Templesinindiainfo

Best Spiritual Website

1000 Names of Hakinishvara | Ashtottarasahasranama Stotram Lyrics in Hindi

Hakinishvara Ashtottara Sahasranamastotram Lyrics in Hindi:

॥ हाकिनीश्वराष्टोत्तरसहस्रनामस्तोत्र ॥

श्रीआनन्दभैरव उवाच ।
आनन्दभैरवि प्राणवल्लभे जगदीश्वरि ।
तव प्रसादवाक्येन श्रुतं नामसहस्रकम् ॥ १ ॥

हाकिन्याः कुलयोगिन्याः परमाद्भुतमङ्गलम् ।
इदानीं श्रोतुमिच्छामि परनाथस्य वाञ्छितम् ॥ २ ॥

सहस्रनामयोगाङ्गमष्टोत्तरसमाकुलम् ।
भ्रूपद्मभेदनार्थाय हाकिनीयोगसिद्धये ॥ ३ ॥

परनाथस्य योगाधिसिद्धये कुलभैरवि ।
कृपया वद मे प्रीता धर्मसिद्धिनिबन्धनात् ॥ ४ ॥

मम देहरक्षणाय पातिव्रात्यप्रसिद्धये ।
महाविषहरे शीघ्रं वद योगिनि विस्तरात् ॥ ५ ॥

त्वत्प्रसादात् खेचराणां भैरवाणां हि योगिनाम् ।
नाथोऽहं जगतीखण्डे सुधाखण्डे वद प्रिये ॥ ६ ॥

पुनः पुनः स्तौमि नित्ये त्वमेव सुप्रिया भव ।
श्रीआनन्दभैरवी उवाच
अथ योगेश्वर प्राणनाथ योगेन्द्र सिद्धिद ॥ ७ ॥

इदानीं कथये तेऽहं निजदेहसुसिद्धये ।
सर्वदा हि पठस्व त्वं कालमृत्युं वशं नय ॥ ८ ॥

कृपया तव नाथस्य स्नेहपाशनियन्त्रिता ।
तवाज्ञापालनार्थाय कालकूटविनाशनात् ॥ ९ ॥

भुक्तिमुक्तिक्रियाभक्तिसिद्धये तच्छृणु प्रभो ।
नित्यामृतखण्डरसोल्लासनामसहस्रकम् ॥ १० ॥

अष्टोत्तरं प्रयत्नेन योगिनां हि हिताय च ।
कथयामि सिद्धनामज्ञाननिर्णयसाधनम् ॥ ११ ॥

ॐ ह्सौ सां परेशश्च पराशक्तिः प्रियेश्वरः ।
शिवः परः पारिभद्रः परेशो निर्मलोऽद्वयः ॥ १२ ॥

स्वयंज्योतिरनाद्यन्तो निर्वीकारः परात्परः ।
परमात्मा पराकाशोऽपरोऽप्यपराजितः ॥ १३ ॥

पार्वतीवल्लभः श्रीमान् दीनबन्धुस्त्रिलोचनः ।
योगात्मा योगदः सिद्धेश्वरो वीरः स्वरान्तकः ॥ १४ ॥

कपिलेशो गुरुर्गीतः स्वप्रियो गीतमोहनः ।
गभीरो गाधनस्थश्च गीतवाद्यप्रियङ्करः ॥ १५ ॥

गुरुगीतापवित्रश्च गानसम्मानतोज्झितः ।
गयानाथो दत्तनाथो दत्तात्रेयपतिः शिवः ॥ १६ ॥

आकाशवाहको नीलो नीलाञ्जनशरीरधृक् ।
खगरूपी खेचरश्च गगनात्मा गभीरगः ॥ १७ ॥

गोकोटिदानकर्त्ता च गोकोटिदुग्धभोजनः ।
अभयावल्लभः श्रीमान् परमात्मा निराकृतिः ॥ १८ ॥

सङ्ख्याधारी निराकारी निराकरणवल्लभः ।
वाय्वाहारी वायुरूपी वायुगन्ता स्ववायुपाः ॥ १९ ॥

वातघ्नो वातसम्पत्तिर्वाताजीर्णो वसन्तवित् ।
वासनीशो व्यासनाथो नारदादिमुनीश्वरः ॥ २० ॥

नारायणप्रियानन्दो नारायणनिराकृतिः ।
नावमालो नावकर्ता नावसंज्ञानधारकः ॥ २१ ॥

जलाधारो ज्ञेय इन्द्रो निरिन्द्रियगुणोदयः ।
तेजोरूपी चण्डभीमो तेजोमालाधरः कुलः ॥ २२ ॥

कुलतेजा कुलानन्दः शोभाढ्यो वेदरश्मिधृक् ।
किरणात्मा कारणात्मा कल्पच्छायापतिः शशी ॥ २३ ॥

परज्ञानी परानन्ददायको धर्मजित्प्रभुः ।
त्रिलोचनाम्भोजराजो दीर्घनेत्रो मनोहरः ॥ २४ ॥

चामुण्डेशः प्रचण्डेशः पारिभद्रेश्वरो हरः ।
गोपिता मोहितो गोप्ता गुप्तिस्थो गोपपूजितः ॥ २५ ॥

गोपनाख्यो गोधनेशश्च चारुवक्त्रो दिगम्बरः ।
पञ्चाननः पञ्चमीशो विशालो गरुडेश्वरः ॥ २६ ॥

अर्धनारीश्वरेशश्च नायिकेशः कुलान्तकः ।
संहारविग्रहः प्रेतभूतकोटिपरायणः ॥ २७ ॥

अनन्तेशोऽप्यनन्तात्मा मणिचूडो विभावसुः ।
कालानलः कालरूपी वेदधर्मेश्वरः कविः ॥ २८ ॥

भर्गः स्मरहरः शम्भुः स्वयम्भुः पीतकुण्डलः ।
जायापतिर्याजजूको विलाशीशः शिखापतिः ॥ २९ ॥

पर्वतेशः पार्वणाख्यः क्षेत्रपालो महीश्वरः ।
वाराणसीपतिर्मान्यो धन्यो वृषसुवाहनः ॥ ३० ॥

अमृतानन्दितो मुग्धो वनमालीश्वरः प्रियः ।
काशीपतिः प्राणपतिः कालकण्ठो महेश्वरः ॥ ३१ ॥

कम्बुकण्ठः क्रान्तिवर्गो वर्गात्मा जलशासनः ।
जलबुद्बुदवक्षश्च जलरेखामयः पृथुः ॥ ३२ ॥

पार्थिवेशो महीकर्ता पृथिवीपरिपालकः ।
भूमिस्थो भूमिपूज्यश्च क्षौणीवृन्दारकार्चीतः ॥ ३३ ॥

शूलपाणिः शक्तिहस्तो पद्मगर्भो हिरण्यभृत् ।
भूगर्तसंस्थितो योगी योगसम्भवविग्रहः ॥ ३४ ॥

पातालमूलकर्ता च पातालकुलपालकः ।
पातालनागमालाढ्यो दानकर्ता निराकुलः ॥ ३५ ॥

भ्रूणहन्ता पापराधिनागकः कालनागकः ।
कपिलोग्रतपःप्रीतो लोकोपकारकृन्नृपः ॥ ३६ ॥

नृपार्चीतो नृपार्थस्थो नृपार्थकोटिदायकः ।
पार्थिवार्चनसन्तुष्टो महावेगी परेश्वरः ॥ ३७ ॥

परापारापारतरो महातरुनिवासकः ।
तरुमूलस्थितो रुद्रो रुद्रनामफलोदयः ॥ ३८ ॥

रौद्रीशक्तिपतिः क्रोधी कोपनष्टो विरोचनः ।
असंख्येयाख्ययुक्तश्च परिणामविवर्जितः ॥ ३९ ॥

प्रतापी पवनाधारः प्रशंस्यः सर्वनिर्णयः ।
वेदजापी मन्त्रजापी देवता गुरुरीश्वरः ॥ ४० ॥

श्रीनाथो गुरुदेवश्च परनाथो गुरुः प्रभुः ।
परापरगुरुर्ज्ञानी तन्त्रज्ञोऽर्कशतप्रभाः ॥ ४१ ॥

तीर्क्ष्यो गमनकारी च कालभावी निरञ्जनः ।
कालकूटानलः श्रोतः पुञ्जपानपरायणः ॥ ४२ ॥

परिवारगणाढ्यश्च पाराशाषिसुतस्थितः ।
स्थितिस्थापकरूपश्च रूपातीतोऽमलापतिः ॥ ४३ ॥

पतीशो भागुरिश्चैव कालश्चैव हरिस्तथा ।
वैष्णवः प्रेमसिन्धुश्च तरलो वातवित्तहा ॥ ४४ ॥

भावस्वरूपो भगवान् निराकाशः सनातनः ।
अव्ययः पुरुषः साक्षी चाच्युतो मन्दराश्रयः ॥ ४५ ॥

मन्दराद्रिक्रियानन्दो वृन्दावनतनूद्भवः ।
वाच्यावाच्यस्वरूपश्च निर्मलाख्यो विवादहा ॥ ४६ ॥

वैद्यो वेदपरो ग्रन्थो वेदशास्त्रप्रकाशकः ।
स्मृतिमूलो वेदयुक्तिः प्रत्यक्षकुलदेवता ॥ ४७ ॥

परीक्षको वारणाख्यो महाशैलनिषेवितः ।
विरिञ्चप्रेमदाता च जन्योल्लासकरः प्रियः ॥ ४८ ॥

प्रयागधारी पयोऽर्थी गाङ्गागङ्गाधरः स्मरः ।
गङ्गाबुद्धिप्रियो देवो गङ्गास्नाननिषेवितः ॥ ४९ ॥

गङ्गासलिलसंस्थो हि गङ्गाप्रत्यक्षसाधकः ।
गिरो गङ्गामणिमरो मल्लिकामालधारकः ॥ ५० ॥

मल्लिकागन्धसुप्रेमो मल्लिकापुष्पधारकः ।
महाद्रुमो महावीरो महाशूरो महोरगः ॥ ५१ ॥

महातुष्टिर्महापुष्टिर्महालक्ष्मीशुभङ्करः ।
महाश्रमी महाध्यानी महाचण्डेश्वरो महान् ॥ ५२ ॥

महादेवो महाह्लादो महाबुद्धिप्रकाशकः ।
महाभक्तो महाशक्तो महाधूर्तो महामतिः ॥ ५३ ॥

महाच्छत्रधरो धारोधरकोटिगतप्रभा ।
अद्वैतानन्दवादी च मुक्तो भङ्गप्रियोऽप्रियः ॥ ५४ ॥

अतिगन्धश्चातिमात्रो निणीतान्तः परन्तपः ।
निणीतोऽनिलधारी च सूक्ष्मानिलनिरूपकः ॥ ५५ ॥

महाभयङ्करो गोलो महाविवेकभूषणः ।
सुधानन्दः पीठसंस्थो हिङ्गुलादेश्वरः सुरः ॥ ५६ ॥

नरो नागपतिः क्रूरो भक्तानां कामदः प्रभुः ।
नागमालाधरो धर्मी नित्यकर्मी कुलीनकृत् ॥ ५७ ॥

शिशुपालेश्वरः कीर्तिविकारी लिङ्गधारकः ।
तृप्तानन्दो हृषीकेशेश्वरः पाञ्चालवल्लभः ॥ ५८ ॥

अक्रूरेशः पतिः प्रीतिवर्धको लोकवर्धकः ।
अतिपूज्यो वामदेवो दारुणो रतिसुन्दरः ॥ ५९ ॥

महाकालः प्रियाह्लादी विनोदी पञ्चचूडधृक् ।
आद्याशक्तिपतिः पान्तो विभाधारी प्रभाकरः ॥ ६० ॥

अनायासगतिर्बुद्धिप्रफुल्लो नन्दिपूजितः ।
शीलामूर्तीस्थितो रत्नमालामण्डितविग्रहः ॥ ६१ ॥

बुधश्रीदो बुधानन्दो विबुधो बोधवर्धनः ।
अघोरः कालहर्ता च निष्कलङ्को निराश्रयः ॥ ६२ ॥

पीठशक्तिपतिः प्रेमधारको मोहकारकः ।
असमो विसमो भावोऽभावो भावो निरिन्द्रियः ॥ ६३ ॥

निरालोको बिलानन्दो बिलस्थो विषभुक्पतिः ।
दुर्गापतिर्दुर्गहर्ता दीर्घसिद्धान्तपूजितः ॥ ६४ ॥

सर्वो दुर्गापतिवीप्रो विप्रपूजापरायणः ।
ब्राह्मणानन्दनिरतो ब्रह्मकर्मसमाधिवित् ॥ ६५ ॥

विश्वात्मा विश्वभर्ता च विश्वविज्ञानपूरकः ।
विश्वान्तःकारणस्थश्च विश्वसंज्ञाप्रतिष्ठितः ॥ ६६ ॥

विश्वाधारो विश्वपूज्यो विश्वस्थोऽचीत इन्द्रहा ।
अलाबुभक्षणः क्षान्तिरक्षो रक्षनिवारणः ॥ ६७ ॥

तितिक्षारहितो हूतिः पुरुहूतप्रियङ्करः ।
पुरुषः पुरुषश्रेष्ठो विलालस्थः कुलालहा ॥ ६८ ॥

कुटिलस्थो विधिप्राणो विषयानन्दपारगः ।
ब्रह्मज्ञानप्रदो ब्रह्मज्ञानी ब्रह्मगुणान्तरः ॥ ६९ ॥

पालकेशो विराजश्च वज्रदण्डो महास्त्रधृक् ।
सर्वास्त्ररक्षकः श्रीदो विधिबुद्धिप्रपूरणः ॥ ७० ॥

आर्यपुत्रो देवराजपूजितो मुनिपूजितः ।
गन्धर्वपूजितः पूज्यो दानवज्ञाननाशनः ॥ ७१ ॥

अप्सरोगणपूज्यश्च मर्त्यलोकसुपूजितः ।
मृत्युजिद्रिपूजित् प्लक्षो मृत्युञ्जय इषुप्रियः ॥ ७२ ॥

त्रिबीजात्मा नीलकण्ठः क्षितीशो रोगनाशनः ।
जितारिः प्रेमसेव्यश्च भक्तिगम्यो निरुद्यमः ॥ ७३ ॥

निरीहो निरयाह्लादः कुमारो रिपुपूजितः ।
अजो देवात्मजो धर्मोऽसन्तो मन्दमासनः ॥ ७४ ॥

मन्दहासो मन्दनष्टो मन्दगन्धसुवासितः ।
माणिक्यहारनिलयो मुक्ताहारविभूषितः ॥ ७५ ॥

मुक्तिदो भक्तिदश्चैव निर्वाणपददानदः ।
निर्विकल्पो मोदधारी निरातङ्को महाजनः ॥ ७६ ॥

मुक्ताविद्रुममालाढ्यो मुक्तादामलसत्कटिः ॥ ७७ ॥

रत्नेश्वरो धनेशश्च धनेशप्राणवल्लभः ।
धनजीवी कर्मजीवी संहारविग्रहोज्ज्वलः ॥ ७८ ॥

संङ्केतार्थज्ञानशून्यो महासङ्केतपण्डितः ।
सुपण्डितः क्षेमदाता भवदाता भवान्वयः ॥ ७९ ॥

किङ्करेशो विधाता च विधातुः प्रियवल्लभः ।
कर्ता हर्ता कारयिता योजनायोजनाश्रयः ॥ ८० ॥

युक्तो योगपतिः श्रद्धापालको भूतशङ्करः ।
भूताध्यक्षो भूतनाथो भूतपालनतत्परः ॥ ८१ ॥

विभूतिदाता भूतिश्च महाभूतिविवर्धनः ।
महालक्ष्मीश्वरः कान्तः कमनीयः कलाधरः ॥ ८२ ॥

कमलाकान्त ईशानो यमोऽमरो मनोजवः ।
मनयोगी मानयोगी मानभङ्गो निरूपणः ॥ ८३ ॥

अव्यक्तानन्दनिरतो व्यक्ताव्यक्तनिरूपितः ।
आत्मारामपतिः कृष्णपालको रामपालकः ॥ ८४ ॥

लक्षणेशो लक्षभर्ता भावतीशः प्रजाभवः ।
भरताख्यो भारतश्च शत्रुघ्नो हनुमान् कपिः ॥ ८५ ॥

कपिचूडामणिः क्षेत्रपालेशो दिक्करान्तरः ।
दिशांपतिदीशीशश्च दिक्पालो हि दिगम्बरः ॥ ८६ ॥

अनन्तरत्नचूडाढ्यो नानारत्नासनस्थितः ।
संविदानन्दनिरतो विजयो विजयात्मजः ॥ ८७ ॥

जयाजयविचारश्च भावचूडामणीश्वरः ।
मुण्डमालाधरस्तन्त्री सारतन्त्रप्रचारकः ॥ ८८ ॥

संसाररक्षकः प्राणी पञ्चप्राणो महाशयः ।
गरुडध्वजपूज्यश्च गरुडध्वजविग्रहः ॥ ८९ ॥

गारुडीशो मन्त्रिणीशो मैत्रप्राणहिताकरः ।
सिद्धिमित्रो मित्रदेवो जगन्नाथो नरेश्वरः ॥ ९० ॥

नरेन्द्रेश्वरभावस्थो विद्याभावप्रचारवित् ।
कालाग्निरुद्रो भगवान् प्रचण्डेश्वरभूपतिः ॥ ९१ ॥

अलक्ष्मीहारकः क्रुद्धो रिपूणां क्षयकारकः ।
सदानन्दमयो वृद्धो धर्मसाक्षी सुधांशुधृक् ॥ ९२ ॥

साक्षरो रिपुवर्गस्थो दैत्यहा मुण्डधारकः ।
कपाली रुण्डमालाढ्यो महाबीजप्रकाशकः ॥ ९३ ॥

अजेयोग्रपतिः स्वाहावल्लभो हेतुवल्लभः ।
हेतुप्रियानन्ददाता हेतुबीजप्रकाशकः ॥ ९४ ॥

श्रुतिक्षिप्रमणिरतो ब्रह्मसूत्रप्रबोधकः ।
ब्रह्मानन्दो जयानन्दो विजयानन्द एव च ॥ ९५ ॥

सुधानन्दो बुधानन्दो विद्यानन्दो बलीपतिः ।
ज्ञानानन्दो विभानन्दो भावानन्दो नृपासनः ॥ ९६ ॥

सर्वासनोग्रानन्दश्च जगदानन्ददायकः ।
पूर्णानन्दो भवानन्दो ह्यमृतानन्द एव च ॥ ९७ ॥

शीतलोऽशीतिवर्षस्थो व्यवस्थापरिचायकः ।
शीलाढ्यश्च सुशीलश्च शीलानन्दो पराश्रयः ॥ ९८ ॥

सुलभो मधुरानन्दो मधुरामोदमादनः ।
अभेद्यो मूत्रसञ्चारी कलहाख्यो विषङ्कटः ॥ ९९ ॥

वाशभाढ्यः परानन्दो विसमानन्द उल्बणः ।
अधिपो वारुणीमत्तो मत्तगन्धर्वशासनः ॥ १०० ॥

शतकोटिशरुश्रीदो वीरकोटिसमप्रभः ।
अजाविभावरीनाथो विषमापूष्णिपूजितः ॥ १०१ ॥

विद्यापतिर्वेदपतिरप्रमेयपराक्रमः ।
रक्षोपतिर्महावीरपतिः प्रेमोपकारकः ॥ १०२ ॥

वारणाविप्रियानन्दो वारणेशो विभुस्थितः ।
रणचण्डो रशेशश्च रणरामप्रियः प्रभुः ॥ १०३ ॥

रणनाथी रणाह्लादः संग्रामप्रेतविग्रहः ।
देवीभक्तो देवदेवो दिवि दारुणतत्परः ॥ १०४ ॥

खड्गी च कवची सिद्धः शूली धूलिस्त्रिशूलधृक् ।
धनुष्मान् धर्मचित्तेशोऽचिन्ननागसुमाल्यधृक् ॥ १०५ ॥

अर्थोऽनर्थप्रियोऽप्रायो मलातीतोऽतिसुन्दरः ।
काञ्चनाढ्यो हेममाली काञ्चनश‍ृङ्गशासनः ॥ १०६ ॥

कन्दर्पजेता पुरुषः कपित्थेशोऽर्कशेखरः ।
पद्मगन्धोऽतिसद्गन्धश्चन्द्रशेखरभृत् सुखी ॥ १०७ ॥

पवित्राधारनिलयो विद्यावद्वरबीजभृत् ।
कन्दर्पसदृशाकारो मायाजिद् व्याघ्रचर्मधृक् ॥ १०८ ॥

अतिसौन्दर्यचूडाढ्यो नागचित्रमणिप्रियः ।
अतिगण्डः कुम्भकर्णः कुरुजेता कवीश्वरः ॥ १०९ ॥

एकमुखो द्वितुण्डश्च द्विविधो वेदशासनः ।
आत्माश्रयो गुरुमयो गुरुमन्त्रप्रदायकः ॥ ११० ॥

शौरीनाथो ज्ञानमार्गी सिद्धमार्गी प्रचण्डगः ।
नामगः क्षेत्रगः क्षेत्रो गगनग्रन्थिभेदकः ॥ १११ ॥

गाणपत्यवसाच्छन्नो गाणपत्यवसादवः ।
गम्भीरोऽतिसुसूक्ष्मश्च गीतवाद्यप्रियंवदः ॥ ११२ ॥

आह्लादोद्रेककारी च सदाह्लादी मनोगतिः ।
शिवशक्तिप्रियः श्यामवर्णः परमबान्धवः ॥ ११३ ॥

अतिथिप्रियकरो नित्यो गोविन्देशो हरीश्वरः ।
सर्वेशो भाविनीनाथो विद्यागर्भो विभाण्डकः ॥ ११४ ॥

ब्रह्माण्डरूपकर्ता च ब्रह्माण्डधर्मधारकः ।
धर्मार्णवो धर्ममार्गी धर्मचिन्तासुसिद्धिदः ॥ ११५ ॥

अस्थास्थितो ह्यास्तिकश्च स्वस्तिस्वच्छन्दवाचकः ।
अन्नरूपी अन्नकस्थो मानदाता महामनः ॥ ११६ ॥

आद्याशक्तिप्रभुर्मातृवर्णजालप्रचारकः ।
मातृकामन्त्रपूज्यश्च मातृकामन्त्रसिद्धिदः ॥ ११७ ॥

मातृप्रियो मातृपूज्यो मातृकामण्डलेश्वरः ।
भ्रान्तिहन्ता भ्रान्तिदाता भ्रान्तस्थो भ्रान्तिवल्लभः ॥ ११८ ॥

इत्येतत् कथितं नाथ सहस्रनाममङ्गलम् ।
अष्टोत्तरं महापुण्यं स्वर्गीयं भुवि दुर्लभम् ॥ ११९ ॥

यस्य श्रवणमात्रेण नरो नारायणो भवेत् ।
अप्रकाश्यं महागुह्यं देवानामप्यगोचरम् ॥ १२० ॥

फलं कोटिवर्षशतैर्वक्तुं न शक्यते बुधैः ।
यस्य स्मरणमाकृत्य योगिनीयोगपारगः ॥ १२१ ॥

सोक्षणः सर्वसिद्धिनां त्रैलोक्ये सचराचरे ।
देवाश्च बहवः सन्ति योगिनस्तत्त्वचिन्तकाः ॥ १२२ ॥

पठनाद्धारणाज्ज्ञानी महापातकनाशकः ।
आयुरारोग्यसम्पत्तिबृंहितो भवति ध्रुवम् ॥ १२३ ॥

संग्रामे ग्रहभीतौ च महारण्ये जले भये ।
वारमेकं पठेद्यस्तु स भवेद् देववल्लभः ॥ १२४ ॥

सर्वेषां मानसम्भङ्गी योगिराड् भवति क्षणात् ।
पूजां कृत्वा विशेषेण यः पठेन्नियतः शुचिः ॥ १२५ ॥

स सर्वलोकनाथः स्यात् परमानन्दमाप्नुयात् ।
एकपीठे जपेद्यस्तु कामरूपे विशेषतः ॥ १२६ ॥

त्रिकालं वाथ षट्कालं पठित्वा योगिराड् भवेत् ।
आकाशगामिनीं सिद्धिं गुटिकासिद्धिमेव च ॥ १२७ ॥

प्राप्नोति साधकेन्द्रस्तु राजत्वं हि दिने दिने ।
सर्वदा यः पठेन्नित्यं सर्वज्ञः सुकुशाग्रधीः ॥ १२८ ॥

अवश्यं योगिनां श्रेष्ठः कामजेता महीतले ।
अज्ञानी ज्ञानवान् सद्योऽधनी च धनवान् भवेत् ॥ १२९ ॥

सर्वदा राजसम्मानं पञ्चत्वं नास्ति तस्य हि ।
गले दक्षिणबाहौ च धारयेद्यस्तु भक्तितः ॥ १३० ॥

अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा ।
अवधूतेश्वरो भूत्त्वा राजते नात्र संशयः ॥ १३१ ॥

अरक्तचन्दनयुक्तेन हरिद्राकुङ्कुमेन च ।
सेफालिकापुष्पदण्डैर्दलसङ्कुलवर्जितैः ॥ १३२ ॥

मिलित्वा यो लिखेत् स्तोत्रं केवलं चन्दनाम्भसा ।
स भवेत् पार्वतीपुत्रः क्षणाद्वा द्वादशाहनि ॥ १३३ ॥

एकमासं द्विमासं वा त्रिमासं वर्षमेव च ।
जीवन्मुक्तो धारयित्वा सहस्रनामकीर्तनम् ॥ १३४ ॥

पठित्वा तद् द्विगुणशः पुण्यं कोटिगुणं लभेत् ।
किमन्यं कथयिष्यामि सार्वभौमेश्वरो भवेत् ॥ १३५ ॥

त्रिभुवनगणनाथो योगिनीशो धनाढ्यो
मतिसुविमलभावो दीर्घकालं वसेत् सः ।
इह पठति भवानीवल्लभः स्तोत्रसारं
दशशतमभिधेयं ज्ञानमष्टोत्तरं च ॥ १३६ ।

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे भैरवीभैरवसंवादे
परशिवहाकिनीश्वराष्टोत्तरसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Hakinishvara Ashtottara :

1000 Names of Hakinishvara | Ashtottarasahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Hakinishvara | Ashtottarasahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top