Templesinindiainfo

Best Spiritual Website

1000 Names of Balarama | Sahasranama Stotram 2 Lyrics in Hindi

Bala Rama Sahasranamastotram 2 Lyrics in Hindi:

॥ श्रीबालात्रिपुरसुन्दरीसहस्रनामस्तोत्रम् २ ॥

समाध्युपरतं काले कदाचिद्विजने मुदा ।
परमानन्दसन्दोहमुदितं प्राह पार्वती ॥ १ ॥

श्रीदेव्युवाच –
श्रीमन्नाथ तवानन्दकारणं ब्रूहि शङ्कर ।
योगीन्द्रोपास्य देवेश प्रेमपूर्ण सुधानिधे ।
कृपास्ति यदि मे शम्भो सुगोप्यमपि कथ्यताम् ॥ २ ॥

श्रीभैरवः
निर्भरानन्दसन्दोहः शक्तिभावेन जायते ।
लावण्यसिन्धुस्तत्रास्ति बालाया रसकन्दरः ॥ ३ ॥

तामेवानुक्षणं देवीं चिन्तयामि ततः शिवाम् ।
तस्या नामसहस्राणि कथयामि तव प्रिये ॥ ४ ॥

सुगोप्यान्यपि रम्भोरु गम्भीरस्नेहविभ्रमात् ।
तामेव स्तुवतो देवि ध्यायतोऽनुक्षणं मम ।
सुखसन्दोहसम्भावो ज्ञानानन्दस्य कारणम् ॥ ५ ॥

अस्य श्रीबालात्रिपुरसुन्दरी सहस्रनामस्तोत्रस्य शङ्कर ऋषिः,
अनुष्टुप् छन्दः । श्रीबालात्रिपुरा देवता । ऐं बीजम् । सौः शक्तिः ।
क्लीं कीलकम् । श्रीबालाप्रीत्यर्थे समस्तपुरुषार्थसिद्‍ध्यर्थे
पारायणे विनियोगः ।
ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।
ध्यानम् ।
अरुणकिरणजालै रञ्जिताशावकाशा
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरवरकराढ्या फुल्लकल्हार संस्था
निवसतु हृदि बाला नित्यकल्याणशीला ॥

रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् ।
विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥

आनन्दसिन्धुरानन्दाऽऽनन्दमूर्तिर्विनोदिनी ।
त्रिपुरा सुन्दरी प्रेमपाथोनिधिरनुत्तमा ॥ १ ॥

वामार्धगह्वरा भूतिर्विभूतिः शङ्करी शिवा ।
श‍ृङ्गारमूर्तिर्वरदा रसा च शुभगोचरा ॥ २ ॥

परमानन्दलहरी रती रङ्गवती गतिः ।
रङ्गमालानङ्गकला केली कैवल्यदा कला ॥ ३ ॥

रसकल्पा कल्पलता कुतूहलवती गतिः ।
विनोददिग्धा सुस्निग्धा मुग्धमूर्तिर्मनोरमा ॥ ४ ॥

बालार्ककोटिकिरणा चन्द्रकोटिसुशीतला ।
स्रवत्पीयूषदिग्धाङ्गी स्वर्गार्थपरिकल्पिता ॥ ५ ॥

कुरङ्गनयना कान्ता सुगतिः सुखसन्ततिः ।
राजराजेश्वरी राज्ञी महेन्द्रपरिवन्दिता ॥ ६ ॥

प्रपञ्चगतिरीशानी प्रपञ्चगतिरुत्तमा ।
दुर्वासा दुःसहा शक्तिः शिञ्जत्कनकनूपुरा ॥ ७ ॥

मेरुमन्दरवक्षोजा सृणिपाशवरायुधा ।
शरकोदण्डसंसक्तपाणिद्वयविराजिता ॥ ८ ॥

चन्द्रबिम्बानना चारुमुकुटोत्तंसचन्द्रिका ।
सिन्दूरतिलका चारुधम्मिल्लामलमालिका ॥ ९ ॥

मन्दारदाममुदिता रत्नमालाविभूषिता ।
सुवर्णाभरणप्रीता मुक्तादाममनोरमा ॥ १० ॥

ताम्बूलपूर्णवदना मदनानन्दमानसा ।
सुखाराध्या तपः सारा कृपापारा विधीश्वरी ॥ ११ ॥

वक्षःस्थललसद्रत्नप्रभा मधुरसोन्मदा ।
बिन्दुनादात्मकोच्चाररहिता तुर्यरूपिणी ॥ १२ ॥

कमनीयाकृतिर्धन्या शाङ्करी प्रीतिमञ्जरी ।
प्रपञ्चा पञ्चमी पूर्णा पूर्णपीठनिवासिनी ॥ १३ ॥

राज्यलक्ष्मीश्च श्रीलक्ष्मीर्महालक्ष्मीः सुराजिका ।
सन्तोषसीमा सम्पत्तिः शातकौम्भी १ तथा द्युतिः ॥ १४ ॥

१ शातकुम्भप्रियाकृतिः
परिपूर्णा जगद्धात्री विधात्री बलवर्धिनी ।
सार्वभौमनृपश्रीश्च साम्राज्यगतिरम्बिका ॥ १५ ॥

सरोजाक्षी दीर्घदृष्टिः साचीक्षणविचक्षणा ।
रङ्गस्रवन्ती रसिका (१००) प्रधाना रसरूपिणी ॥ १६ ॥

रससिन्धुः सुगात्री च धूसरी मैथुनोन्मुखा ।
निरन्तरगुणासक्ता शक्तिर्निधुवनात्मिका ॥ १७ ॥

कामाक्षी कमनीया च कामेशी भगमङ्गला ।
सुभगा भोगिनी भोग्या भग्यदा सुभगा भगा ॥ १८ ॥

भगलिङ्गानन्दकला भगमध्यनिवासिनी ।
भगरूपा भगमयी भगयन्त्रा भगोत्तमा ॥ १९ ॥

योनिमुद्रा कामकला कुलामृतपरायणा ।
कुलकुण्डालया सूक्ष्मा जीवात्मा लिङ्गरूपिणी ॥ २० ॥

मूलक्रिया मूलरूपा मूलाकृतिस्वरूपिणी ।
सोत्सुका कमलानन्दा चिद्भावाऽऽत्मगतिः शिवा ॥ २१ ॥

श्वेतारुणा बिन्दुरूपा वेदयोनिर्ध्वनिक्षणा ।
घण्टाकोटि रवारावा रविबिम्बोत्थिताऽद्भुता ॥ २२ ॥

नादान्तलीना सम्पूर्णा पूर्णस्था बहुरूपिका ।
भृङ्गारावा वंशगतिर्वादित्रा मुरजध्वनिः ॥ २३ ॥

वर्णमाला सिद्धिकला षट् चक्रक्रमवासिनी ।
मूलकेलीरता स्वाधिष्ठाना तुर्यनिवासिनी ॥ २४ ॥

मणिपूरस्थितिः स्निग्धा कूर्मचक्रपरायणा ।
अनाहतगतिर्दीपशिखा मणिमयाकृतिः ॥ २५ ॥

विशुद्धा शब्दसंशुद्धा जीवबोधस्थली रवा ।
आज्ञाचक्राब्जसंस्था च स्फुरन्ती निपुणा त्रिवृत् ॥ २६ ॥

चन्द्रिका चन्द्रकोटि श्रीः सूर्यकोटिप्रभामयी ।
पद्मरागारुणच्छाया निश्चलाऽमृतनन्दिनी ।
कान्ताङ्गसङ्गमुदिता सुधामाधुर्यसम्भृता ॥ २८ ॥

महामञ्चस्थिताऽलिप्ता तृप्ता दृप्ता सुसम्भृतिः ।
स्रवत्पीयूषसंसिक्ता रक्तार्णवविवर्धिनी ॥ २९ ॥

सुरक्ता प्रियसंसिक्ता शश्वत्कुण्डालयाऽभया । (२००) ।
श्रेयः श्रुतिश्च प्रत्येकानवकेशिफलावली ॥ ३० ॥

प्रीता शिवा शिवप्रिया शाङ्करी शाम्भवी विभा ।
स्वयम्भूः स्वप्रिया स्वीया स्वकीया जनमातृका ॥ ३१ ॥

स्वारामा स्वाश्रया साध्वी सुधाधाराऽधिकाधिका ।
मङ्गलोज्जयिनी मान्या सर्वमङ्गलसङ्गिनी ॥ ३२ ॥

भद्रा भद्रावली कन्या कलितार्धेन्दुबिम्बभाक् ।
कल्याणलतिका काम्या कुकर्मा कुमतिर्मनुः ॥ ३३ ॥

कुरङ्गाक्षी क्षीबनेत्रा क्षारा रसमदोन्मदा ।
वारुणीपानमुदिता मदिरारचिताश्रया ॥ ३४ ॥

कादम्बरीपानरुचिर्विपाशा पाशभीतिनुत् ।
मुदिता मुदितापाङ्गा दरदोलितदीर्घदृक् ॥ ३५ ॥

दैत्यकुलानलशिखा मनोरथसुधाद्युतिः ।
सुवासिनी पीनगात्री पीनश्रोणिपयोधरा ॥ ३६ ॥

सुचारुकबरी दन्तदीधितिदीप्रमौक्तिका ।
बिम्बाधरा द्युतिमुखा प्रवालोत्तमदीधितिः ॥ ३७ ॥

तिलप्रसूननासाग्रा हेमकक्कोलभालका ।
निष्कलङ्केन्दुवदना बालेन्दुमुकुटोज्ज्वला ॥ ३८ ॥

नृत्यत्खञ्जननेत्रश्रीर्विस्फुरत्कर्णशष्कुली ।
बालचन्द्रातपत्रार्धा मणिसूर्यकिरीटिनी १ ॥ ३९ ॥

१ केशौघचम्पकासेनामालतीदामपण्डिता – इत्यधिकम् ।
हेममाणिक्यताटङ्का मणिकाञ्चनकुण्डला ।
सुचारुचिबुका कम्बुकण्ठी मणिमनोरमा ॥ ४० ॥

गङ्गातरङ्गहारोर्मिर्मत्तकोकिलनिःस्वना ।
मृणालविलसद्बाहुः पाशाङ्कुशधनुर्धरा ॥ ४१ ॥

केयूरकटकाच्छन्ना नानारत्नमनोरमा ।
ताम्रपङ्कजपाणिश्रीर्नखरत्नप्रभावती ॥ ४२ ॥

अङ्गुलीयमणिश्रेणिचञ्चदङ्गुलिसन्ततिः ।
मन्दरद्वन्द्वसुकुचा रोमराजीभुजङ्गका ॥ ४३ ॥

गम्भीरनाभिस्त्रिवलीवलया च सुमध्यमा ।
रणत्काञ्चीगुणोन्नद्धा पट्टांशुकसुनीविका ॥ ४४ ॥

मेरुगुण्डीनितम्बाढ्या गजगण्डोरुयुग्मयुक् ।
सुजानुमन्दरासक्तलसज्जङ्घाद्वयान्विता ॥ ४५ ॥

गूढगुल्फा मञ्जुशिञ्जन्मणिनूपुरमण्डिता १ ।
१ पदद्वन्द्वा रुणाम्भोजा नखचन्द्रा रविप्रभा ।
सुसोमप्रपदा राजहंसा मत्तेभमन्दगा ॥ इत्यधिकम् (extra) ।
योगिध्येयपदद्वन्द्वा सुधामाऽमृतसारिणी ॥ ४६ ॥

लावण्यसिन्धुः सिन्दूरतिलका कुटिलालका ।
साधुसिद्धा सुबुद्धा च बुधा वृन्दारकोदया ॥ ४७ ॥

बालार्ककिरणश्रेणीशोणा श्रीप्रेमकामधुक् ।
रसगम्भीरसरसी पद्मिनी (३००) रससारसा ॥ ४८ ॥

प्रसन्नाऽऽसन्नवरदा शारदा च सुभाग्यदा ।
नटराजप्रिया विश्वनाट्या नर्तकनर्तकी ॥ ४९ ॥

विचित्रयन्त्रा चित्तन्त्रा विद्यावल्ली गतिः शुभा ।
कूटारकूटा कूटस्था पञ्चकूटा च पञ्चमी ॥ ५० ॥

चतुष्कूटा त्रिकूटाद्या षट्कूटा वेदपूजिता ।
कूटषोडशसम्पन्ना तुरीया परमा कला ॥ ५१ ॥

षोडशी मन्त्रयन्त्राणामीश्वरी मेरुमण्डला ।
षोडशार्णा त्रिवर्णा च बिन्दुनादस्वरूपिणी ॥ ५२ ॥

वर्णातीता वर्णमाता शब्दब्रह्ममहासुखा ।
चैतन्यवल्ली कूटात्मा कामेशी स्वप्रदृश्यगा ॥ ५३ ॥

स्वप्नावती बोधकरी जागृतिर्जागराश्रया ।
स्वप्नाश्रया सुषुप्तिश्च तन्द्रामुक्ता च माधवी ॥ ५४ ॥

लोपामुद्रा कामराज्ञी मानवी वित्तपार्चिता ।
शाकम्भरी नन्दिविद्या भास्वद्विद्योतमालिनी ॥ ५५ ॥

माहेन्द्री स्वर्गसम्पत्तिर्दुर्वासःसेविता श्रुतिः ।
साधकेन्द्रगतिः साध्वी सुलभा सिद्धिकन्दरा ॥ ५६ ॥

पुरत्रयेशी पुरजिदर्चिता पुरदेवता ।
पुष्टिर्विघ्नहरी भूतिर्विगुणा पूज्यकामधुक् ॥ ५७ ॥

हिरण्यमाता गणपा गुहमाता नितम्बिनी ।
सर्वसीमन्तिनी मोक्षा दीक्षा दीक्षितमातृका ॥ ५८ ॥

साधकाम्बा सिद्धमाता साधकेन्द्रा मनोरमा ।
यौवनोन्मादिनी तुङ्गा सुश्रोणिर्मदमन्थरा ॥ ५९ ॥

पद्मरक्तोत्पलवती रक्तमाल्यानुलेपना ।
रक्तमालारुचिः शिखाशिखण्डिन्यतिसुन्दरी ॥ ६० ॥

शिखण्डिनृत्तसन्तुष्टा सौरभेयी वसुन्धरा ।
सुरभिः कामदा काम्या कमनीयार्थकामदा ॥ ६१ ॥

नन्दिनी लक्षणवती वसिष्ठालयदेवता ।
गोलोकदेवी (४००) लोकश्रीर्गोलोकपरिपालिका ॥ ६२ ॥

हविर्धानी देवमाता वृन्दारकवरानुयुक् ।
रुद्रपत्नी भद्रमाता सुधाधाराऽम्बुविक्षतिः ॥ ६३ ॥

दक्षिणा यज्ञसम्मूर्तिः सुबाला धीरनन्दिनी ।
क्षीरपूर्णार्णवगतिः सुधायोनिः सुलोचना ॥ ६४ ॥

रामानुगा सुसेव्या च सुगन्धालयवासगा ।
सुचारित्रा सुत्रिपुरा सुस्तनी स्तनवत्सला ॥ ६५ ॥

रजस्वला रजोयुक्ता रञ्जिका रङ्गमालिका ।
रक्तप्रिया सुरक्ता च रतिरङ्गस्वरूपिणी ॥ ६६ ॥

रजः शुक्राम्बिका निष्ठा रतनिष्ठा रतिस्पृहा ।
हावभावा कामकेलिसर्वस्वा सुरजीविका ॥ ६७ ॥

स्वयम्भूकुसुमानन्दा स्वयम्भूकुसुमप्रिया ।
स्वयम्भूप्रीतिसन्तुष्टा स्वयम्भूनिन्दकान्तकृत् ॥ ६८ ॥

स्वयम्भूस्था शक्तिपुटी रतिसर्वस्वपीठिका ।
अत्यन्तसभिका दूती विदग्धा प्रीतिपूजिता ॥ ६९ ॥

कुल्लिका यन्त्रनिलया योगपीठाधिवासिनी ।
सुलक्षणा रसरूपा सर्वलक्षणलक्षिता ॥ ७० ॥

नानालङ्कारसुभगा पञ्चबाणसमर्चिता ।
ऊर्ध्वत्रिकोणनिलया बाला कामेश्वरी तथा ॥ ७१ ॥

गणाध्यक्षा कुलाध्यक्षा लक्ष्मीश्चैव सरस्वती ।
वसन्तसमयप्रीता प्रीतिः कुचभरानता ॥ ७२ ॥

कलाधरमुखाऽमूर्धा पादवृद्धिः कलावती ।
पुष्पप्रिया धृतिश्चैव रतिकण्ठी मनोरमा ॥ ७३ ॥

मदनोन्मादिनी चैव मोहिनी पार्वणीकला ।
शोषिणी वशिनी राजिन्यत्यन्तसुभगा भगा ॥ ७४ ॥

पूषा वशा च सुमना रतिः प्रीतिर्धृतिस्तथा ।
ऋद्धिः सौम्या मरीच्यंशुमाला प्रत्यङ्गिरा तथा ॥ ७५ ॥

शशिनी चैव सुच्छाया सम्पूर्णमण्डलोदया ।
तुष्टा चामृतपूर्णा च भगयन्त्रनिवासिनी ॥ ७६ ॥

लिङ्गयन्त्रालया (५००) शम्भुरूपा संयोगयोगिनी ।
द्राविणी बीजरूपा च अक्षुब्धा साधकप्रिया ॥ ७७ ॥

राजबीजमयी राज्यसुखदा वाञ्छितप्रदा ।
रजः संवीर्यशक्तिश्च शुक्रविच्छिवरूपिणी ॥ ७८ ॥

सर्वसारा सारमया शिवशक्तिमयी प्रभा ।
संयोगानन्दनिलया संयोगप्रीतिमातृका ॥ ७९ ॥

संयोगकुसुमानन्दा संयोगा योगवर्धिनी ।
संयोगसुखदारस्था चिदानन्दैकसेविता ॥ ८० ॥

अर्ध्यपूजकसम्पत्तिरर्घ्यद्रव्यस्वरूपिणी ।
सामरस्या परा प्रीता प्रियसङ्गमरूपिणी ॥ ८१ ॥

ज्ञानदूती ज्ञानगम्या ज्ञानयोनिः शिवालया ।
चित्कला ज्ञानसकला सकुला सकुलात्मिका ॥ ८२ ॥

कलाचतुष्टयी पद्मिन्यतिसूक्ष्मा परात्मिका ।
हंसकेलिस्थली च्छाया हंसद्वयविकासिनी ॥ ८३ ॥

विरागता मोक्षकला परमात्मकलावती ।
विद्याकलान्तरात्मस्था चतुष्टयकलावती ॥ ८४ ॥

विद्यासन्तोषिणी तृप्तिः परब्रह्मप्रकाशिका ।
परमात्मपरा वस्तुलीनशक्तिचतुष्टयी ॥ ८५ ॥

शान्तिर्बोधकलावाप्तिः परज्ञानात्मिका कला ।
पश्यन्ती परमात्मस्था चान्तरात्मकलाकुला ॥ ८६ ॥

मध्यमा वैखरी चात्मकलानन्दा कलावती ।
तारिणी तरणी तारा शिवलिङ्गालयाऽऽत्मवित् ॥ ८७ ॥

परस्परशुभाचारा ब्रह्मानन्दविनोदिनी ।
रसालसा दूतरासा सार्था सार्थप्रिया ह्युमा ॥ ८८ ॥

जात्यादिरहिता योगियोगिन्यानन्दवर्धिनी । १
१ कान्ता शान्ता दान्तगतिर्वेदाद्युद्दामपद्धतिः – इत्यधिकम् ।
वीरभावप्रदा दिव्या वीरसूर्वीरभावदा ॥ ८९ ॥

पशुत्वाभिवीरगतिर्वीरसङ्गमहोदया ।
मूर्धाभिषिक्त राजश्रीः क्षत्रियोत्तममातृका ॥ ९० ॥

शस्त्रास्त्रकुशला शोभा रसस्था युद्धजीविका ।
विजया योगिनी यात्रा परसैन्यविमर्दिनी ॥ ९१ ॥

पूर्णा (६००) वित्तैषिणी वित्ता वित्तसञ्चयशालिनी ।
भाण्डागारस्थिता रत्ना रत्नश्रेण्यधिवासिनी ॥ ९२ ॥

महिषी राजभोग्या च गणिका गणभोगभृत् ।
करिणी वडवा योग्या मल्लसेना पदातिका ॥ ९३ ॥

सैन्यश्रेणी शौर्यरता पताकाध्वजवासिनी ।
सुच्छत्रा चाम्बिका चाम्बा प्रजापालनसद्गतिः ॥ ९४ ॥

सुरभिः पूजकाचारा राजकार्यपरायणा ।
ब्रह्मक्षत्रमयी सोमसूर्यान्तर्यामिनी स्थितिः ॥ ९५ ॥

पौरोहित्यप्रिया साध्वी ब्रह्माणी यज्ञसन्ततिः ।
सोमपानपरा प्रीता जनाढ्या तपना क्षमा ॥ ९६ ॥

प्रतिग्रहपरा दात्री सृष्टाजातिः सताङ्गतिः ।
गायत्री वेदलभ्या च दीक्षा सन्ध्यापरायणा ॥ ९७ ॥

रत्नसद्दीधितिर्विश्ववासना विश्वजीविका ।
कृषिवाणिज्यभूतिश्च वृद्धिर्धीश्च कुसीदिका ॥ ९८ ॥

कुलाधारा सुप्रसारा मनोन्मनी परायणा ।
शूद्रा विप्रगतिः कर्मकरी कौतुकपूजिता ॥ ९९ ॥

नानाविचारचतुरा बाला प्रौढा कलामयी ।
सुकर्णधारा नौः पारा सर्वाशा दुर्गमोचनी ॥ १०० ॥

दुर्गा विन्ध्यवनस्था च कन्दर्पनयपूरणी ।
भूभारशमनी कृष्णा रक्षाराध्या रसोल्लसा ॥ १०१ ॥

त्रिविधोत्पातशमनी समग्रसुखशेवधिः ।
पञ्चावयववाक्यश्रीः प्रपञ्चोद्यानचन्द्रिका ॥ १०२ ॥

सिद्धसन्दोहसुखिता योगिनीवृन्दवन्दिता ।
नित्याषोडशारूपा च कामेशी भगमालिनी ॥ १०३ ॥

नित्यक्लिन्ना च भी(भे) रुण्डा वह्निमण्डलवासिनी ।
महाविद्येश्वरी नित्या शिवदूतीति विश्रुता ॥ १०४ ॥

त्वरिता प्रथिता ख्याता विख्याता कुलसुन्दरी ।
नित्या नीलपताका च विजया सर्वमङ्गला ॥ १०५ ॥

ज्वालामाला(७००) विचित्रा च महात्रिपुरसिन्दरी ।
गुरुवृन्दा परगुरुः प्रकाशानन्दनाथिनी ॥ १०६ ॥

शिवानन्दनाथरूपा शक्त्यानन्दस्वरूपिणी ।
देव्यानन्दनाथमयी कौलेशानन्दनाथिनी ॥ १०७ ॥

दिव्यौघगुरुरूपा च समयानन्दनाथिनी ।
शुक्लदेव्यानन्दनाथा कुलेशानन्दनाथिनी १ ॥ १०८ ॥

१ कामेश्वर्यानन्दनाथमयी श्रीगुरुरूपिणी – इत्यधिकम् ।
क्लिन्नाङ्गानन्दरूपा च समयानन्दनाथिनी ।
वेदानन्दनाथमयी सहजानन्दनाथिनी ॥ १०९ ॥

सिद्धौघगुरुरूपा च अपरागुरुरूपिणी ।
गगनानन्दनाथा च विश्वानन्दस्वनाथिनी ॥ ११० ॥

विमलानन्दनाथा च मदनानन्दनाथिनी ।
भुवनाद्या च लीलाद्या नन्दनानन्दनाथिनी ॥ १११ ॥

स्वात्मानन्दानन्दरूपा प्रियाद्यानन्दनाथिनी ।
मानवौघगुरुश्रेष्ठा परमेष्ठि गुरुप्रभा ॥ ११२ ॥

परगुह्या गुरुशक्तिः स्वगुरुकीर्तनप्रिया ।
त्रैलोक्यमोहनख्याता सर्वाशापरिपूरका ॥ ११३ ॥

सर्वसङ्क्षोभिणी पूर्वाम्नायप्रथितवैभवा ।
शिवाशक्तिः शिवशक्तिः शिवचक्रत्रयालया ॥ ११४ ॥

सर्वसौभाग्यदाख्या च सर्वार्थसाधिकाह्वया ।
सर्वरक्षाकराख्या च दक्षिणाम्नायदेवता ॥ ११५ ॥

मध्यार्कचक्रनिलया पश्चिमाम्नायदेवता ।
नवचक्रकृतावासा कौबेराम्नायदेवता ॥ ११६ ॥

कुबेरपूज्या कुलजा कुलाम्नायप्रवर्तिनी ।
बिन्दुचक्रकृतावासा मध्यसिंहासनेश्वरी ॥ ११७ ॥

श्रीविद्या च महालक्ष्मीः लक्ष्मीः शक्तित्रयात्मिका ।
सर्वसाम्राज्यलक्ष्मीश्च पञ्चलक्ष्मीतिविश्रुता ॥ ११८ ॥

श्रीविद्या च परञ्ज्योतिः परनिष्कलशाम्भवी ।
मातृका पञ्चकोशी च श्रीविद्या त्वरिता तथा ॥ ११९ ॥

पारिजातेश्वरी चैव त्रिकूटा पञ्चबाणगा ।
पञ्चकल्पलता पञ्चविद्या चामृतपीठिका ॥ १२० ॥

सुधासू रमणेशाना चान्नपूर्णा च कामधुक् ।
श्रीविद्या सिद्धलक्ष्मीश्च मातङ्गी भुवनेश्वरी ॥ १२१ ॥

वाराही पञ्चरत्नानामीश्वरी मातृवर्णगा ।
पराञ्ज्योतिः कोशरूपा ऐन्दवी कलया युता ॥ १२२ ॥

परितः स्वामिनी शक्तिदर्शना रविबिन्दुयुक् ।
ब्रह्मदर्शनरूपा च शिवदर्शनरूपिणी ॥ १२३ ॥

विष्णुदर्शनरूपा च सृष्टिचक्रनिवासिनी ।
सौरदर्शनरूपा च स्थितिचक्रकृतालया ॥ १२४ ॥

बौद्धदर्शनरूपा च महात्रिपुरसुन्दरी ।
तत्त्वमुद्रास्वरूपा च प्रसन्ना(८००) ज्ञानमुद्रिका ॥ १२५ ॥

सर्वोपचारसन्तुष्टा हृन्मयी शीर्षदेवता ।
शिखास्थिता ब्रह्ममयी नेत्रत्रयविलासिनी ॥ १२६ ॥

अस्त्रस्था चतुरस्रा च द्वारकाद्वारवासिनी ।
अणिमा पश्चिमस्था च लघिमोत्तरदेवता ॥ १२७ ॥

पूर्वस्था महिमेशित्वा दक्षिणद्वारदेवता ।
वशित्वा वायुकोणस्था प्राकाम्येशानदेवता ॥ १२८ ॥

अग्निकोणस्थिता भुक्तिरिच्छा नैऋतवासिनी ।
प्राप्तिसिद्धिरवस्था च प्राकाम्यार्धविलासिनी ॥ १२९ ॥

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराह्यौन्द्री च चामुण्डा महालक्ष्मीर्दिशाङ्गतिः ॥ १३० ॥

क्षोभिणी द्राविणी मुद्राऽऽकर्षोन्मादनकारिणी ।
महाङ्कुशा खेचरी च बीजाख्या योनिमुद्रिका ॥ १३१ ॥

सर्वाशापूरचक्रस्था कार्यसिद्धिकरी तथा ।
कामाकर्षिणिकाशक्तिर्बुद्‍ध्याकर्षणरूपिणी ॥ १३२ ॥

अहङ्काराकर्षिणी च शब्दाकर्षणरूपिणी ।
स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी ॥ १३३ ॥

रसाकर्षणरूपा च गन्धाकर्षणरूपिणी ।
चित्ताकर्षणरूपा च धैर्याकर्षणरूपिणी ॥ १३४ ॥

स्मृत्याकर्षणरूपा च बीजाकर्षणरूपिणी ।
अमृताकर्षिणी चैव नामाकर्षणरूपिणी ॥ १३५ ॥

शरीराकर्षिणीदेवी आत्माकर्षणरूपिणी ।
षोडशस्वररूपा च स्रवत्पीयूषमन्दिरा ॥ १३६ ॥

त्रिपुरेशी सिद्धरूपा कलादलनिवासिनी ।
सर्वसङ्क्षोभचक्रेशी शक्तिर्गुप्ततराभिधा ॥ १३७ ॥

अनङ्गकुसुमाशक्तिरनङ्गकटिमेखला ।
अनङ्गमदनाऽनङ्गमदनातुररूपिणी ॥ १३८ ॥

अनङ्गरेखा चानङ्गवेगानङ्गाङ्कुशाभिधा ।
अनङ्गमालिनी शक्तिरष्टवर्गदिगन्विता ॥ १३९ ॥

वसुपत्रकृतावासा श्रीमत्त्रिपुरसुन्दरी ।
सर्वसाम्राज्यसुखदा सर्वसौभाग्यदेश्वरी ॥ १४० ॥

सम्प्रदायेश्वरी सर्वसङ्क्षोभणकरी तथा ।
सर्वविद्राविणी सर्वाकर्षणाटोपकारिणी ॥ १४१ ॥

सर्वाह्लादनशक्तिश्च सर्वजृम्भणकारिणी ।
सर्वस्तम्भन शक्तिश्च सर्वसम्मोहिनी तथा ॥ १४२ ॥

सर्ववश्यकरीशक्तिः सर्वसर्वानुरञ्जिनी ।
सर्वोन्मादनशक्तिश्च सर्वार्थसिद्धिकारिणी ॥ १४३ ॥

सर्वसम्पत्तिदा शक्तिः सर्वमन्त्रमयी तथा ।
सर्वद्वन्द्वक्षयकरी(९००) सिद्धिस्त्रिपुरवासिनी ॥ १४४ ॥

सर्वार्थसाधकेशी च सर्वकार्यार्थसिद्धिदा ।
चतुर्दशारचक्रेशी कलायोगसमन्विता ॥ १४५ ॥

सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदा तथा ।
सर्वप्रियङ्करी शक्तिः सर्वमङ्गलकारिणी ॥ १४६ ॥

सर्वकामप्रपूर्णा च सर्वदुःखप्रमोचिनी ।
सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी ॥ १४७ ॥

सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ।
त्रिपुरेशी सर्वसिद्धिप्रदा च दशकोणगा ॥ १४८ ॥

सर्वरक्षाकरेशी च निगर्भा योगिनी तथा ।
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा ॥ १४९ ॥

सर्वज्ञानमयीदेवी सर्वव्याधिविनाशिनी ।
सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ १५० ॥

सर्वानन्दमयीदेवी सर्वरक्षास्वरूपिणी ।
महिमाशक्तिदेवी च देवी सर्वसमृद्धिदा ॥ १५१ ॥

अन्तर्दशारचक्रेशी देवी त्रिपुरमालिनी ।
सर्वरोगहरेशी च रहस्या योगिनी तथा ॥ १५२ ॥

वाग्देवी वशिनी चैव देवीकामेश्वरी तथा ।
मोदिनी विमला चैव अरुणा जयिनी तथा ॥ १५३ ॥

सर्वेश्वरी कौलिनी च ह्यष्टारसर्वसिद्धिदा ।
सर्वकामप्रदेशी च परापररहस्यवित् ॥ १५४ ॥

त्रिकोणचतुरश्रस्था सर्वैश्वर्याऽऽयुधात्मिका ।
कामेश्वरीबाणरूपा कामेशीचापरूपिणी ॥ १५५ ॥

कामेशीपाशरूपा च कामेश्यङ्कुशरूपिणी ।
कामेश्वरीन्द्रशक्तिश्च अग्निचक्रकृतालया ॥ १५६ ॥

कामगिर्यधिदेवी च त्रिकोणस्थाऽग्रकोणगा ।
दक्षकोणेश्वरी विष्णुशक्तिर्जालन्धराश्रया ॥ १५७ ॥

सूर्यचक्रालया रुद्रशक्तिर्वामाङ्गकोणगा ।
सोमचक्रा ब्रह्मशक्तिः पूर्णगिर्यनुरागिणी ॥ १५८ ॥

श्रीमत्त्रिकोणभुवना त्रिपुरात्मा महेश्वरी ।
सर्वानन्दमयेशी च बिन्दुगातिरहस्यभृत् ॥ १५९ ॥

परब्रह्मस्वरूपा च महात्रिपुरसुन्दरी ।
सर्वचक्रान्तरस्था च समस्तचक्रनायिका ॥ १६० ॥

सर्वचक्रेश्वरी सर्वमन्त्राणामीश्वरी तथा ।
सर्वविद्येश्वरी चैव सर्ववागीश्वरी तथा ॥ १६१ ॥

सर्वयोगीश्वरी चैव पीठेश्वर्यखिलेश्वरी ।
सर्वकामेश्वरी सर्वतत्त्वेश्वर्यागमेश्वरी ॥ १६२ ॥

शक्तिः शक्तिधृगुल्लासा निर्द्वन्द्वा द्वैतगर्भिणी ।
निष्प्रपञ्चा महामाया सप्रपञ्चा सुवासिनी ॥ १६३ ॥

सर्वविश्वोत्पत्तिधात्री परमानन्दसुन्दरी (१०००) ।
इत्येतत्कथितं दिव्यं परमानन्दकारणम् ॥ १६४ ॥

लावण्यसिन्धुलहरीबालायास्तोषमन्दिरम् ।
सहस्रनाम तन्त्राणां सारमाकृष्य पार्वति ॥ १६५ ॥

अनेन स्तुवतो नित्यमर्धरात्रे निशामुखे ।
प्रातः काले च पूजायां सर्वकालमतः प्रिये ॥ १६६ ॥

सर्वसाम्राज्यसुखदा बाला च परितुष्यति ।
रत्नानि विविधान्यस्य वित्तानि प्रचुराणि च ॥ १६७ ॥

मनोरथपथस्थानि ददाति परमेश्वरी ।
पुत्राः पौत्राश्च वर्धन्ते सन्ततिः सार्वकालिकी ॥ १६८ ॥

शत्रवस्तस्य नश्यन्ति वर्धन्तेऽस्य बलानि च ।
व्याधयस्तस्य दूरस्थाः सकलान्यौषधानि च ॥ १६९ ॥

मन्दिराणि विचित्राणि राजन्ते तस्य सर्वदा ।
कृषिः फलवती तस्य भूमिः कामदुघाऽव्यया ॥ १७० ॥

स्फीतो जनपदस्तस्य राज्यं तस्य निरीतिकम् ।
मातङ्गाः पक्षिणस्तुङ्गाः सिञ्चन्तो मदवारिभिः ॥ १७१ ॥

द्वारे तस्य विराजन्ते हृष्टा नागतुरङ्गमाः ।
प्रजास्तस्य विराजन्ते निर्विवादाश्च मन्त्रिणः ॥ १७२ ॥

ज्ञातयस्तस्य तुष्यन्ति शीलं तस्यातिसुन्दरम् ।
लक्ष्मीस्तस्य वशे नित्यं स्वासना च मनोरमा ॥ १७३ ॥

गद्यपद्यमयी वाणी तस्य गङ्गातरङ्गवत् ।
नानापदपदार्थानां वादचातुर्यसम्भृता ॥ १७४ ॥

समग्ररससम्पत्तिशालिनी लास्यमालिनी ।
अदृष्टान्यपि शास्त्राणी प्रकाश्यन्ते निरन्तरम् ॥ १७५ ॥

निग्रहः परवाक्यानां सभायां तस्य जायते ।
स्तुवन्ति वन्दिनस्तं वै राजानो दासवत्तथा ॥ १७६ ॥

शस्त्राण्यस्त्राणि तदङ्गे जनयन्ति रुजां न हि ।
महिलास्तस्य वशगाः सर्वावस्था भवन्ति वै ॥ १७७ ॥

विषं निर्विषतां याति पानीयममृतं भवेत् ।
परपक्षस्तम्भनं च प्रतिपक्षस्य जृम्भणम् ॥ १७८ ॥

नवरात्रेण जायेत स तदभ्यासयोगवित् ।
अहोरात्रं पठेद्यस्तु निस्तन्द्रः शान्तमानसः ॥ १७९ ॥

वशे तस्य प्रजा याति सर्वे लोकाः सुनिश्चितम् ।
षण्मासाभ्यासयोगेन योगमायाति निश्चितम् ॥ १८० ॥

नित्यं कामकलां ध्यायन् यः पठेत् स्तोत्रमुत्तमम् ।
मदनोन्मादकलिताः पुरन्घ्र्यास्तद्वशानुगाः ॥ १८१ ॥

लावण्यमदनाः साक्षाद्वैदग्ध्यमुदितेक्षणाः ।
प्रेमपूर्णामपि वशे ह्युर्वशीं स हि विन्दति ॥ १८२ ॥

भूर्जपत्रे रोचनया कुङ्कुमेन शुभे दिने ।
लाक्षारसद्रवेणापि यावकैर्वा विशेषतः ॥ १८३ ॥

धातुरागेण वा देवि लिखितं यन्त्रमञ्चितम् ।
सुवर्णरौप्यगर्भस्थं सुसम्पूतं सुसाधितम् ॥ १८४ ॥

बालाबुद्‍ध्या पूजितं च प्रतिष्ठितसमीरणम् ।
धारयेन्मस्तके कण्ठे बाहुमूले तथा हृदि ॥ १८५ ॥

नाभौ वापि धृतं धन्यं जयदं सर्वकामदम् ।
रक्षणं नापरं किञ्चिद्विद्यते भुवनत्रये ॥ १८६ ॥

ग्रहरोगादिभयहृत् सुखकृत्यविवर्धनम् ।
बलवीर्यकरं क्रूरभूतशत्रुविनाशनम् ॥ १८७ ॥

पुत्रपौत्रान् गुणगणैर्वर्धनं धनधान्यकृत् ।
धरण्यां सा पुरी धन्या यत्रायं साधकोत्तमः ॥ १८८ ॥

यद्गृहे लिखितं तिष्ठेत् स्तोत्रमेतद्वरानने ।
तत्र चाहं शिवे नित्यं हरिश्च कमला तथा ॥ १८९ ॥

वसामः सर्वतीर्थानामुत्पत्तिस्तत्र जायते ।
यो वापि पाठयेद्भक्त्या पठेद्वै साधकोत्तमः ॥ १९० ॥

ज्ञानानन्दकलायोगादैक्यवृत्तिं स विन्दति ।
स्तोत्रेणानेन देवेशि तव पूजाफलं लभेत् ॥ १९१ ॥

षोढान्यासतनुर्भूत्वा पठितव्यं प्रयत्नतः ।
उत्तमा सर्वतन्त्राणां बालायाः पूजनस्रुतिः ॥ १९२ ॥

तत्रोत्तमा षोडशार्णा तत्रेदं स्तोत्रमुत्तमम् ।
नाशिष्याय प्रदातव्यमशुद्धाय शठाय च ॥ १९३ ॥

अलसायाप्रयत्नायाशिवाभक्ताय सुन्दरि ।
भक्तिहीनाय मलिने गुरुनिन्दापराय च ॥ १९४ ॥

विष्णुभक्तिविहीनाय विकल्पावृतबुद्धये ।
देयं भक्तवरे मुक्तेः कारणं भक्तिवर्धनम् ॥ १९५ ॥

लतायोगे पठेद्यस्तु स्तोत्रमेतद्वरानने ।
सैव कल्पलता तस्य वाञ्छाफलकरी तथा ॥ १९६ ॥

पुष्पिताया लतायोगे कुरङ्गमुखि साधकः ।
अक्षुब्धः सन् पठेद्यस्तु शतयज्ञस्य पुण्यभाक् ॥ १९७ ॥

ब्रह्मादयोऽपि देवेशि प्रार्थयन्ति पदद्वयम् ।
स्वयं शिवः स विज्ञेयो यो बालाभावलम्पटः ॥ १९८ ॥

ब्रह्मानन्दमयी ज्योत्स्ना सदाशिवविधूदिता ।
आनन्दो योऽपि यं वेदा वदन्त्यस्या वशे स्थिताः ॥ १९९ ॥

आह्लादनं बालाध्यानाद्बालाया नामकीर्तनात् ।
सदानन्दाभ्यासयोगात् सदानन्दः प्रजायते ॥ २०० ॥

इति श्रीरुद्रयामले तन्त्रे भैरवभैरवीसंवादे
श्रीबालात्रिपुरसुन्दरीसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Bala Rama :

1000 Names of Balarama | Sahasranama Stotram 2 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Balarama | Sahasranama Stotram 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top