टत्रिंशत्तमोऽध्यायः

ऋषय ऊचुः ।
कथं दारुवनं प्राप्तो भगवान् गोवृषध्वजः ।
मोहयामास विप्रेन्द्रान् सूत वक्तुमिहार्हसि ॥ ३८.१ ॥

सूत उवाच ।
पुरा दारुवने रम्ये देवसिद्धनिषेविते ।
सपुत्रदारतनयास्तपश्चेरुः सहस्रशः ॥ ३८.२ ॥

प्रवृत्तं विविधं कर्म प्रकुर्वाणा यथाविधि ।
यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ॥ ३८.३ ॥

तेषां प्रवृत्तिविन्यस्तचेतसामथ शूलधृक् ।
व्याख्यापयन् स महादोषं ययौ दारुवनं हरः ॥ ३८.४ ॥

कृत्वा विश्वगुरुं विष्णुं पार्श्वे देवो महेश्वरः ।
ययौ निवृत्तविज्ञानस्थापनार्थं च शंकरः ॥ ३८.५ ॥

आस्थाय विपुलञ्चैष जनं विंशतिवत्सरम् ।
लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः ॥ ३८.६ ॥

चामीकरवपुः श्रीमान् पूर्णचन्द्रनिभाननः ।
मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः ॥ ३८.७ ॥

कुशेशयमयीं मालां सर्वरत्नैरलंकृताम् ।
दधानो भगवानीशः समागच्छति सस्मितः ॥ ३८.८ ॥

योऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः ।
स्त्रीवेषं विष्णुरास्थाय सोऽनुगच्छति शूलिनम् ॥ ३८.९ ॥

सम्पूर्णचन्द्रवदनं पीनोन्नतपयोधरम् ।
शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम् ॥ ३८.१० ॥

सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् ।
उदारहंसचलनं विलासि सुमनोहरम् ॥ ३८.११ ॥

एवं स भगवानीशो देवदारुवने हरः ।
चचार हरिणा सार्द्धं मायया मोहयन् जगत् ॥ ३८.१२ ॥

दृष्ट्वा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम् ।
मायया मोहिता नार्यो देवदेवं समन्वयुः ॥ ३८.१३ ॥

विस्त्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः ।
सहैव तेन कामार्त्ता विलासिन्यश्चरन्तिहि ॥ ३८.१४ ॥

ऋषीणां पुत्रका ये स्युर्युवानो जितमानसाः ।
अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः ॥ ३८.१५ ॥

गायन्ति नृत्यन्ति विलासयुक्ता
नारीगणा नायिकमेकमीशम् ।
दृष्ट्वा सपत्नीकमतीवकान्त-
मिच्छन्त्यथालिङ्गनमाचरन्ति ॥ ३८.१६ ॥

पार्श्वे निपेतुः स्मितमाचरन्ति
गायन्ति गीतानि मुनीशपुत्राः ।
आलोक्य पद्मापतिमादिदेवं
भ्रूभङ्गमन्ये विचरन्ति तेन ॥ ३८.१७ ॥

आसामथैषामपि वासुदेवो
मायी मुरारिर्मनसि प्रविष्टः ।
करोति भोगान् मनसि प्रवृत्तिं
मायानुभूयन्त इतिव सम्यक् ॥ ३८.१८ ॥

विभाति विश्वामरभूतभर्त्ता
स माधवः स्त्रीगणमध्यविष्टः ।
अशेषशक्त्यासनसंनिविष्टो
यथैकशक्त्या सह देवदेवः ॥ ३८.१९ ॥

करोति नृत्यं परमं प्रधानं
तदा विरूढः पुनरेव भूयः ।
ययौ समारुह्य हरिः स्वभावं
तदीशवृत्तामृतमादिदेवः ॥ ३८.२० ॥

दृष्ट्वा नारीकुलं रुद्रं पुत्रानपि च केशवम् ।
मोहयन्तं मुनिश्रेष्ठाः कोपं संदधिरे भृशम् ॥ ३८.२१ ॥

अतीव परुषं वाक्यं प्रोचुर्देवं कपर्दिनम् ।
शेपुश्चर्विविधैर्वाक्यैर्मायया तस्य मोहिताः ॥ ३८.२२ ॥

तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शंकरे ।
यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥ ३८.२३ ॥

ते भग्नतपसो विप्राः समेत्य वृषभध्वजम् ।
को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः ॥ ३८.२४ ॥

सोऽब्रवीद् भगवानीशस्तपश्चर्तुमिहागतः ।
इदानीं भार्यया देशे भवद्भिरिह सुव्रताः ॥ ३८.२५ ॥

तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुंगवाः ।
ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर ॥ ३८.२६ ॥

अथोवाच विहस्येशः पिनाकी नीललोहितः ।
सम्प्रेक्ष्य जगतां योनिं पार्श्वस्थं च जनार्दनम् ॥ ३८.२७ ॥

कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः ।
त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः ॥ ३८.२८ ॥

ऋषय ऊचुः ।
व्यभिचाररता भार्याः संत्याज्याः पतिनेरिताः ।
अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ॥ ३८.२९ ॥

महादेव उवाच ।
न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति ।
नाहमेनामपि तथा विमुञ्चामि कदाचन ॥ ३८.३० ॥

ऋषय ऊचुः ।
दृष्ट्वा व्यभिचरन्तीह ह्यस्माभिः पुरुषाधम ।
उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि ॥ ३८.३१ ॥

एवमुक्ते महादेवः सत्यमेव मयेरितम् ।
भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ॥ ३८.३२ ॥

सोऽगच्छद्धरिणा सार्द्धं मुनिन्द्रस्य महात्मनः ।
वसिष्ठस्याश्रमं पुण्यं भिक्षार्थी परमेश्वरः ॥ ३८.३३ ॥

दृष्ट्वा समागतं देवं भिक्षमाणमरुन्धती ।
वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम् ॥ ३८.३४ ॥

प्रक्षाल्य पादौ विमलं दत्त्वा चासनमुत्तमम् ।
सम्प्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः ।
संधयामास भैषज्यैर्विषण्ण वदना सती ॥ ३८.३५ ॥

चकार महतीं पूजां प्रार्थयामास भार्यया ।
को भवान् कुत आयातः किमाचारो भवानिति ।
उवाच तां महादेवः सिद्धानां प्रवरोऽस्म्यहम् ॥ ३८.३६ ॥

यदेतन्मण्डलं शुद्धं भाति ब्रह्ममयं सदा ।
एषैव देवता मह्यं धारयामि सदैव तत् ॥ ३८.३७ ॥

हत्युक्त्वा प्रययौ श्रीमाननुगृह्य पतिव्रताम् ।
ताडयाञ्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः ॥ ३८.३८ ॥

दृष्ट्वा चरन्तं गिरिशं नग्नं विकृतलक्षणम् ।
प्रोचुरेतद् भवाँल्लिङ्गमुत्पाटयतु दुर्मते ॥ ३८.३९ ॥

तानब्रवीन्महायोगी करिष्यामीति शंकरः ।
युष्माकं मामके लिङ्गे यदि द्वेषोऽभिजायते ॥ ३८.४० ॥

इत्युक्त्वोत्पाटयामास भगवान् भगनेत्रहा ।
नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च ॥ ३८.४१ ॥

तदोत्पाता बभूवुर्हि लोकानां भयशंसिनः ।
न राजते सहस्रांशुश्चचाल पृथिवी पुनः ।
निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ॥ ३८.४२ ॥

अपश्यच्चानुसूयात्रेः स्वप्नं भार्या पतिव्रता ।
कथयामास विप्राणां भयादाकुलितेक्षणा ॥ ३८.४३ ॥

तेजसा भासयन् कृत्स्नं नारायणसहायवान् ।
भिक्षमाणः शिवो नूनं दृष्टोऽस्माकं गृहेष्विति ॥ ३८.४४ ॥

तस्या वचनमाकर्ण्य शङ्कमाना महर्षयः ।
सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसंभवम् ॥ ३८.४५ ॥

उपास्यमानममलैर्योगिभिर्ब्रह्मवित्तमैः ।
चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम् ॥ ३८.४६ ॥

आसीनमासने रम्ये नानाश्चर्यसमन्विते ।
प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते ॥ ३८.४७ ॥

विभ्राजमानं वपुषा सस्मितं शुभ्रलोचनम् ।
चतुर्मुखं महाबाहुं छन्दोमयमजं परम् ॥ ३८.४८ ॥

विलोक्य देवपुरुषं प्रसन्नवदनं शुभम् ।
शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम् ॥ ३८.४९ ॥

तान् प्रसन्नमना देवश्चतुर्मूर्त्तिश्चतुर्मुखः ।
व्याजहार मुनिश्रेष्ठाः किमागमनकारणम् ॥ ३८.५० ॥

तस्य ते वृत्तमखिलं ब्रह्मणः परमात्मनः ।
ज्ञापयाञ्चक्रिरे सर्वे कृत्वा शिरसि चाञ्जलिम् ॥ ३८.५१ ॥

ऋषय ऊचुः ।
कश्चिद् दारुवनं पुण्यं पुरुषोऽतीवशोभनः ।
भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि ॥ ३८.५२ ॥

मोहयामास वपुषा नारीणां कुलमीश्वरः ।
कन्यकानां प्रिया चास्य दूषयामास पुत्रकान् ॥ ३८.५३ ॥

अस्माभिर्विविधाः शापाः प्रदत्ताश्च पराहताः ।
ताडितोऽस्माभिरत्यर्थं लिङ्गंतु विनिपातितम् ॥ ३८.५४ ॥

अन्तर्हितश्च भगवान् सभार्यो लिङ्गमेव च ।
उत्पाताश्चाभवन् घोराः सर्वभूतभयंकराः ॥ ३८.५५ ॥

क एष पुरुषो देव भीताः स्म पुरुषोत्तम ।
भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥ ३८.५६ ॥

त्वं हि वेत्सि जगत्यस्मिन् यत्किञ्चिदपि चेष्टितम् ।
अनुग्रहेण विश्वेश तदस्माननुपालय ॥ ३८.५७ ॥

विज्ञापितो मुनिगणैर्विश्वात्मा कमलोद्भवः ।
ध्यात्वा देवं त्रिशूलाङ्कं कृताञ्जलिरभाषत ॥ ३८.५८ ॥

ब्रह्मोवाच ।
हा कष्टं भवतामद्य जातं सर्वार्थनाशनम् ।
धिग्बलं धिक् तपश्चर्या मिथ्यैव भवतामिह ॥ ३८.५९ ॥

सम्प्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम् ।
उपेक्षितं वृथाचारैर्भवद्भिरिह मोहितैः ॥ ३८.६० ॥

काङ्क्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम् ।
यमेव तं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ३८.६१ ॥

यजन्ति यज्ञैर्विविधैर्यत्प्राप्त्यैर्वेदवादिनः ।
महानिधिं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ३८.६२ ॥

यं समासाद्य देवानैमैश्वर्यमखिलं जगत् ।
तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम् ।
यत्समापत्तिजनितं विश्वेशत्वमिदं मम ।
तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः ॥ ३८.६३ ॥

यस्मिन् समाहितं दिव्यमैश्वर्यं यत् तदव्ययम् ।
तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम् ॥ ३८.६४ ॥

एष देवो महादेवो विज्ञेयस्तु महेश्वरः ।
न तस्य परमं किञ्चित् पदं समधिगम्यते ॥ ३८.६५ ॥

देवतानामृषीणां च पितॄणां चापि शाश्वतः ।
सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् ॥ ३८.६६ ॥

संहरत्येष भगवान् कालो भूत्वा महेश्वरः ।
एष चैव प्रजाः सर्वाः सृजत्येषः स्वतेजसा ॥ ३८.६७ ॥

एष चक्री चक्रवर्ती श्रीवत्सकृतलक्षणः ।
योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते ।
द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे ॥ ३८.६८ ॥

रुद्रस्य मूर्त्तयस्तिस्त्रो याभिर्विश्वमिदं ततम् ।
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः ॥ ३८.६९ ॥

मूर्त्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा ।
यत्र तिष्ठति तद् ब्रह्म योगेन तु समन्वितम् ॥ ३८.७० ॥

या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता ।
सा हि नारायणो देवः परमात्मा सनातनः ॥ ३८.७१ ॥

तस्मात् सर्वमिदं जातं तत्रैव च लयं व्रजेत् ।
स एष मोचयेत् कृत्स्नं स एष परमा गतिः ॥ ३८.७२ ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
एकश‍ृङ्गो महानात्मा पुराणोऽष्टाक्षरो हरिः ॥ ३८.७३ ॥

चतुर्वेदश्चतुर्मूर्त्तिस्त्रिमूर्त्तिस्त्रिगुणः परः ।
एकमूर्त्तिरमेयात्मा नारायण इति श्रुतिः ।
रेतोऽस्य गर्भो भगवानापो मायातनुः प्रभुः ।
स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्मोक्षकांक्षिभिः ॥ ३८.७४ ॥

संहृत्य सकलं विश्वं कल्पान्ते पुरुषोत्तमः ।
शेते योगामृतं पीत्वा यत् तद् विष्णोः परं पदम् ॥ ३८.७५ ॥

न जायते न म्रियते वर्द्धते न च विश्वसृक् ।
मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ॥ ३८.७६ ॥

ततो निशायां वृत्तायां सिसृक्षुरखिलञ्जगत् ।
अजस्य नाभौ तद् बीजं क्षिपत्येष महेश्वरः ॥ ३८.७७ ॥

तं मां वित्त महात्मानं ब्रह्माणं विश्वतो मुखम् ।
महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम् ॥ ३८.७८ ॥

न तं जानीथ जनकं मोहितास्तस्य मायया ।
देवदेवं महादेवं भूतानामीश्वरं हरम् ॥ ३८.७९ ॥

एष देवो महादेवो ह्यनादिर्भगवान् हरः ।
विष्णुना सह संयुक्तः करोति विकरोति च ॥ ३८.८० ॥

न तस्य विद्यते कार्यं न तस्माद् विद्यते परम् ।
स वेदान् प्रददौ पूर्वं योगमायातनुर्मम ॥ ३८.८१ ॥

स मायी मायया सर्वं करोति विकरोति च ।
तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम् ॥ ३८.८२ ॥

इतीरिता भगवता मरीचिप्रमुखा विभुम् ।
प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुः खिताः ॥ ३८.८३ ॥

इति अष्टाचत्वारिंशोऽध्यायः ॥३८ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे नवत्रिंशत्तमोऽध्यायः

मुनय ऊचुः ।
कथं पश्येम तं देवं पुनरेव पिनाकिनम् ।
ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम् ॥ ३९.१ ॥

पितामह उवाच ।
यद् दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् ।
तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम् ॥ ३९.२ ॥

पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः ।
वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः ॥३९.३ ॥

संस्थाप्य शांकरैर्मन्त्रैरृग्यजुः सामसंभवैः ।
तपः परं समास्थाय गृणन्तः शतरुद्रियम् ॥ ३९.४ ॥

समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः ।
सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ ॥ ३९.५ ॥

ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ।
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥ ३९.६ ॥

ततः प्रणम्य वरदं ब्रह्माणममितौजसम् ।
जग्मुः संहृष्टमनसो देवदारुवनं पुनः ॥ ३९.७ ॥

आराधयितुमारब्धा ब्रह्मणा कथितं यथा ।
अजानन्तः परं देवं वीतरागा विमत्सराः ॥ ३९.८ ॥

स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च ।
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ ३९.९ ॥

शैवालभोजनाः केचित् केचिदन्तर्जलेशयाः ।
केचिदभ्रावकाशास्तु पादाङ्गुष्ठे ह्यधिष्ठिताः ॥ ३९.१० ॥

दन्तोऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे ।
शाकपर्णाशनः केचित् सम्प्रक्षाला मरीचिपाः ॥ ३९.११ ॥

वृक्षमूलनिकेताश्च शिलाशय्यास्तथा परे ।
कालं नयन्ति तपसा पूजयन्तो महेश्वरम् ॥ ३९.१२ ॥

ततस्तेषां प्रसादार्थं प्रपन्नार्त्तिहरो हरः ।
चकार भगवान् बुद्धिं प्रबोधाय वृषध्वजः ॥ ३९.१३ ॥

देवः कृतयुगे ह्यस्मिन् श‍ृङ्गे हिमवतः शुभे ।
देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ ३९.१४ ॥

भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः ।
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ ३९.१५ ॥

क्वचिच्च हसते रौद्रं क्वचिद् गायति विस्मितः ।
क्वचिन्नृत्यति श‍ृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ ३९.१६ ॥

आश्रमे ह्यटते भिक्षुः याचते च पुनः पुनः ।
मायां कृत्वात्मनो रूपं देवस्तद् वनमागतः ॥ ३९.१७ ॥

कृत्वा गिरिसुतां गौरीं पार्श्वेदेवः पिनाकधृक् ।
सा च पूर्ववद् देवेशी देवदारुवनं गता ॥ ३९.१८ ॥

दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् ।
प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ ३९.१९ ॥

वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः ।
अथर्वशिरसा चान्ये रुद्राद्यैरर्च्चयन्भवम् ॥ ३९.२० ॥

नमो देवादिदेवाय महादेवाय ते नमः ।
त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ ३९.२१ ॥

नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने ।
सर्वप्रणतदेवाय स्वयमप्रणतात्मने ॥ ३९.२२ ॥

अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च ।
नमोऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ ३९.२३ ॥

नरनारीशरीराय योगिनां गुरवे नमः ।
नमो दान्ताय शान्ताय तापसाय हराय च ॥ ३९.२४ ॥

विभीषणाय रुद्राय नमस्ते कृत्तिवाससे ।
नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ ३९.२५ ॥

अघोरघोररूपाय वामदेवाय वै नमः ।
नमः कनकमालाय देव्याः प्रियकराय च ॥ ३९.२६ ॥

गङ्गासलिलधाराय शम्भवे परमेष्ठिने ।
नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ ३९.२७ ॥

प्राणाय च नमस्तुभ्यं नमो भस्मागधारिणे ।
नमस्ते हव्यवाहाय दंष्ट्रिणे हव्यरेतसे ॥ ३९.२८ ॥

ब्रह्मणश्च शिरो हर्त्रे नमस्ते कालरूपिणे ।
आगतिं ते न जनीमो गतिं नैव च नैव च ॥ ३९.२९ ॥

विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ।
नमः प्रमथनाथाय दात्रे च शुभसम्पदाम् ॥ ३९.३० ॥

कपालपाणये तुभ्यं नमो मीढुष्टमाय ते ।
नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ ३९.३१ ॥

नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः ।
नमो भुजंगहाराय कर्णिकारप्रियाय च ।
किरीटिने कुण्डलिने कालकालाय ते नमः ॥ ३९.३२ ॥

वामदेव महेशान देवदेव त्रिलोचन ।
क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ ३९.३३ ॥

चरितानि विचित्राणि गुह्यानि गहनानि च ।
ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयोऽसि शंकर ॥ ३९.३४ ॥

अज्ञानाद् यदि वा ज्ञानाद् यत्किंचित्कुरुते नरः ।
तत्सर्वं भगवानेन कुरुते योगमायया ॥ ३९.३५ ॥

एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना ।
ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ ३९.३६ ॥

तेषां संस्तवमाकर्ण्य सोमः मोमविभूषणः ।
स्वमेव परमं रूपं दर्शयामास शंकरः ॥ ३९.३७ ॥

तं ते दृष्ट्वाऽथ गिरिशं देव्या सह पिनाकिनम् ।
यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥ ३९.३८ ॥

ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् ।
भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥ ३९.३९ ॥

गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः ।
मरीचिः कश्यपश्चापि संवर्त्तकमहातपाः ।
प्रणम्य देवदेवेशमिदं वचनमब्रुवन् ॥ ३९.४० ॥

कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो ।
ज्ञानेन वाऽथ योगेन पूजयामः सदैव हि ॥ ३९.४१ ॥

केन वा देवमार्गेण सम्पूज्यो भगवानिह ।
किं तत् सेव्यमसेव्यं वा सर्वमेतद् ब्रवीहि नः ॥ ३९.४२ ॥

देवदेव उवाच ।
एतद् वः सम्प्रवक्ष्यामि गूढं गहनमुत्तमम् ।
ब्रह्मणे कथितं पूर्वमादावेव महर्षयः ॥ ३९.४३ ॥

सांख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् ।
योगेन सहितं सांख्यं पुरुषाणां विमुक्तिदम् ॥ ३९.४४ ॥

न केवलेन योगेन दृश्यते पुरुषः परः ।
ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ ३९.४५ ॥

भवन्तः केवलं योगं समाश्रित्य विमुक्तये ।
विहाय सांख्यं विमलमकुर्वत परिश्रमम् ॥ ३९.४६ ॥

एतस्मात् कारणाद् विप्रानृणां केवलधर्मिणाम् ।
आगतोऽहमिमं देशं ज्ञापयन् मोहसंभवम् ॥ ३९.४७ ॥

तस्माद् भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् ।
ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ ३९.४८ ॥

एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः ।
आनन्दो निर्मलो नित्यं स्यादेतत् सांख्यदर्शनम् ॥ ३९.४९ ॥

एतदेव परं ज्ञानमेष मोक्षोऽत्र गीयते ।
एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ ३९.५० ॥

आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः ।
पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ ३९.५१ ॥

एतत् तत् परमं ज्ञानं केवलं सन्निरञ्जनम् ।
अहं हि वेद्यो भगवान् मम मूर्त्तिरियं शिवा ॥ ३९.५२ ॥

बहूनि साधनानीह सिद्धये कथितानि तु ।
तेषामभ्यधिकं ज्ञानं मामकं द्विजपुंगवाः ॥ ३९.५३ ॥

ज्ञानयोगरताः शान्ता मामेव शरणं गताः ।
ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥ ३९.५४ ॥

मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः ।
नाशयाम्यचिरात् तेषां घोरं संसारसागरम् ॥ ३९.५५ ॥

प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः ।
ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत् ॥ ३९.५६ ॥

निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् ।
गुह्याद् गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये ॥ ३९.५७ ॥

यद् वा कौपीनवसनः स्याद्वादिग्वसनो मुनिः ।
वेदाभ्यासरतो विद्वान् ध्यायेत् पशुपतिं शिवम् ॥ ३९.५८ ॥

एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः ।
भस्मच्छन्नैर्हि सततं निष्कामैरिति श्रुतम् ॥ ३९.५९ ॥

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवोऽनेन योगेन पूता मद्भावमागताः ॥ ३९.६० ॥

अन्यानि चैव शास्त्राणि लोकेऽस्मिन् मोहनानितु ।
वेदवादविरुद्धानि मयैव कथितानि तु ॥ ३९.६१ ॥

वामं पाशुपतं सोमं लाकुलं चैव भैरवम् ।
असेव्यमेतत् कथितं वेदबाह्यं तथेतरम् ॥ ३९.६२ ॥

वेदमुर्त्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः ।
ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम् ॥ ३९.६३ ॥

स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् ।
अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः ॥ ३९.६४ ॥

मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः ।
ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः ॥ ३९.६५ ॥

इत्युक्त्वा भगवान् सोमस्तत्रैवान्तरधीयत ।
तोऽपि दारुवने तस्मिन् पूजयन्ति स्म शंकरम् ॥ ३९.६६ ॥

ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः ।
समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः ॥ ३९.६७ ॥

विचक्रिरे बहून् वादान्नध्यात्मज्ञानसमाश्रयान् ।
किमस्य जगतो मूलमात्मा चास्माकमेव हि ॥ ३९.६८ ॥

कोऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च ।
इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् ।
आविरासीन्महादेवी देवी गिरिवरात्मजा ॥ ३९.६९ ॥

कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता ।
स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम् ॥ ३९.७० ॥

तामन्वपश्यन् गिरिजाममेयांज्वालासहस्रान्तरसन्निविष्टाम् ।
प्रणेमुरेतामखिलेशपत्नींजानन्ति चैतत् परमस्य बीजम् ॥ ३९.७१ ॥

अस्माकमेषा परमेशपत्नीगतिस्तथात्मा गगनाभिधाना ।
पश्यन्त्यथात्मानमिदं च कृत्स्नंतस्यामथैते मुनयश्च विप्राः ॥ ३९.७२ ॥

निरीक्षितास्ते परमेशपत्न्यातदन्तरे देवमशेषहेतुम् ।
पश्यन्ति शंभुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् ॥ ३९.७३ ॥

आलोक्य देवीमथ देवमीशंप्रणेमुरानन्दमवापुरग्र्यम् ।
ज्ञानं तदीशं भगवत्प्रसादा-दाविर्बभौ जन्मविनाशहेतु ॥ ३९.७४ ॥

इयं हि सा जगतो योनिरेकासर्वात्मिका सर्वनियामिका च ।
माहेश्वरीशक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीव ॥ ३९.७५ ॥

अस्यां महत्परमेष्ठी परस्ता-न्महेश्वरः शिव एकः स रुद्रः ।
चकार विश्वं परशक्तिनिष्ठंमायामथारुह्य च देवदेवः ॥ ३९.७६ ॥

एको देवः सर्वभूतेषु गूढोमायी रुद्रः सकलो निष्कलश्च ।
स एव देवी न च तद्विभिन्न-मेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति ॥ ३९.७७ ॥

अन्तर्हितोऽभूद् भगवान्महेशोदेव्या तया सह देवादिदेवः ।
आराधयन्ति स्म तमाधिदेवंवनौकसस्ते पुनरेव रुद्रम् ॥ ३९.७८ ॥

एतद् वः कथितं सर्वं देवदेवस्य चेष्टितम् ।
देवदारुवने पूर्वं पुराणे यन्मया श्रुतम् ॥ ३९.७९ ॥

यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः ।
श्रावयेद् वा द्विजान् शान्तान् स याति परमां गतिम् ॥ ३९.८० ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
नवत्रिंशोऽध्यायः ॥३९ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे चत्वारिंशत्तमोऽध्यायः

सूत उवाच ।
एषा पुण्यतमा देवी देवगन्धर्वसेविता ।
नर्मदा लोकविख्याता तीर्थानामुत्तमा नदी ॥ ४०.१ ॥

तस्याः श‍ृणुध्वं माहात्म्यं मार्कण्डेयेन भाषितम् ।
युधिष्ठिराय तु शुभं सर्वपापप्रणाशनम् ॥ ४०.२ ॥

युधिष्ठिर उवाच ।
श्रुतास्ते विविधा धर्मास्तत्प्रसादान्महामुने ।
माहात्म्यं च प्रयागस्य तीर्थानि विविधानि च ॥ ४०.३ ॥

नर्मदा सर्वतीर्थानां मुख्या हि भवतेरिता ।
तस्यास्त्विदानीं माहात्म्यं वक्तुमर्हसि सत्तम ॥ ४०.४ ॥

मार्कण्डेय उवाच
नर्मदा सरितां श्रेष्ठा रुद्रदेहाद् विनिः सृता ।
तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥ ४०.५ ॥

नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम् ।
इदानीं तत्प्रवक्ष्यामि श‍ृणुष्वैकमनाः शुभम् ॥ ४०.६ ॥

पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती ।
ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥ ४०.७ ॥

त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् ।
सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ ४०.८ ॥

कलिङ्गदेशपश्चार्द्धे पर्वतेऽमरकण्टके ।
पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ॥ ४०.९ ॥

सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः ।
तपस्तप्त्वा तु राजेन्द्र सिद्धिं तु परमां गताः ॥ ४०.१० ॥

तत्र स्नात्वा नरो राजन् नियमस्थो जितेन्द्रियः ।
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ ४४०.११ ॥

योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ।
विस्तारेण तु राजेन्द्र योजनद्वयमायता ॥ ४०.१२ ॥

षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ।
पर्वतस्य समन्तात् तु तिष्ठन्त्यमरकण्टके ॥ ४०.१३ ॥

ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ।
सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः ॥ ४०.१४ ॥

एवं शुद्धसमाचारो यस्तु प्राणान् समुत्सृजेत् ।
तस्य पुण्यफलं राजन् श‍ृणुष्वावहितो नृप ॥ ४०.१५ ॥

शतवर्षसहस्राणि स्वर्गे मोदति पाण्डव ।
सप्सरोगणसंकीर्णो दिव्यस्त्रीपरिवारितः ॥ ४०.१६ ॥

दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः ।
क्रीडते देवलोके तु दैवतैः सह मोदते ॥ ४०.१७ ॥

ततः स्वर्गात् परिभ्रष्टो राजा भवति धार्मिकः ।
गृहं तु लभतेऽसौ वै नानारत्नसमन्वितम् ॥ ४०.१८ ॥

स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैढूर्यभूषितम् ।
आलेख्यवाहनैः शुभ्रैर्दासीदाससमन्वितम् ॥ ४०.१९ ॥

राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः ।
जीवेद् वर्षशतं साग्रं तत्र भोगसमन्वितः ॥ ४०.२० ॥

अग्निप्रवेशेऽथ जले अथवाऽनशने कृते ।
अनिवर्त्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥ ४०.२१ ॥

पश्चिमे पर्वततटे सर्वपापविनाशनः ।
ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ ४०.२२ ॥

तत्र पिण्डप्रदानेन संध्योपासनकर्मणा ।
दशवर्षसहस्राणि तर्पिताः स्युर्न संशयः ॥ ४०.२३ ॥

दक्षिणे नर्मदाकूले कपिलाख्या महानदी ।
सरलार्जुनसंच्छन्ना नातिदूरे व्यवस्थिता ॥ ४०.२४ ॥

सा तु पुण्या महाभागा त्रिषु लोकेषु विश्रुता ।
तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥ ४०.२५ ॥

तस्मिंस्तीर्थे तु ये वृक्षाः पतिताः कालपर्ययात् ।
नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् ॥ ४०.२६ ॥

द्वितीया तु महाभागा विशल्यकरणी शुभा ।
तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात् ॥ ४०.२७ ॥

कपिला च विशल्या च श्रूयते राजसत्तम ।
ईश्वरेण पुरा प्रोक्ता लोकानां हितकाम्यया ॥ ४०.२८ ॥

अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ ४०.२९ ॥

तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ।
ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते ॥ ४०.३० ॥

सरस्वत्यां च गङ्गायां नर्मदायां युधिष्ठिर ।
समं स्नानं च दानं च यथा मे शंकरोऽब्रवीत् ॥ ४०.३१ ॥

परित्यजति यः प्रणान् पर्वतेऽमरकण्टके ।
वर्षकोटिशतं साग्रं रुद्रलोके महीयते ॥ ४०.३२ ॥

नर्मदायां जलं पुण्यं फेनोर्मिसमलीकृतम् ।
पवित्रं शिरसा धृत्वा सर्वपापैः प्रमुच्यते ॥ ४०.३३ ॥

नर्मदा सर्वतः पुण्या ब्रह्महत्यापहारिणी ।
अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ॥ ४०.३४ ॥

जालेश्वरं तीर्थवरं सर्वपापविनाशनम् ।
तत्र गत्वा नियमवान् सर्वकामांल्लभेन्नरः ॥ ४०.३५ ॥

चन्द्रसूर्योपरागे तु गत्वा ह्यमरकण्टकम् ।
अश्वमेधाद् दशगुणं पुण्यमाप्नोति मानवः ॥ ४०.३६ ॥

एष पुण्यो गिरिवरो देवगन्धर्वसेवितः ।
नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ॥ ४०.३७ ॥

तत्र संनिहितो राजन् देव्या सह महेश्वरः ।
ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह ॥ ४०.३८ ॥

प्रदक्षिणं तु यः कुर्यात् पर्वतं ह्यमरकण्टकम् ।
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानः ॥ ४०.३९ ॥

कावेरी नाम विपुला नदी कल्मषनाशिनी ।
तत्र स्नात्वा महादेवमर्चयेद् वृषभध्वजम् ।
संगमे नर्मदायास्तु रुद्रलोके महीयते ॥ ४०.४० ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
चत्वारिंशोऽध्यायः ॥४० ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे एकचत्वारिंशत्तमोऽध्यायः

मार्कण्डेय उवाच
नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी ।
मुनिभिः कथिता पूर्वमीश्वरेण स्वयंभुवा ॥ ४१.१ ॥

मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी ।
रुद्रगात्राद् विनिष्क्रान्ता लोकानां हितकाम्यया ॥ ४१.२ ॥

सर्वपापहरा नित्यं सर्वदेवनमस्कृता ।
संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ॥ ४१.३ ॥

उत्तरे चैव तत्कूले तीर्थं त्रैलोक्यविश्रुते ।
नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् ॥ ४१.४ ॥

तत्र स्नात्वा नरो राजन् दैवतैः सह मोहते ।
ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् ॥ ४१.५ ॥

तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ।
ततोऽङ्गारकेश्वरं गच्छेन्नियतो नियतायनः ॥ ४१.६ ॥

सर्वपापविशुद्धात्मा रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् ॥ ४१.७ ॥

तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् ।
निष्फलेशंततो गच्छेत् सर्वपापविनाशनम् ॥ ४१.८ ॥

तत्र स्नात्वा महाराज रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र बाणतीर्थमनुत्तमम् ॥ ४१.९ ॥

तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् ।
ततः पुष्करिणीं गच्छेत् स्नानं तत्र समाचरेत् ॥ ४१.१० ॥

तत्र स्नात्वा नरो राजन् सिंहासनपतिर्भवेत् ।
शक्रतीर्थं ततो गच्छेत्कूले चैव तु दक्षिणे ॥ ४१.११ ॥

स्नातमात्रो नरस्तत्र इन्द्रस्यार्द्धासनं लभेत् ।
ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् ॥ ४१.१२ ॥

तत्र स्नात्वार्चयेद् देवं गोसहस्रफलं लभेत् ।
उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ॥ ४१.१३ ॥

आराधयेन्महायोगं देवं नारायणं हरिम् ।
गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ॥ ४१.१४ ॥

ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् ।
स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥ ४१.१५ ॥

नारदस्य तु तत्रैव तीर्थं परमशोभनम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ ४१.१६ ॥

यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा ।
प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ॥ ४१.१७ ॥

ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् ।
यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ ४१.१८ ॥

ऋणतीर्थं ततो गच्छेत् स ऋणान्मुच्यते ध्रुवम् ।
वटेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम् ॥ ४१.१९ ॥

भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् ।
स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ॥ ४१.२० ॥

ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।
अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ॥ ४१.२१ ॥

तस्मिंमस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति ।
यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ॥ ४१.२२ ॥

तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥

यस्तु प्राणपरित्यागं कुर्यात् तत्र नराधिप ॥ ४१.२३ ॥

अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ।
नर्मदातटमाश्रित्य ये च तिष्ठन्ति मानवाः ॥ ४१.२४ ॥

ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ।
ततो दीप्तेश्वरं गच्छेद् व्यासतीर्थं तपोवनम् ॥ ४१.२५ ॥

निवर्त्तिता पुरा तत्र व्यासभीता महानदी ।
हुंकारिता तु व्यासेन दक्षिणेन ततो गता ॥ ४१.२६ ॥

प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर ।
प्रीतस्तस्य भवेद् व्यासो वाञ्छितं लभते फलम् ॥ ४१.२७ ॥

ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु संगमम् ।
त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः ॥ ४१.२८ ॥

तत्र स्नात्वा नरो राजन् गाणपत्यमवाप्नुयात् ।
स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ ४१.२९ ॥

आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति ।
तत्र देवाः सगन्धर्वा भर्गात्मजमनुत्तमम् ॥ ४१.३० ॥

उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् ।
ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् ॥ ४१.३१ ॥

गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति ।
अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् ॥ ४१.३२ ॥

तपसाराध्य विश्वेशं लब्धवान् योगमुत्तमम् ।
कुशतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ ४१.३३ ॥

स्नानं तत्र प्रकुर्वीत अश्वमेधफलं लभेत् ।
कोटितीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ ४१.३४ ॥

आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति ।
चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ ४१.३५ ॥

स्नातमात्रो नरस्तत्र सोमलोके महीयते ।
नर्मदादक्षिणे कूले संगमेश्वरमुत्तमम् ॥ ४१.३६ ॥

तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् ।
नर्मदायोत्तरे कूले तीर्थं परमशोभनम् ॥ ४१.३७ ॥

आदित्यायतनं रम्यमीश्वरेण तु भाषितम् ।
तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः ॥ ४१.३८ ॥

तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् ।
दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मिणः ॥ ४१.३९ ॥

मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ।
मातृतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ ४१.४० ॥

स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ।
ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् ॥ ४१.४१ ॥

तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः ।
काञ्चनं तु द्विजो दद्याद् यथाविभवविस्तरम् ॥ ४१.४२ ॥

पुष्पकेण विमानेन वायुलोकं स गच्छति ।
ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् ।
स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ॥ ४१.४३ ॥

चैत्रमासे तु सम्प्राप्ते शुक्लपक्षे त्रयोदशी ।
कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ॥ ४१.४४ ॥

यत्र तत्र समुत्पन्नो वरस्तत्र प्रियो भवेत् ।
स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ॥ ४१.४५ ॥

अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ ४१.४६ ॥

सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ॥ ४१.४७ ॥

सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् ।
त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ॥ ४१.४८ ॥

यस्तु चान्द्रायणं कुर्यात् तत्र तीर्थे समाहितः ।
सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ॥ ४१.४९ ॥

अग्निप्रवेशं यः कुर्यात् सोमतीर्थे नराधिप ।
जले चानशनं वापि नासौ मर्त्योऽभिजायते ॥ ४१.५० ॥

स्तम्भतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ४१.५१ ॥

ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् ।
योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ॥ ४१.५२ ॥

असुरा योधितास्तत्र वासुदेवेन कोटिशः ।
तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह ॥ ४१.५३ ॥

अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ।
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ॥ ४१.५४ ॥

कामतीर्थमिति ख्यातं यत्र कामोऽर्चयद् हरिम् ।
तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ॥ ४१.५५ ॥

कुसुमायुधरूपेण रुद्रोलोके महीयते ।
ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् ॥ ४१.५६ ॥

उमाहकमिति ख्यातं तत्र संतर्पयेत् पितॄन् ।
पौर्णमास्याममावास्यां श्राद्धं कुर्याद् यथाविधि ॥ ४१.५७ ॥

गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता ।
तस्मिंस्तु दापयेत् पिण्डान् वैशाख्यांतु विशेषतः ॥ ४१.५८ ॥

स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।
तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी ॥ ४१.५९ ॥

विश्वेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ॥ ४१.६० ॥

ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः ।
तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ॥ ४१.६१ ॥

यत्र नारायणो देवो मुनोनां भावितात्मनाम् ।
स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम् ॥ ४१.६२ ॥

अकोल्लंतु ततो गच्छेत् सर्वपापविनाशनम् ।
स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् ॥ ४१.६३ ॥

पिण्डप्रिदानं च कृतं प्रेत्यानन्तफलप्रदम् ।
त्रियम्बकेन तोयेन यश्चरुं श्रपयेत् ततः ॥ ४१.६४ ॥

अकोल्लमूले दद्याच्च पिण्डांश्चैव यथाविधि ।
तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ॥ ४१.६५ ॥

ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् ।
तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम् ॥ ४१.६६ ॥

शुक्लतीर्थं ततो गच्छेत् सर्वपापविनाशनम् ।
नास्ति तेन समन्तीर्थं नर्मदायां युधिष्ठिर ॥ ४१.६७ ॥

दर्शनात् स्पर्शनात् तस्य स्नानदानतपोजपात् ।
होमाच्चैवोपवासाच्च शुक्लतीर्थे महत्फलम् ॥ ४१.६८ ॥

योजनं तत् स्मृतं क्षेत्रं देवगन्धर्वसेवितम् ।
शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ॥ ४१.६९ ॥

पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।
देव्या सह सदा भर्गस्तत्र तिष्ठति शंकरः ॥ ४१.७० ॥

कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत ।
कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ॥ ४१.७१ ॥

देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा ।
गणाश्चाप्सरसो नागास्तत्र तिष्ठन्ति पुंगवाः ॥ ४१.७२ ॥

रञ्जितं हि यथा वस्त्रं शुक्लं भवति वारिणा ।
आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति ॥ ४१.७३ ॥

स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ॥

शुक्लतीर्थात् परं तीर्थं न भविष्यति पावनम् ॥ ४१.७४ ॥

पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ॥ ४१.७५ ॥

कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ।
घृतेन स्नापयेद् देवमुपोष्य परमेश्वरम् ॥ ४१.७६ ॥

एकविंशत्कुलोपेतो न च्यवेदीश्वरालयात् ।
तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः ॥ ४१.७७ ॥

न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् ।
शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् ॥ ४१.७८ ॥

तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति ।
अयने वा चतुर्दश्यां संक्रान्तौ विषुवे तथा ॥ ४१.७९ ॥

स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ।
दानं दद्याद् यथाशक्ति प्रीयेतां हरिशंकरौ ॥ ४१.८० ॥

एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम् ।
अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ॥ ४१.८१ ॥

उद्वादयति यस्तीर्थे तस्य पुण्यफलं श‍ृणु ।
यावत् तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च ॥ ४१.८२ ॥

तावद् वर्षसहस्राणि रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र यमतीर्थ मनुत्तमम् ॥ ४१.८३ ॥

कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर ।
स्नानं कृत्वा नक्तभोजी न पश्येद् योनिसङ्कटम् ॥ ४१.८४ ॥

ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् ।
संगमे तु नरः स्नायादुपवासपरायणः ॥ ४१.८५ ॥

ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः ।
एरण्डीसंगमे स्नात्वा भक्तिभावात्तु रञ्जितः ॥ ४१.८६ ॥

मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् ।
नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बिषैः ॥ ४१.८७ ॥

ततो गच्छेत राजेन्द्र तीर्थं कल्लोलकेश्वरम् ।
गङ्गावतरते तत्र दिने पुण्ये न संशयः ॥ ४१.८८ ॥

तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ४१.८९ ॥

नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
प्रीयते तस्य नन्दीशः सोमलोके महीयते ॥ ४१.९० ॥

ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् ।
तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति ॥ ४१.९१ ॥

तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् ।
रूपवान् जायते लोके धनभोगसमन्वितः ॥ ४१.९२ ॥

ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ ४१.९३ ॥

ज्येष्ठमासे तु सम्प्राप्ते चतुर्दश्यां विशेषतः ।
तत्रोपोष्य नरो भक्त्या दद्याद् दीपं घृतेन तु ॥ ४१.९४ ॥

घृतेन स्नापयेद् रुद्रं सघृतं श्रीफलं दहेत् ।
घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ॥ ४१.९५ ॥

सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः ।
शिवतुल्यबलो भूत्वा शिववत् क्रीडते चिरम् ॥ ४१.९६ ॥

अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।
स्नापयित्वा शिवं दद्याद् ब्राह्मणेभ्यस्तु भोजनम् ॥ ४१.९७ ॥

सर्वभोगसमायुक्तो विमाने सर्वकामिके ।
गत्वा शक्रस्य भवनं शक्रेण सह मोदते ॥ ४१.९८ ॥

ततः स्वर्गात् परिभ्रष्टो धनवान् भोगवान् भवेत् ।
अङ्गारकनवम्यां तु अमावास्यां तथैव च ॥ ४१.९९ ॥

स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत् ।
ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ॥ ४१.१०० ॥

श्रावणे मासी सम्प्राप्ते कृष्णपक्षे चतुर्दशी ।
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ॥ ४१.१०१ ॥

पितॄणां तर्पणं कृत्वा मुच्यते स? ऋणत्रयात् ।
गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ॥ ४१.१०२ ॥

अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ ४१.१०३ ॥

तस्य वै पश्चिमे देशे समीपे नातिदूरतः ।
दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ४१.१०४ ॥

उपोष्य रजनीमेकां मासि भाद्रपदे शुभे ।
अमावस्यां नरः स्नात्वा पूजयेद् वृषभध्वजम् ॥ ४१.१०५ ॥

काञ्चनेन विमानेन किङ्किणीजालमालिना ।
गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ॥ ४१.१०६ ॥

सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् ।
पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ॥ ४१.१०७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
एकचत्वारिशोऽध्यायः ॥४१ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे द्विचत्वारिंशत्तमोऽध्यायः

मार्कण्डेय उवाच
ततो गच्छेत राजेन्द्र भृगुतीर्थ मनुत्तमम् ।
तत्र देवो भृगुः पुर्वं रुद्रमाराधयत् पुरा ॥ ४२.१ ॥

दर्शनात् तस्य देवस्य सद्यः पापात् प्रमुच्यते ।
एतत् क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ॥ ४२.२ ॥

तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।
उपानहोस्तथा युग्मं देयमन्नं सकाञ्चनम् ॥ ४२.३ ॥

भोजनं च यथाशक्ति तदस्याक्षयमुच्यते ।
क्षरन्ति सर्वदानानि यज्ञदानं तपः क्रिया ॥ ४२.४ ॥

अक्षयं तत् तपस्तप्तं भृगुतीर्थे युधिष्ठिर ।
तस्यैव तपसोग्रेण तुष्टेन त्रिपुरारिणा ॥ ४२.५ ॥

सान्निध्यं तत्र कथितं भृगुतीर्थे युधिष्ठिर ।
ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम् ॥ ४२.६ ॥

यत्राराध्य त्रिशूलाङ्कं गौतमः सिद्धिमाप्तवान् ।
तत्र स्नात्वा नरो राजन् उपवासपरायणः ॥ ४२.७ ॥

काञ्चनेन विमानेन ब्रह्मलोके महीयते ।
वृषोत्सर्गं ततो गच्छेच्छाश्वतं पदमाप्नुयात् ॥ ४२.८ ॥

न जानन्ति नरा मूढा विष्णोर्मायाविमोहिताः ।
धौतपापं ततो गच्छेद् धौतं यत्र वृषेण तु ॥ ४२.९ ॥

नर्मदायां स्थितं राजन् सर्वपातकनाशनम् ।
तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥ ४२.१० ॥

तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः ।
चतुर्भुजस्त्रिनेत्रश्च हरतुल्यबलो भवेत् ॥ ४२.११ ॥

वसेत् कल्पायुतं साग्रं शिवतुल्यपराक्रमः ।
कालेन महता जातः पृथिव्यामेकराड् भवेत् ॥ ४२.१२ ॥

ततो गच्छेत राजेन्द्र हंसतीर्थ मनुत्तमम् ।
तत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ ४२.१३ ॥

ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः ।
वराहतीर्थ माख्यातं विष्णुलोकगतिप्रदम् ॥ ४२.१४ ॥

ततो गच्छेत राजेन्द्र चन्द्रतीर्थमनुत्तमम् ।
पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत् ॥ ४२.१५ ॥

स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत् ।
देवतीर्थ ततो गच्छेत् सर्वदेवनमकृतम् ॥ ४२.१६ ॥

तत्र स्नात्वा च राजेन्द्र दैवतैः सह मोदते ।
ततो गच्छेत राजेन्द्र शङ्कितीर्थमनुत्तमम् ॥ ४२.१७ ॥

यत् तत्र दीयते दानं सर्वं कोटिगुणं भवेत् ।
ततो गच्छेत राजेन्द्र तीर्थं पैतामहं शुभम् ॥ ४२.१८ ॥

यत्तत्र क्रियते श्राद्धं सर्वं तदक्षयं भवेत् ।
सावित्रीतीर्थमासाद्य यस्तु प्राणान् परित्यजेत् ॥ ४२.१९ ॥

विधूय सर्वपापानि ब्रह्मलोके महीयते ।
मनोहरं तु तत्रैव तीर्थं परमशोभनम् ॥ ४२.२० ॥

स्नात्वा तत्र नरो राजन् रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र कन्यातीर्थमनुत्तमम् ॥ ४२.२१ ॥

स्नात्वा तत्र नरो राजन्सर्वपारैः प्रमुच्यते ।
शुक्लपक्षे तृतीयायां स्नानमात्रं समाचरेत् ॥ ४२.२२ ॥

स्नातमात्रो नरस्तत्र पृतिव्यामेकराड् भवेत् ।
स्वर्गबिन्दुं ततो गच्छेत्तीर्थं देवनमस्कृतम् ॥ ४२.२३ ॥

तत्र स्नात्वा नरो राजन् दुर्गतिं नैव गच्छति ।
अप्सरेशं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ ४२.२४ ॥

क्रीडते नाकलोकस्थो ह्यप्सरोभिः स मोदते ।
ततो गच्छेत राजेन्द्र भारभूतिमनुत्तमम् ॥ ४२.२५ ॥

उपोषितोऽर्चयेदीशं रुद्रलोके महीयते ।
अस्मिंस्तीर्थे मृतो राजन् गाणपत्यमवाप्नुयात् ॥ ४२.२६ ॥

कार्त्तिके मासि देवेशमर्चयेत् पार्वतीपतिम् ।
अश्वमेधाद् दशगुणं प्रवदन्ति मनीषिणः ॥ ४२.२७ ॥

वृषभं यः प्रयच्छेत तत्र कुन्देन्दुसप्रभम् ।
वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ ४२.२८ ॥

एतत् तीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् ।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ ४२.२९ ॥

जलप्रवेशं यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।
हंसयुक्तेन यानेन स्वर्गलोकं स गच्छति ॥ ४२.३० ॥

एरण्ड्या नर्मदायास्तु संगमं लोकविश्रुतम् ।
तच्च तीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥ ४२.३१ ॥

उपवासकृतो भूत्वा नित्यं व्रतपरायणः ।
तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया ॥ ४२.३२ ॥

ततो गच्छेत राजेन्द्र नर्मदोदधिसंगमम् ।
जमदग्निरिति ख्यातः सिद्धो यत्र जनार्दनः ॥ ४२.३३ ॥

तत्र स्नात्वा नरो राजन् नर्मदोदधिसंगमे ।
त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः ॥ ४२.३४ ॥

ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन् रुद्रलोके महीयते ॥ ४२.३५ ॥

तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् ।
सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ॥ ४२.३६ ॥

ततो गच्छेत राजेन्द्र अलिकातीर्थमुत्तमम् ।
उपोष्य रजनीमेकां नियतो नियताशनः ॥ ४२.३७ ॥

अस्य तीर्थस्य माहात्म्यान्मुच्यते ब्रह्महत्यया ।
एतानि तव संक्षेपात् प्राधान्यात् कथितानि तु ॥ ४२.३८ ॥

न शक्या विस्तराद् वक्तुं संख्या तीर्थेषु पाण्डव ।
एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ॥ ४२.३९ ॥

नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ।
मनसा संस्मरेद्यस्तु नर्मदां वै युधिष्ठिर ॥ ४२.४० ॥

चान्द्रायणशतं साग्रं लभते नात्र संशयः ।
अश्रद्दधानाः पुरुषा नास्तिक्यं घोरमाश्रिताः ॥ ४२.४१ ॥

पतन्ति नरके घोरे इत्याह परमेश्वरः ।
नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ ४२.४२ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
द्विचत्वारिंशोऽध्यायः ॥४२ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे त्रिचत्वारिंशत्तमोऽध्यायः

इदं त्रैलोक्यविख्यातं तीर्थं नैमिशमुत्तमम् ।
सूत उवाच
महादेवप्रियकरं महापातकनाशनम् ॥ ४३.१ ॥

महादेवं दिदृक्षूणामृषीणणा परमेष्ठिनाम् ।
ब्रहामणा निर्मितं स्थानं तपस्तप्तुं द्विजोत्तमाः ॥ ४३.२ ॥

मरीचयोऽत्रये विप्रा वसिष्ठाः क्रतवस्तथा ।
भृगवोऽङ्गिरसः पूर्वं ब्रह्माणं कमलोद्भवम् ॥ ४३.३ ॥

समेत्य सर्ववरदं चतुर्मूर्ति चतुर्मुखम् ।
पृच्छन्ति प्रणिपत्यैनं विश्वकर्माणमच्युतम् ॥ ४३.४ ॥

षट्कुलीया ऊचुः ।
भगवन् देवमीशानं तमेवैकं कपर्दिनम् ।
केनोपायेन पश्यामो ब्रूहि देवनमस्तव ॥ ४३.५ ॥

ब्रह्मोवाच ।
सत्रं सहस्रमासध्वं वाङ्मनोदोषवर्जिताः ।
देशं च वः प्रवक्ष्यामि यस्मिन् देशे चरिष्यथ ॥ ४३.६ ॥

मुक्त्वा मनोमयं चक्रं संसृष्ट्वा तानुवाच ह ।
क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् ॥ ४३.७ ॥

यत्रास्य नेमिः शीर्येत स देशः पुरुषर्षभाः ।
ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् ॥ ४३.८ ॥

तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।
नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ॥ ४३.९ ॥

सिद्धचारणसंकीर्णं यक्षगन्धर्वसेवितम् ।
स्थानं भगवतः शंभोरेतन्नैमिशमुत्तमम् ॥ ४३.१० ॥

अत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।
तपस्तप्त्वा पुरा देवा लेभिरे प्रवरान् वरान् ॥ ४३.११ ॥

इमं देशं समाश्रित्य षट्कुलीयाः समाहिताः ।
सत्रेणाराध्य देवेशं दृष्टवन्तो महेश्वरम् ॥ ४३.१२ ॥

अत्र दानं तपस्तप्तं स्नानं जप्यादिकं च यत् ।
एकैकं पावयेत् पापं सप्तजन्मकृतं द्विजाः ॥ ४३.१३ ॥

अत्र पूर्वं स भगवानृषीणां सत्रमासताम् ।
स वै प्रोवाच ब्रह्माण्डं पुराणं ब्रह्मभाषितम् ॥ ४३.१४ ॥

अत्र देवो महादेवो रुद्राण्या किल विश्वकृत् ।
रमतेऽध्यापि भगवान् प्रमथैः परिवारितः ॥ ४३.१५ ॥

अत्र प्राणान् परित्यज्य नियमेन द्विजातयः ।
ब्रह्मलोकं गमिष्यन्ति यत्र गत्वा न जायते ॥ ४३.१६ ॥

अन्यच्च तीर्थप्रवरं जाप्येश्वरमितिश्रुतम् ।
जजाप रुद्रमनिशं यत्र नन्दी महागणः ॥ ४३.१७ ॥

प्रीतस्तस्य महादेवो देव्या सह पिनाकधृक् ।
ददावात्मसमानत्वं मृत्युवञ्चनमेव च ॥ ४३.१८ ॥

अभूदृषिः स धर्मात्मा शिलादो नाम धर्मवित् ।
आराधयन्महादेवं पुत्रार्थं वृषभध्वजम् ॥ ४३.१९ ॥

स्य वर्षसहस्रान्ते तप्यमानस्य विश्वकृत् ।
शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत ॥ ४३.२० ॥

स वव्रे वरमीशानं वरेण्यं गिरिजापतिम् ।
अयोनिजं मृत्युहीनं देहि पुत्रं त्वया समम् ॥ ४३.२१ ॥

तथास्त्वित्याह भगवान् देव्या सह महेश्वरः ।
पश्यतस्तस्य विप्रर्षेरन्तर्द्धानं गतो हरः ॥ ४३.२२ ॥

ततो युयोजितां भूमिं शिलादो धर्मवित्तमः ।
चकर्ष लाङ्गलेनोर्वां भित्त्वादृश्यत शोभनः ॥ ४३.२३ ॥

संवर्त्तकोऽनलप्रख्यः कुमारः प्रहसन्निव ।
रूपलावण्यसम्पन्नस्तेजसा भासयन् दिशः ॥ ४३.२४ ॥

कुमारतुल्योऽप्रतिमो मेघगम्भीरया गिरा ।
शिलादं तात तातेति प्राह नन्दी पुनः पुनः ॥ ४३.२५ ॥

तं दृष्ट्वा नन्दनं जातं शिलादः परिषस्वजे ।
मुनीनां दर्शयामास ये तदाश्रमवासिनः ॥ ४३.२६ ॥

जातकर्मादिकाः सर्वाः क्रियास्तस्य चकार ह ।
उपनीय यथाशास्त्रं वेदमध्यापयत् सुतम् ॥ ४३.२७ ॥

अधीतवेदो भगवान् नन्दी मतिमनुत्तमाम् ।
चक्रे महेश्वरं दृष्ट्वा जेष्ये मृत्युमिति प्रभुम् ॥ ४३.२८ ॥

स गत्वा सरितं पुण्यामेकाग्रश्रद्धयान्वितः ।
जजाप रुद्रमनिशं महेशासक्तमानसः ॥ ४३.२९ ॥

तस्य कोट्यां तु पूर्णायां शंकरो भक्तवत्सलः ।
आगत्य साम्बः सगणो वरदोऽस्मीत्युवाच ह ॥ ४३.३० ॥

स वव्रे पुनरेवेशं जपेयं कोटिमीश्वरम् ।
भवदाहंमहादेव देहीति परमेश्वर ॥ ४३.३१ ॥

एवमस्त्विति सम्प्रोच्य देवोऽप्यन्तरधीयत ।
जजाप कोटिं भगवान् भूयस्तद्गतमानसः ॥ ४३.३२ ॥

द्वितीयायां च कोट्यां वै सम्पूर्णायां वृषध्वजः ।
आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ॥ ४३.३३ ॥

तृतीयां जप्तुमिच्छामि कोटिं भूयोऽपि शंकर ।
तथास्त्वित्याह विश्वात्मा देवोऽप्यन्तरधीयत ॥ ४३.३४ ॥

कोटित्रयेऽथ सम्पूर्णे देवः प्रीतमना भृशम् ।
आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ॥ ४३.३५ ॥

जपेयं कोटिमन्यां वै भूयोऽपि तव तेजसा ।
इत्युक्ते भगवानाह न जप्तव्यं त्वया पुनः ॥ ४३.३६ ॥

अमरो जरया त्यक्तो मम पार्श्वगतः सदा ।
महागणपतिर्देव्याः पुत्रो भव महेश्वरः ॥ ४३.३७ ॥

योगीश्वरो महायोगी गणानामीश्वरेश्वरः ।
सर्वलोकाधिपः श्रीमान् सर्वज्ञो मद्बलान्वितः ॥ ४३.३८ ॥

ज्ञानं तन्मामकं दिव्यं हस्तामलकवत्तव ।
आभूतसम्प्लवस्थायी ततो यास्यसि तत्पदम् ॥ ४३.३९ ॥

एतदुक्त्वा महादेवो गणानाहूय शंकरः ।
अभिषेकेण युक्तेन नन्दीश्वरमयोजयत् ॥ ४३.४० ॥

उद्वाहयामास च तं स्वयमेव पिनाकधृक् ।
मरुतां च शुभां कन्यां स्वयमेति च विश्रुताम् ॥ ४३.४१ ॥

एतज्जप्येश्वरं स्थानं देवदेवस्य शूलिनः ।
यत्र तत्र मृतो मर्त्त्यो रुद्रलोके महीयते ॥ ४३.४२ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
त्रिचत्वारिंशोऽध्यायः ॥४३ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे चतुश्चत्वारिंशत्तमोऽध्यायः

सूत उवाच
अन्यच्च तीर्थप्रवरं जप्येश्वरसमीपतः ।
नाम्ना पञ्चनदं पुण्यं सर्वपापप्रणाशनम् ॥ ४४.१ ॥

त्रिरात्रमुषितस्तत्र पूजयित्वा महेश्वरम् ।
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥ ४४.२ ॥

अन्यच्च तीर्थप्रवरं शंकरस्यामितौजसः ।
महाभैरवमित्युक्तं महापातकनाशनम् ॥ ४४.३ ॥

तीर्थानां च परं तीर्थं वितस्ता परमा नदी ।
सर्वपापहरा पुण्या स्वयमेव गिरीन्द्रजा ॥ ४४.४ ॥

तीर्थं पञ्चतपो नाम शंभोरमिततेजसः ।
यत्र देवादिदेवेन शक्रार्थे पूजितो भवः ॥ ४४.५ ॥

पिण्डदानादिकं तत्र प्रेत्यानन्तफलप्रदम् ।
मृतस्तत्रापि नियमाद् ब्रह्मलोके महीयते ॥ ४४.६ ॥

कायावरोहणं नाम महादेवालयं शुभम् ।
यत्र माहेश्वरा धर्मा मुनिभिः सम्प्रवर्त्तिताः ॥ ४४.७ ॥

श्राद्धं दानं तपो होम उपवासस्तथाऽक्षयः ।
परित्यजति यः प्राणान् रुद्रलोकं स गच्छति ॥ ४४.८ ॥

अन्यच्च तीर्थप्रवरं कन्यातीर्थमिति श्रुतम् ।
तत्र गत्वा त्यजेत् प्राणाँल्लोकान् प्राप्नोति शाश्वतान् ॥ ४४.९ ॥

जामदग्न्यस्य तु शुभं रामस्याक्लिष्टकर्मणः ।
तत्र स्नात्वा तीर्थ वरे गोसहस्रफलं लभेत् ॥ ४४.१० ॥

महाकालमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
गत्वा प्राणान् परित्यज्य गाणपत्यमवाप्नुयात् ॥ ४४.११ ॥

गुह्याद् गुह्यतमं तीर्थं नकुलीश्वरमुत्तमम् ।
तत्र सन्निहितः श्रीमान् भगवान् नकुलीश्वरः ॥ ४४.१२ ॥

हिमवच्छिखरे रम्ये गङ्गाद्वारे सुशोभने ।
देव्या सह महादेवो नित्यं शिष्यैश्च संवृतः ॥ ४४.१३ ॥

तत्र स्नात्वा महादेवं पूजयित्वा वृषध्वजम् ।
सर्वपापैर्विमुच्येत मृतस्तज्ज्ञानमाप्नुयात् ॥ ४४.१४ ॥

अन्यच्च देवदेवस्य स्थानं पुण्यतमं शुभम् ।
भीमेश्वरमिति ख्यातं गत्वा मुञ्चति पातकम् ॥ ४४.१५ ॥

तथान्यच्चण्डवेगायाः संभेदः पापनाशनः ।
तत्र स्नात्वा च पीत्वा च मुच्यते ब्रह्महत्यया ॥ ४४.१६ ॥

सर्वेषामपि चैतेषां तीर्थानां परमा पुरी ।
नाम्ना वाराणसी दिव्या कोटिकोट्ययुताधिका ॥ ४४.१७ ॥

तस्याः पुरस्तान्माहात्म्यं भाषितं वो मया त्विह ।
नान्यत्र लभ्यते मुक्तिं र्योगेनाप्येकजन्मना ॥ ४४.१८ ॥

एते प्राधान्यतः प्रोक्ता देशाः पापहरा नृणाम् ।
गत्वा संक्षालयेत् पापं जन्मान्तरशतैः कृतम् ॥ ४४.१९ ॥

यः स्वधर्मान् परित्यज्य तीर्थसेवां करोति हि ।
न तस्य फलते तीर्थमहि लोके परत्र च ॥ ४४.२० ॥

प्रायश्चित्ती च विधुरस्तथा यायावरो गृही ।
प्रकुर्यात् तीर्थसंसेवां ये चान्यस्तादृशा जनाः ॥ ४४.२१ ॥

सहाग्निर्वा सपत्नीको गच्छेत् तीर्थानि यत्नतः ।
सर्वपापविनिर्मुक्तो यथोक्तां गतिमाप्नुयात् ॥ ४४.२२ ॥

ऋणानि त्रीण्यपाकृत्य कुर्वन्वा तीर्थसेवनम् ।
विधाय वृत्तिं पुत्राणां भार्यां तेषु विधाय च ॥ ४४.२३ ॥

प्रायश्चित्तप्रसङ्गेन तीर्थमाहात्म्यमीरितम् ।
यः पठेच्छृणुयाद् वाऽपि मुच्यते सर्वपातकैः ॥ ४४.२४ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
चतुष्चत्वारिंशोऽध्यायः ॥४४ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे पञ्चचत्वारिंशत्तमोऽध्यायः

सूत उवाच
एतदाकर्ण्य विज्ञानं नारायणमुखेरितम् ।
कूर्मरूपधरं देवं पप्रच्छुर्मुनयः प्रभुम् ॥ ४५.१ ॥

मुनयः ऊचुः
कथिता भवता धर्मो मोक्षज्ञानं सविस्तरम् ।
लोकानां सर्गविस्तारो वंशमन्वन्तराणि च ॥ ४५.२ ॥

प्रतिसर्गमिदानीं नो वक्तुमर्हसी माधव ।
भूतानां भूतभव्येश यथा पूर्वं त्वयोदितम् ॥ ४५.३ ॥

सूत उवाच
श्रुत्वा तेषां तदा वाक्यं भगवान् कूर्मरूपधृक् ।
व्याजहार महायोगी भूतानां प्रतिसंचरम् ॥ ४५.४ ॥

कूर्म उवाच
नित्यो नैमित्तिकश्चैव प्राकृतोऽत्यन्तिकास्तथा ।
चतुर्द्धाऽयं पुराणेऽस्मिन् प्रोच्यते प्रतिसंचरः ॥ ४५.५ ॥

योऽयं संदृश्यते नित्यं लोके भूतक्षयस्त्विह ।
नित्यः संकीर्त्यते नाम्ना मुनिभिः प्रतिसंचरः ॥ ४५.६ ॥

ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भविष्यति ।
त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥ ४५.७ ॥

महादाद्यां विशेषान्तं यदा संयाति संक्षयम् ।
प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ॥ ४५.८ ॥

ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।
प्रलयः प्रतिसर्गोऽयं कालचिन्तापरैर्द्विजैः ॥ ४५.९ ॥

आत्यन्तिकश्च कथितः प्रलयोऽत्र लयसाधनः ।
नैमित्तिकमिदानीं वः कथयिष्ये समासतः ॥ ४५.१० ॥

चतुर्युगसहस्रान्ते सम्प्राप्ते प्रतिसंचरे ।
स्वात्मसंस्थाः प्रजाः कर्तुं प्रतिपेदे प्रजापतिः ॥ ४५.११ ॥

ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी ।
भूतक्षयकरी घोरा सर्वभूतक्षयंकरी ॥ ४५.१२ ॥

ततो यान्यल्पसाराणि सत्त्वानि पृथिवीपते ।
तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥ ४५.१३ ॥

सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः ।
असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः ॥ ४५.१४ ॥

तस्य ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे ।
छतेनाहारेण ता दीप्ताः सूर्याः सप्त भवन्त्युत ॥ ४५.१५ ॥

ततस्ते रश्मयः सप्त सूर्या भूत्वा चतुर्दिशम् ।
चतुर्लोकमिदं सर्वं दहन्ति शिखिनस्तथा ॥ ४५.१६ ॥

व्याप्नुवन्तश्च ते विप्रास्तूर्ध्वं चाधश्च रश्मिभिः ।
दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रदीपिताः ॥ ४५.१७ ॥

ते सूर्या वारिणा दीप्ता बहुसाहस्ररश्मयः ।
खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम् ॥ ४५.१८ ॥

ततस्तेषां प्रतापेन दह्यमाना वसुंधरा ।
साद्रिनद्यर्णवद्वीपा निस्नेहा समपद्यते ॥ ४५.१९ ॥

दीप्ताभिः संतताभिश्च रश्मिभिर्वै समन्ततः ।
अधश्चोर्ध्वं च लग्नाभिस्तिर्यक् चैव समावृतम् ॥ ४५.२० ॥

सूर्याग्निना प्रमृष्टानां संसृष्टानां परस्परम् ।
एकत्वमुपयातानामेकज्वालं भवत्युत ॥ ४५.२१ ॥

सर्वलोकप्रणाशश्च सोऽग्निर्भूत्वा सुकुण्डली ।
चतुर्लोकमिदं सर्वं निर्दहत्यात्मतेजसा ॥ ४५.२२ ॥

ततः प्रलीने सर्वस्मिञ्जङ्गमे स्थावरे तथा ।
निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठा प्रकाशते ॥ ४५.२३ ॥

अम्बरीषमिवाभाति सर्वमापूरितं जगत् ।
सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते पुनः ॥ ४५.२४ ॥

पाताले यानि सत्त्वानि महोदधिगतानि च ।
ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥ ४५.२५ ॥

द्वीपांश्च पर्वतांश्चैव वर्षाण्यथ महोदधीन् ।
तान् सर्वान् भस्मसात् चक्रे सप्तात्मा पावकः प्रभुः ॥ ४५.२६ ॥

समुद्रेभ्यो नदीभ्यश्च आप शुष्काश्च सर्वशः ।
पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ॥ ४५.२७ ॥

ततः संवर्त्तकः शैलानतिक्रम्य महांस्तथा ।
लोकान् दहति दीप्तात्मा रुद्रतेजोविजॄम्भितः ॥ ४५.२८ ॥

स दग्ध्वा पृथिवीं देवो रसातलमशोषयत् ।
अधस्तात् पृथिवीं दग्ध्वा दिवमूर्ध्वं दहिष्यति ॥ ४५.२९ ॥

योजनानां शतानीह सहस्राण्ययुतानि च ।
उत्तिष्ठन्ति शिखास्तस्य वह्नेः संवर्त्तकस्य तु ॥ ४५.३० ॥

गन्धर्वांश्च पिशाचांश्च सयक्षोरगराक्षसान् ।
तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः ॥ ४५.३१ ॥

भूर्लोकं च भुवर्लोकं स्वर्लोकं च तथा महः ।
दहेदशेषं कालाग्निः कालाविष्टतनुः स्वयम् ॥ ४५.३२ ॥

व्याप्तेष्वेतेषु लोकेषु तिर्यगूर्ध्वमथाग्निना ।
तत् तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः ॥ ४५.३३ ॥

अतो गूडमिदं सर्वं तदा चैकं प्रकाशते ।
ततो गजकुलाकारास्तडिद्भिः समलंकृताः ॥ ४५.३४ ॥

उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्त्तका घनाः ।
केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः ।.४५।३५ ॥

धूम्रवर्णास्तथा केचित् केचित् पीताः पयोधराः ।
केचिद् रासभवर्णास्तु लाक्षारसनिभाः परे ॥ ४५.३६ ॥

शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा ।
मनः शिलाभास्त्वन्ये च कपोतसदृशाः परे ॥ ४५.३७ ॥

इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा ।
इन्द्रचापनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥ ४५.३८ ॥

केचित् पर्वतसंकाशाः केचिद् गजकुलोपमाः ।
कूटाङ्गारनिभाश्चान्ये केचिन्मीनकुलोद्वहाः ॥ ४५.३९ ॥

बहूरूपा घोररूपा घोरस्वरनिनादिनः ।
तदा जलधराः सर्वे पूरयन्ति नभः स्थलम् ॥ ४५.४० ॥

ततस्ते जलदा घोरा राविणो भास्करात्मजाः ।
सप्तधा संवृतात्मानं तमग्निं शमयन्ति ते ॥ ४५.४१ ॥

ततस्ते जलदा वर्षं मुञ्चन्तीह महौघवत् ।
सुघोरमशिवं वर्षं नाशयन्ति च पावकम् ॥ ४५.४२ ॥

प्रवृद्धैस्तैस्तदात्यर्थमम्भसा पूर्यते जगत् ।
अद्भिस्तेजोभिभूतत्वात् तदग्निः प्रविशत्यपः ॥ ४५.४३ ॥

नष्टे चाग्नौ वर्षशतैः पयोदाः क्षयसंभवाः ।
प्लावयन्तोऽथ भुवनं महाजलपरिस्रवैः ॥ ४५.४४ ॥

धाराभिः पूरयन्तीदं चोद्यमानाः स्वयंभुवा ।
अत्यन्तसलिलौघैश्च वेला इव महोदधेः ॥ ४५.४५ ॥

साद्रिद्वीपा तथा पृथ्वी जलैः संच्छाद्यते शनैः ।
आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ॥ ४५.४६ ॥

पुनः पतति तद् भूमौ पूर्यन्ते तेन चार्णवाः ।
ततः समुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः ॥ ४५.४७ ॥

पर्वताश्च विलीयन्ते मही चाप्सु निमज्जति ।
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥ ४५.४८ ॥

योगनिन्द्रां समास्थाय शेते देवः प्रजापतिः ।
चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः ॥ ४५.४९ ॥

वाराहो वर्त्तते कल्पो यस्य विस्तार ईरितः ।
असंख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः ॥ ४५.५० ॥

कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ।
सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ॥ ४५.५१ ॥

तामसेषु हरस्योक्तं राजसेषु प्रजापतेः ॥

योऽयं प्रवर्त्तते कल्पो वाराहः सात्त्विको मतः ॥ ४५.५२ ॥

अन्ये च सात्त्विकाः कल्पा मम तेषु परिग्रहः ।
ध्यानं तपस्तथा ज्ञानं लब्ध्वा तेष्वेव योगिनः ॥ ४५.५३ ॥

आराध्य गिरिशं मां च यान्ति तत् परमं पदम् ।
सोऽहं तत्त्वं समास्थाय मायी मायामयीं स्वयम् ॥ ४५.५४ ॥

एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजामि तु ।
मां पश्यन्ति महात्मानः सुप्तिकाले महर्षयः ॥ ४५.५५ ॥

जनलोके वर्त्तमानास्तपसा योगचक्षुषा ।
अहं पुराणपुरुषो भूर्भुवः प्रभवो विभुः ॥ ४५.५६ ॥

सहस्रचरणः श्रीमान् सहस्रांशुः सहस्रपात् ।
मन्त्रोऽग्निर्ब्राह्मिणा गावः कुशाश्च समिधो ह्यहम् ॥ ४५.५७ ॥

प्रोक्षणी च श्रुवश्चैव सोमो घृतमथास्म्यहम् ।
संवर्त्तको महानात्मा पवित्रं परमं यशः ॥ ४५.५८ ॥

मेधाप्यहं प्रभुर्गोप्ता गोपतिर्ब्रह्मणो मुखम् ।
अनन्तस्तारको योगी गतिर्गतिमतां वरः ॥ ४५.५९ ॥

हंसः प्राणोऽथ कपिलो विश्वमूर्त्तिः सनातनः ।
क्षेत्रज्ञः प्रकृतिः कालो जगद्बीजमथामृतम् ॥ ४५.६० ॥

माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते ।
आदित्यवर्णो भुवनस्य गोप्ता
नारायणः पुरुषो योगमूर्त्तिः ।
तं पश्यन्ति यतयो योगनिष्ठा
ञञज्ञात्वात्मानममृतत्वं व्रजन्ति ॥ ४५.६१ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
पञ्चचत्वारिंशोऽध्यायः ॥४५ ॥

[mks_separator style=”dotted” height=”2″]

कूर्मपुराणए उत्तरभागे षड्चत्वारिंशत्तमोऽध्यायः

कूर्म उवाच
अतः परं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् ।
प्राकृतं तत्समासेन श‍ृणुध्वं गदतो मम ॥ ४६.१ ॥

गते परार्द्धद्वितये कालो लोकप्रकालनः ।
कालाग्निर्भस्मसात् कर्त्तुं करोति निकिलं गतिम् ॥ ४६.२ ॥

स्वात्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः ।
दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ॥ ४६.३ ॥

तमाविश्य महादेवो भगवान्नीललोहितः ।
करोति लोकसंहारं भीषणं रूपमाश्रितः ॥ ४६.४ ॥

प्रविश्य मण्डलं सौरं कृत्वाऽसौ बहुधा पुनः ।
निर्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक् ॥ ४६.५ ॥

स दग्ध्वा सकलं विश्वमस्त्रं ब्रह्मशिरो महत् ।
देवतानां शरीरेषु क्षिपत्यखिलदाहकम् ॥ ४६.६ ॥

दग्धेष्वशेषदेवेषु देवी गिरिवरात्मजा ।
एषासा साक्षिणी शंभोस्तिष्ठते वैदिकी श्रुतिः ॥ ४६.७ ॥

शिरः कपालैर्देवानां कृतस्रग्वरभूषणः ।
आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम् ॥ ४६.८ ॥

सहस्रनयनो देवः सहस्राकृतिरीश्वरः ।
सहस्रहस्तचरणः सहस्रार्चिर्महाभुजः ॥ ४६.९ ॥

दंष्ट्राकरालवदनः प्रदीप्तानललोचनः ।
त्रिशूलकृत्तिवसनो योगमैश्वरमास्थितः ॥ ४६.१० ॥

पीत्वा तत्परमानन्दं प्रभूतममृतं स्वयम् ।
करोति ताण्डवं देवीमालोक्य परमेश्वरः ॥ ४६.११ ॥

पीत्वा नृत्यामृतं देवी भर्त्तुः परममङ्गलम् ।
योगमास्थाय देवस्य देहमायाति शूलिनः ॥ ४६.१२ ॥

स भुक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् ।
ज्योतिः स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम् ॥ ४६.१३ ॥

संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकधृक् ।
गुणैरशेषैः पृथिवीविलयं याति वारिषु ॥ ४६.१४ ॥

स वारितत्त्वं सगुणं ग्रसते हव्यवाहनः ।
तैजसं गुणसंयुक्तं वायौ संयाति संक्षयम् ॥ ४६.१५ ॥

आकाशे सगुणो वायुः प्रलयं याति विश्वभृत् ।
भूतादौ च तथाकाशं लीयते गुणसंयुतः ॥ ४६.१६ ॥

इन्द्रियाणि च सर्वाणि तैजसे याति संक्षयम् ।
वैकारिको देवगणाः प्रलंय यान्ति सत्तमाः ॥ ४६.१७ ॥

त्रिविधोऽयमहंकारो महति प्रलये व्रजेत् ।
महान्तमेभिः सहितं ब्रह्माणममितौजसम् ॥ ४६.१८ ॥

अव्यक्तं जगतो योनिः संहरेदेकमव्ययम् ।
एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः ॥ ४६.१९ ॥

वियोजयति चान्योन्यं प्रधानं पुरुषं परम् ।
प्रधानपुंसोरजयोरेष संहार ईरितः ॥ ४६.२० ॥

महेश्वरेच्छाजनितो न स्वयं विद्यते लयः ।
गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते ॥ ४६.२१ ॥

प्रधानं जगतो योनिर्मायातत्त्वमचेतनम् ।
कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः ॥ ४६.२२ ॥

गीयते मुनिभिः साक्षी महानेषः पितामहः ॥

एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा ॥ ४६.२३ ॥

प्रधानाद्यं विशेषान्तं देहे रुद्र इति श्रुतिः ।
योगिनामथ सर्वेषां ज्ञानविन्यस्तचेतसाम् ॥ ४६.२४ ॥

आत्यन्तिकं चैव लयं विदधातीह शंकरः ।
इत्येष भगवान् रुद्रः संहारं कुरुते वशी ॥ ४६.२५ ॥

स्थापिका मोहनी शक्तिर्नारायण इति श्रुतिः ।
हिरण्यगर्भो भगवान् जगत् सदसदात्मकम् ॥ ४६.२६ ॥

सृजेदशेषं प्रकृतेस्तन्मयः पञ्चविंशकः ।
सर्वतः सर्वगाः शान्ताः स्वात्मन्येवव्यवस्थिताः ।
शक्तयो ब्रह्मविण्वीशा भुक्तिमुक्तिफलप्रदाः ॥ ४६.२७ ॥

सर्वेश्वराः सर्ववन्द्याः शाश्वतानन्तभोगिनः
एकमेवाक्षरं तत्त्वं पुंप्रधानेश्वरात्मकम् ॥ ४६.२८ ॥

अन्याश्च शक्तयो दिव्याः सन्ति तत्र सहस्रशः ।
इज्यन्ते विविधैर्यज्ञैः शक्रादित्यादयोऽमराः ।
एकैकस्य सहस्राणि देहानां वै शतानि च ॥ ४६.२९ ॥

कथ्यन्ते चैव माहात्म्याच्छक्तिरेकैव निर्गुणाः ।
तां तां शक्तिं समाधाय स्वयं देवो महेश्वरः ॥ ४६.३० ॥

करोति देहान् विविधान् दृश्यते चैव लीलया ।
इज्यते सर्वयज्ञेषु ब्राह्मणैर्वेदवादिभिः ॥ ४६.३१ ॥

सर्वकामप्रदो रुद्र इत्येषा वैदिकी श्रुतिः ।
सर्वासामेव शक्तीनां ब्रह्मविष्णुमहेश्वराः ॥ ४६.३२ ॥

प्राधान्येन स्मृता देवाः शक्तयः परमात्मनः ।
आभ्यः परस्ताद् भगवान् परमात्मा सनातनः ॥ ४६.३३ ॥

गीयते सर्वशक्त्यात्मा शूलपाणिर्महेश्वरः ।
एनमेके वदन्त्यग्निं नारायणमथापरे ॥ ४६.३४ ॥

इन्द्रमेके परे प्राणं ब्रह्माणमपरे जगुः ।
ब्रह्मविष्णवग्निवरुणाः सर्वे देवास्तथर्षयः ॥ ४६.३५ ॥

एकस्यैवाथ रुद्रस्य भेदास्ते परिकीर्त्तिताः ।
यं यं भेदं समाश्रित्य यजन्ति परमेश्वरम् ॥ ४६.३६ ॥

तत् तद् रूपं समास्थाय प्रददाति फलं शिवः ।
तस्मादेकतरं भेदं समाश्रित्यापि शाश्वतम् ॥ ४६.३७ ॥

आराधयन्महादेवं याति तत्परमं पदम् ।
किन्तु देवं महादेवं सर्वशक्तिं सनातनम् ॥ ४६.३८ ॥

आराधयेद् वै गिरिशं सगुणं वाऽथ निर्गुणम् ।
मया प्रोक्तो हि भवतां योगः प्रागेव निर्गुणः ॥ ४६.३९ ॥

आरुरुक्षुस्तु सगुणं पूजयेत् परमेश्वरम् ।
पिनाकिनं त्रिनयनं जटिलं कृत्तिवाससम् ॥ ४६.४० ॥

पद्मासनस्थं रुक्माभं चिन्तयेद् वैदिकी श्रुतिः ।
एष योगः समुद्दिष्टः सबीजो मुनिसत्तमाः ॥ ४६.४१ ॥

अत्राप्यशक्तोऽथ हरं विश्वं ब्रह्माणर्चयेत् ।
अथ चेदसमर्थः स्यात्तत्रापि मनिपुङ्गवाः ॥ ४६.४२ ॥

ततो वायग्निशक्रादीन् पूजयेत्भक्तिसंयुतः ।
तस्मात् सर्वान् परित्यज्य देवान् ब्रह्मपुरोगमान् ॥ ४६.४३ ॥

आराधयेद् विरूपाक्षमादिमध्यान्तसंस्थितम् ।
भक्तियोगसमायुक्तः स्वधर्मनिरतः शुचिः ॥ ४६.४४ ॥

तादृशं रूपमास्थाय आसाद्यात्यन्तिकं शिवम् ।
एष योगः समुद्दिष्टः सबीजोऽत्यन्तभावनः ॥ ४६.४५ ॥

यथाविधि प्रकुर्वाणः प्राप्नुयादैश्वरं पदम् ।
ये चान्ये भावने शुद्धे प्रागुक्ते भवतामिह ॥ ४६.४६ ॥

अथापि कथितो योगो निर्बीजश्च सबीजकः ।
ज्ञानं तदुक्तं निर्बीजं पूर्वं हि भवतां मया ॥ ४६.४७ ॥

विष्णुं रुद्रं विरञ्चिंञ्च सबीजं साधयेद्बुधः ।
अथ वाय्वादिकान् देवांस्तत्परः संयतेन्द्रियः ॥ ४६.४८ ॥

पूजयेत् पुरुषं विष्णुं चतुर्मूर्त्तिधरं हरिम् ।
अनादिनिधनं देवं वासुदेवं सनातनम् ॥ ४६.४९ ॥

नारायणं जगद्योनिमाकाशं परमं पदम् ।
तल्लिङ्गधारी नियतं तद्भक्तस्तदुपाश्रयः ॥ ४६.५० ॥

एष एव विधिर्ब्राह्मे भावने चान्तिके मतः ।
इत्येतत् कथितं ज्ञानं भावनासंश्रयं परम् ॥ ४६.५१ ॥

इन्द्रद्युम्नाय मुनये कथितं यन्मया पुरा ।
अव्यक्तात्मकमेवेदं चेतनाचेतनं जगत् ॥ ४६.५२ ॥

तदीश्वरः परं ब्रह्म तस्माद् ब्रह्ममयं जगत् ।
सूत उवाच
एतावदुक्त्वा भगवान् विरराम जनार्दनः ।
तुष्टुवुर्मुनयो विष्णुं शक्रेण सह माधवम् ॥ ४६.५३ ॥

मुनयः ऊचुः
नमस्ते कूर्मरूपाय विष्णवे परमात्मने ।
नारायणाय विश्वाय वासुदेवाय ते नमः ॥ ४६.५४ ॥

नमो नमस्ते कृष्णाय गोविन्दाय नमो नमः ।
माधवाय नमस्तुभ्यं नमो यज्ञेश्वराय च ॥ ४६.५५ ॥

सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः ।
नमः सहस्रहस्ताय सहस्रचरणाय च ॥ ४६.५६ ॥

ॐ नमो ज्ञानरूपाय परमात्मस्वरूपिणे ।
आनन्दाय नमस्तुभ्यं मायातीताय ते नमः ॥ ४६.५७ ॥

नमो गूढशरीराय निर्गुणाय नमोऽस्तु ते ।
पुरुषाय पुराणाय सत्तामात्रस्वरूपिणे ॥ ४६.५८ ॥

नमः सांख्याय योगाय केवलाय नमोऽस्तु ते ।
धर्मज्ञानाधिगम्याय निष्कलाय नमोऽस्तु ते ॥ ४६.५९ ॥

नमस्ते व्योमरूपाय महायोगेश्वराय च ।
परावराणां प्रभवे वेदवेद्याय ते नमः ॥ ४६.६० ॥

नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे ।
नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ॥ ४६.६१ ॥

नमोऽस्तु ते वराहाय नारसिंहाय ते नमः ।
वामनाय नमस्तुभ्यं हृषीकेशाय ते नमः ॥ ४६.६२ ॥

स्वर्गापवर्गदात्रे च नमोऽप्रतिहतात्मने ।
नमो योगाधिगम्याय योगिने योगदायिने ॥ ४६.६३ ॥

देवानां पतये तुभ्यं देवार्त्तिशमनाय ते ।
भगवंस्त्वत्प्रसादेन सर्वसंसारनाशनम् ॥ ४६.६४ ॥

अस्माभिर्विदितं ज्ञानं यज्ज्ञात्वामृतमश्नुते ।
श्रुतास्तु विविधा धर्मा वंशा मन्वन्तराणि च ॥ ४६.६५ ॥

सर्गश्च प्रतिसर्गश्च ब्रह्माण्यस्यास्य विस्तरः ।
त्वं हि सर्वजगत्साक्षी विश्वो नारायणः परः ॥ ४६.६६ ॥

त्रातुमर्हस्यनन्तात्मा त्वामेव शरणं गताः ।
सूत उवाच
एतद् वः कथितं विप्रा भोगमोक्षप्रदायकम् ॥ ४६.६७ ॥

कौर्मं पुराणमखिलं यज्जगाद गदाधरः ।
अस्मिन् पुराणे लक्ष्म्यास्तु संभवः कथितः पुरा ॥ ४६.६८ ॥

मोहायाशेषभूतानां वासुदेवेन योजितः ।
प्रजापतीनां सर्गस्तु वर्णधर्माश्च वृत्तयः ॥ ४६.६९ ॥

धर्मार्थकाममोक्षाणां यथावल्लक्षणं शुभम् ।
पितामहस्य विष्णोश्च महेशस्य च धीमतः ॥ ४६.७० ॥

एकत्वं च पृथक्त्वं च विशेषश्चोपवर्णितः ।
भक्तानां लक्षणं प्रोक्तं समाचारश्च भोजनम् ॥ ४६.७१ ॥

वर्णाश्रमाणां कथितं यथावदिह लक्षणम् ।
आदिसर्गस्ततः पश्चादण्डावरणसप्तकम् ॥ ४६.७२ ॥

हिरण्यगर्भसर्गश्च कीर्त्तितो मुनिपुंगवाः ।
कालसंख्याप्रकथनं माहात्म्यं चेश्वरस्य च ॥ ४६.७३ ॥

ब्रह्मणः शयनं चाप्सु नामनिर्वचनं तथा ।
वराहवपुषा भूयो भूमेरुद्धरणं पुनः ॥ ४६.७४ ॥

मुख्यादिसर्गकथनं मुनिसर्गस्तथापरः ।
व्याख्यतो रुद्रसर्गश्च ऋषिसर्गश्च तापसः ॥ ४६.७५ ॥

धर्मस्य च प्रजासर्गस्तामसात् पूर्वमेव तु ।
ब्रह्मविष्णोर्विवादः स्यादन्तर्देहप्रवेशनम् ॥ ४६.७६ ॥

पद्मोद्भवत्वं देवस्य मोहस्तस्य च धीमतः ।
दर्शनं च महेशस्य माहात्म्यं विष्णुनेरितम् ॥ ४६.७७ ॥

दिव्यदृष्टिप्रदानं च ब्रह्मणः परमेष्ठिना ।
संस्तवो देवदेवस्य ब्रह्मणा परमेष्ठिना ॥ ४६.७८ ॥

प्रसादो गिरिशस्याथ वरदानं तथैव च ।
संवादो विष्णुना सार्धं शंकरस्य महात्मनः ॥ ४६.७९ ॥

वरदानं तथापूर्वमन्तर्द्धानं पिनाकिनः ।
वधश्च कथितो विप्रा मधुकैटभयोः पुरा ॥ ४६.८० ॥

अवतारोऽथ देवस्य ब्रह्मणो नाभिपङ्कजात् ।
एकीभावश्च देवस्य विष्णुना कथितस्ततः ॥ ४६.८१ ॥

विमोहो ब्रह्मणश्चाथ संज्ञालाभो हरेस्ततः ।
तपश्चरणमाख्यातं देवदेवस्य धीमतः ॥ ४६.८२ ॥

प्रादुर्भावो महेशस्य ललाटात् कथितस्ततः ।
रुद्राणां कथिता सृष्टिर्ब्रह्मणः प्रतिषेधनम् ॥ ४६.८३ ॥

भूतिश्च देवदेवस्य वरदानोपदेशकौ ।
अन्तर्द्धानं च रुद्रस्य तपश्चर्याण्डजस्य च ॥ ४६.८४ ॥

दर्शनं देवदेवस्य नरनारीशरीरता ।
देव्या विभागकथनं देवदेवात् पिनाकिनः ॥ ४६.८५ ॥

देव्याश्च पश्चात् कथितं दक्षपुत्रीत्वमेव च ।
हिमवद्दुहितृत्वं च देव्या याथात्म्यमेव च ॥ ४६.८६ ॥

दर्शनं दिव्यरूपस्य वैश्वरूपस्य दर्शनम् ।
नाम्नां सहस्रं कथितं पित्रा हिमवता स्वयम् ॥ ४६.८७ ॥

उपदेशो महादेव्या वरदानं तथैव च ।
भृग्वादीनां प्रजासर्गो राज्ञां वंशस्य विस्तरः ॥ ४६.८८ ॥

प्राचेतसत्वं दक्षस्य दक्षयज्ञविमर्दनम् ।
दधीचस्य च दक्षस्य विवादः कथितस्तदा ॥ ४६.८९ ॥

ततश्च शापः कथितो मुनीनां मुनिपुंगवाः ।
रुद्रागतिः प्रसादश्च अन्तर्द्धानं पिनाकिनः ॥ ४६.९० ॥

पितामहस्योपदेशः कीर्त्त्यते रक्षणाय तु ।
दक्षस्य च प्रजासर्गः कश्यपस्य महात्मनः ॥ ४६.९१ ॥

हिरण्यकशिपोर्नाशो हिरण्याक्षवधस्तथा ।
ततश्च शापः कथितो देवदारुवनौकसाम् ॥ ४६.९२ ॥

निग्रहश्चान्धकस्याथ गाणपत्यमनुत्तमम् ।
प्रह्रादनिग्रहश्चाथ बलेः संयमनं ततः ॥ ४६.९३ ॥

बाणस्य निग्रहश्चाथ प्रसादस्तस्य शूलिनः ।
ऋषीणां वंशविस्तारो राज्ञां वंशाः प्रकीर्त्तिताः ॥ ४६.९४ ॥

वसुदेवात् ततो विष्णोरुत्पत्तिः स्वेच्छया हरेः ।
दर्शनं चोपमन्योर्वै तपश्चरणमेव च ॥ ४६.९५ ॥

वरलाभो महादेवं दृष्ट्वा साम्बं त्रिलोचनम् ।
कैलासगमनञ्चाथ निवासस्तस्य शार्ङ्गिणः ॥ ४६.९६ ॥

ततश्च कथ्यते भीतिर्द्वारवत्यां निवासिनाम् ।
रक्षणं गरुडेनाथ जित्वा शत्रून् महाबलान् ॥ ४६.९७ ॥

नारादागमनं चैव यात्रा चैव गरुत्मतः ।
ततश्च कृष्णागमनं मुनीनामागतिस्ततः ॥ ४६.९८ ॥

नैत्यकं वासुदेवस्य शिवलिङ्गार्चनं तथा ।
मार्कण्डेयस्य च मुनेः प्रश्नः प्रोक्तस्ततः परम् ॥ ४६.९९ ॥

लिङ्गार्चननिमित्तं च लिङ्गस्यापि सलिङ्गिनः ।
यथार्थंकथितञ्चाथ लिङ्गाविर्भाव एव च ॥ ४६.१०० ॥

ब्रह्मविष्णोस्तथा मध्ये कीर्त्तिता मुनिपुंगवाः ।
मोहस्तयोस्तु कथितो गमनं चोर्ध्वतो ह्यधः ॥ ४६.१०१ ॥

संस्तवो देवदेवस्य प्रसादः परमेष्ठिनः ।
अन्तर्धानं च लिङ्गस्य साम्बोत्पत्तिस्ततः परम् ॥ ४६.१०२ ॥

कीर्तिता चानिरुद्धस्य समुत्पत्तिर्द्विजोत्तमाः ।
कृष्णस्य गमने बुद्धिरृषीणामागतिस्तथा ॥ ४६.१०३ ॥

अनुवशासनञ्च कृष्णेन वरदानं महात्मनः ।
गमनं चैव कृष्णस्य पार्थस्यापि च दर्शनम् ॥ ४६.१०४ ॥

कृष्णद्वैपायनस्योक्तं युगधर्माः सनातनाः ॥

अनुग्रहोऽथ पार्थस्य वाराणस्यां गतिस्ततः ॥ ४६.१०५ ॥

पाराशर्यस्य च मुनेर्व्यासस्याद्भुतकर्मणः ।
वाराणस्याश्च माहात्म्यं तीर्थानां चैव वर्णनम् ॥ ४६.१०६ ॥

तीर्थयात्रा च व्यासस्य देव्याश्चैवाथ दर्शनम् ।
उद्वासनं च कथितं वरदानं तथैव च ॥ ४६.१०७ ॥

प्रयागस्य च माहात्म्यं क्षेत्राणामथ कीर्त्तिनम् ।
फलं च विपुलं विप्रा मार्कण्डेयस्य निर्गमः ॥ ४६.१०८ ॥

भुवनानां स्वरूपं च ज्योतिषां च निवेशनम् ।
कीर्त्यन्ते चैव वर्षाणि नदीनां चैव निर्णयः ॥ ४६.१०९ ॥

पर्वतानां च कथनं स्थानानि च दिवौकसाम् ।
द्वीपानां प्रविभागश्च श्वेतद्वीपोपवर्णनम् ॥ ४६.११० ॥

शयनं केशवस्याथ माहात्म्यं च महात्मनः ।
मन्वन्तराणां कथनं विष्णोर्माहात्म्यमेव च ॥ ४६.१११ ॥

वेदशाखाप्रणयनं व्यासानां कथनं ततः ।
अवेदस्य च वेदानां कथितं मुनिपुंगवाः ॥ ४६.११२ ॥

योगेश्वराणां च कथा शिष्याणां चाथ कीर्त्तनम् ।
गीताश्च विविधागुह्या ईश्वरस्याथ कीर्त्तिताः ॥ ४६.११३ ॥

वर्णाश्रमाणामाचाराः प्रायश्चित्तविधिस्ततः ।
कपालित्वं च रुद्रस्य भिक्षाचरणमेव च ॥ ४६.११४ ॥

पतिव्रतायाश्चाख्यानं तीर्थानां च विनिर्णयः ।
तथा मङ्कणकस्याथ निग्रहः कीर्तितो द्विजाः ॥ ४६.११५ ॥

वधश्च कथितो विप्राः कालस्य च समासतः ।
देवदारुवने शंभोः प्रवेशो माधवस्य च ॥ ४६.११६ ॥

दर्शनं षट्कुलीयानां देवदेवस्य धीमतः ।
वरदानं च देवस्य नन्दिने तु प्रकीर्तितम् ॥ ४६.११७ ॥

नैमित्तिकश्च कथितः प्रतिसर्गस्ततः परम् ।
प्राकृतः प्रलयश्चोर्द्ध्वं सबीजो योग एव च ॥ ४६.११८ ॥

एवं ज्ञात्वा पुराणस्य संक्षेपं कीर्त्तयेत्तु यः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ४६.११९ ॥

एवमुक्त्वा श्रियं देवीमादाय पुरुषोत्तमः ।
संत्यज्य कूर्मसंस्थानं स्वस्थानं च जगाम ह ॥ ४६.१२० ॥

देवाश्च सर्वे मुनयः स्वानि स्थानानि भेजिरे ।
प्रणम्य पुरुषं विष्णुं गृहीत्वा ह्यमृतं द्विजाः ॥ ४६.१२१ ॥

एतत् पुराणं सकलं भाषितं कूर्मरूपिणा ।
साक्षाद् देवादिदेनेन विष्णुना विश्वयोनिना ॥ ४६.१२२ ॥

यः पठेत् सततं मर्त्यः नियमेन समासतः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ४६.१२३ ॥

लिखित्वा चैव यो दद्याद् वैशाखे मासि सुव्रतः ।
विप्राय वेदविदुषे तस्य पुण्यं निबोधत ॥ ४६.१२४ ॥

सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।
भुक्त्वा च विपुलान्मर्त्यो भोगान्दिव्यान्सुशोभनान् ॥ ४६.१२५ ॥

ततः स्वर्गात् परिभ्रष्टो विप्राणां जायते कुले ।
पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ॥ ४६.१२६ ॥

पठित्वाध्यायमेवैकं सर्वपापैः प्रमुच्यते ।
योऽर्थं विचारयेत् सम्यक् प्राप्नोति परं पदम् ॥ ४६.१२७ ॥

अध्येतव्यमिदं नित्यं विप्रैः पर्वणि पर्वणि ।
श्रोतव्यं च द्विजश्रेष्ठा महापातकनाशनम् ॥ ४६.१२८ ॥

एकतस्तु पुराणानि सेतिहासानि कृत्स्नशः ।
एकत्र चेदं परममेतदेवातिरिच्यते ॥ ४६.१२९ ॥

इदं पुराणं मुक्त्वैकं नास्त्यन्यत् साधनं परम् ।
यथावदत्र भगवान् देवो नारायणो हरिः ॥ ४६.१३० ॥

कीर्त्यते हि यथा विष्णुर्न तथाऽन्येषु सुव्रताः ।
ब्राह्मी पौराणिकी चेयं संहिता पापनाशनी ॥ ४६.१३१ ॥

अत्र तत् परमं ब्रह्म कीर्त्यते हि यथार्थतः ।
तीर्थानां परमं तीर्थं तपसां च परं तपः ॥ ४६.१३२ ॥

ज्ञानानां परमं ज्ञानं व्रतानां परमं व्रतम् ।
नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ ॥ ४६.१३३ ॥

योऽधीते स तु मोहात्मा स याति नरकान् बहून् ।
श्राद्धे वा दैविके कार्ये श्रावणीयं द्विजातिभिः ॥ ४६.१३४ ॥

यज्ञान्ते तु विशेषेण सर्वदोषविशोधनम् ।
मुमुक्षूणामिदं शास्त्रमध्येतव्यं विशेषतः ॥ ४६.१३५ ॥

श्रोतव्यं चाथ मन्तव्यं वेदार्थपरिबृंहणम् ।
ज्ञात्वा यथावद् विप्रेन्द्रान् श्रावयेद् भक्तिसंयुतान् ॥ ४६.१३६ ॥

सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ।
योऽश्रद्दधाने पुरुषे दद्याच्चाधार्मिके तथा ॥ ४६.१३७ ॥

स प्रेत्य गत्वा निरयान् शुनां योनिं व्रजत्यधः ।
नमस्कृत्य हरिं विष्णुं जगद्योनिं सनातनम् ॥ ४६.१३८ ॥

अध्येतव्यमिदं शास्त्रं कृष्णद्वैपायनं तथा ।
इत्याज्ञा देवदेवस्य विष्णोरमिततेजसः ॥ ४६.१३९ ॥

पाराशर्यस्य विप्रर्षेर्व्यासस्य च महात्मनः ।
श्रुत्वा नारायणाद्देवान् नारदो भगवानृषिः ॥ ४६.१४० ॥

गौतमाय ददौ पूर्वं तस्माच्चैव पराशरः ।
पराशरोऽपि भगवान गङ्गाद्वारे मुनीश्वराः ॥ ४६.१४१ ॥

मुनिभ्यः कथयामास धर्मकामार्थमोक्षदम् ।
ब्रह्मणा कथितं पूर्वं सनकाय च धीमते ॥ ४६.१४२ ॥

सनत्कुमाराय तथा सर्वपापप्रणाशनम् ।
सनकाद् भगवान् साक्षाद् देवलो योगवित्तमः ॥ ४६.१४३ ॥

अवाप्तवान् पञ्चशिखो देवलादिदमुत्तमम् ।
सनत्कुमाराद् भगवान् मुनिः सत्यवतीसुतः ॥ ४६.१४४ ॥

एतत् पुराणं परमं व्यासः सर्वार्थसंचयम् ।
तस्माद् व्यासादहं श्रुत्वा भवतां पापनाशनम् ॥ ४६.१४५ ॥

ऊचिवान् वै भवद्भिश्च दातव्यं धार्मिके जने ।
तस्मै व्यासाय मुनये सर्वज्ञाय महर्षये ॥ ४६.१४६ ॥

पाराशर्याय शान्ताय नमो नारायणात्मने ।
यस्मात् संजायते कृत्सनं यत्र चैव प्रलीयते ।
नमस्तस्मै सुरेशाय विष्णवे कूर्मरूपिणे ॥ ४६.१४७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
षट्श्चत्वारिंशोऽध्यायः ॥४६ ॥

उत्तरभागः समाप्तः ॥

॥ इति श्रीकूर्मपुराणं समाप्तम् ॥

Also Read:

Vritra Gita from Adhyatma Ramayana Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Add Comment

Click here to post a comment