Templesinindiainfo

Best Spiritual Website

1000 Names of Hayagriva | Sahasranama Stotram Lyrics in Hindi

HayagrivaSahasranamastotram Lyrics in Hindi:

॥ श्रीहयग्रीवसहस्रनामस्तोत्रम् ॥
॥ श्रीः ॥

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।
यस्य द्विरदवक्राद्याः पारिषद्याः परश्शतं
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥

श्रीकाश्यपः –
तात मे श्रीहयग्रीवनाम्नां साहस्रमुत्तमम् ।
अध्येतुं जायते काङ्क्षा तत्प्रसीद मयि प्रभो ॥ १ ॥

इतिपृष्टस्ततोवाच ब्रह्मा लोक पितामहः ।
श्रेयसामपि च श्रेयः काश्यपेह विशाम्पते ॥ २ ॥

अमत्या विहितं पापं मूलतो हि विनश्यति ।
रहस्यानां रहस्यं च पावनानां च पावनम् ॥ ३ ॥

प्रायश्चित्ते कृते तस्य कर्तान निरयी भवेत् ।
कामतस्तु कृते पापे प्रायश्चित्तशतेन च ॥ ४ ॥

तन्न नश्यति तत्कर्ता व्यवहार्यस्तु जायते ।
एवं दुरपनोदानां बुद्धिपूर्वमहांहसाम् ॥ ५ ॥

आवर्जनकराणामप्यन्ते निष्कृतिरीरिता ।
प्रणम्य मानवतया मन्त्ररत्नानुकीर्तनम् ॥ ६ ॥

हंसनामसहस्रस्यपठनं शिरसान्वहम् ।
प्रणम्य भगवद्भक्तपादोदक निषेवणम् ॥ ७ ॥

तदेतत्त्त्रितयं सर्वपापसङ्घातनाशनम् ।
इतीदं परमं गुह्यं हंसो हयशिराहरिः ॥ ८ ॥

वेदोपदेशसमये मां निबोध्योपदिष्टवान ।
अनेन मन्त्ररत्नेन महाश्वशिरसो हरेः ॥ ९ ॥

सहस्रनामभिस्तुल्या निष्कृतिर्नेतरांहसाम् ।
अनन्यभगवद्भक्तपादोदकनिषेवणम् ॥ १० ॥

एतद्द्वयोपदेशाङ्गमादौ स्वीकार्यमिष्यते ।
इत्युक्त्वाऽनन्तगरुडविष्वक्सेनपदोदकम् ॥ ११ ॥

आदौ मां प्राशयन्नन्ते परिशोष्येकृतांहसि ।
आत्मनो नामसाहस्रं सर्षिच्छन्दोऽधिदैवतम् ॥ १२ ॥

सन्यासमुद्रिकाभेदं मह्यं साङ्गमुपादिशत् ।
यथावत्तदिदं वत्स दद्यां ते श‍ृणु तत्त्वतः ॥ १३ ॥

यत्प्राप्यात्यन्तिकी वृत्त्या निवृत्त्या मोक्षमेष्यति ।
हयास्यनामसाहस्रस्तोत्रराजस्य वैभवम् ॥ १४ ॥

ऋषिश्श्रीमान् हयग्रीवो विद्यामूर्तिस्स्वयं हरिः ।
देवता च स एवास्य छन्दोनुष्टुबिति श्रुतम् ॥ १५ ॥

हंसो हंसोऽहमित्येते बीजं शक्तिस्तुकीलकम् ।
हंसीं हंसोऽहमित्येते प्राग्जप्या मनवस्त्रयः ॥ १६ ॥

एकैकस्य दशावृत्तिरितिसङ्ख्याविधीयते ।
प्रणवत्रयमन्त्रं स्यात्कवचं श्रीश्श्रियो भवेत् ॥ १७ ॥

श्रीविभूषण इत्येतद्धृदयं परिकीर्तितम् ।
परोरजाः परं ब्रह्मेत्यपि योनिरुदाहृता ॥ १८ ॥

विद्यामूर्तिरिति ध्यानं विश्वात्मेति च गद्यते ।
विश्वमङ्गलनाम्नोऽस्य विनियोगो यथारुचि ॥ १९ ॥

भ्रूनेत्राश्रोत्रनासाहन्वोष्ठतालूरदे क्रमात् ।
षोडशस्वरविन्यासो दक्षिणारम्भमिष्यते ॥ २० ॥

जिह्वातलेऽपि तन्मूले स्वरावन्त्यौ च विन्यसेत् ।
तदा तालुद्वयन्याससखायोस्तु परित्यजेत् ॥ २१ ॥

अयं हि विद्याकामानामाद्यस्त्वन्य फलैषिणाम् ।
दोःपत्सक्थ्यङ्गुलीशीर्षे वर्गान्कचटतान्न्यसेत् ॥ २२ ॥

पार्श्वयोस्तु वफौ पृष्टोदरयोस्तु बभौ न्यसेत् ।
मकारं हृदये न्यस्य जीवे वा पञ्चविंशके ॥ २३ ॥

नाभिपायूदरे गुह्ये यरलवान्विनिक्षिपेत् ।
शषौ कुण्डलयोश्शीर्षं हारे च कटिसूत्रके ॥ २४ ॥

सहौ हृदब्जे हर्दे च लमापादशिखे न्यसेत् ।
क्षञ्च शीर्षादि पादान्तं मातृकान्यास एष तु ॥ २५ ॥

अस्य श्रीहयग्रीवसहस्रनाम स्तोत्रमहामन्त्रस्य श्रीहयग्रीव ऋषिः ।
अनुष्टुप् छन्दः । श्रीहयग्रीव परमात्मा देवता । हंस इति बीजम् ।
हंसोहमिति शक्तिः । हंसां हंसीमिति कीलकम् । ॐ ॐ ओमित्यस्त्रम् ।
श्रीः श्रियः इति कवचम् । श्रीविभूषण इति हृदयम् ।
परोरजाः परं ब्रह्मेति योनिः । विद्यामूर्तिर्विश्वात्मा इति ध्यानम् ।

हंसामङ्गुष्ठाभ्यां नमः । हंसीं तर्जनीभ्यां नमः ।
हंसूं मध्यमाभ्यां नमः । हंसों अनामिकाभ्यां नमः ।
हंसौं कनिष्ठिकाभ्यां नमः । हंसः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ॥

हंसां ज्ञानाय हृदयाय नमः । हंसीं ऐश्वर्याय शिरसे स्वाहा ।
हंसूं शक्तयै शिखायै वषट् । हंसों बलाय कवचाय हुं ।
हंसौं तेजसे नेत्राभ्यां वौषट् ।
हंसः वीर्यायास्त्राय फट् ओमिति दिग्बन्धः ॥

अथ मातृकान्यासः –
ॐ अम् आम् भ्रुवोः । इम् ईम् नेत्रयोः । उम् ऊम् श्रोत्रयोः । ऋम् ॠम् नासिकयोः ।
लृम् लॄम् कपोलयोः । एम् ऐम् ओष्ठयोः । ॐ औम् दन्तपङ्क्त्योः ।
अम् जिह्वातले । अः जिह्वामूले ।
कवर्गं दक्षिणे बाहूमूले कूर्परे मणिबन्धे करतले हस्ताग्रे ।
चवर्गं वामे बाहूमूले कूर्परे मणिबन्धे करतले हस्ताग्रे ।
टवर्गं दक्षिणे पादमूले जानुनि पादपार्ष्णौ पादतले पादाग्रे ।
तवर्गं वामे पादमूले जानुनि पादपार्ष्णौ पादतले पादाग्रे ।
पफौ पार्श्वयोः । बभौ पृष्ठोदरयोः । मं हृदि ।
यं रं लं वं नाभौ पायौ उदरे गुह्ये । शषौ हस्तयोः ।
सहौ शीर्षे कट्याम् । लक्षौ हृदब्जे हार्दे उति मातृकान्यासः ॥

अथ ध्यानम् ॥

विद्यामूर्तिमखण्डचन्द्रवलयश्वेतारविन्दस्थितं
हृद्याभं स्फटिकाद्रिनिर्मलतनुं विद्योतमानंश्रिया ।
वामाङ्कस्थितवल्लभां प्रति सदाव्याख्यान्तमाम्नायवा-
गर्थानादिमपूरुषं हयमुखं ध्यायामि हंसात्मकम् ॥ १ ॥

विश्वात्मा विशदप्रभाप्रतिलसद्वाग्देवतामण्डलो
देवो दक्षिणपाणियुग्मविलसद्बोधाङ्कचक्रायुधः ।
वामोदग्रकरे दरं तदितरेणाश्लिष्य दोष्णा रमां
हस्ताग्रे धृतपुस्तकस्स दयतां हंसो हिरण्यच्छदः ॥ २ ॥

अथ सहस्रनामस्तोत्रप्रारम्भः ।
ॐ – श्रीं हंसो हमै मों क्लीं श्रीश्श्रियश्श्रीविभूषणः ।
परोरजाः परं ब्रह्म भूर्भुवस्सुवरादिमः ॥ १ ॥

भास्वान्भगश्च भगवान्स्वस्तिस्वाहा नमस्स्वधा ।
श्रौषड्वौषढलं हुं फट् हुं ह्रीं क्रों ह्लौं यथा तथा ॥ २ ॥

कर्कग्रीवः कलानाथः कामदः करुणाकरः ।
कमलाध्युषितोत्सङ्गः क्षये कालीवशानुगः ॥ ३ ॥

निषच्छोपनिषच्चाथ नीचैरुच्चैस्समं सह ।
शश्वद्युगपदह्वाय शनैरेको बहुध्रुवः ॥ ४ ॥

भूतभृद्भूरिदस्साक्षी भूतादिः पुण्यकीर्तनः ।
भूमा भूमिरधोन्नद्धः पुरुहूतः पुरुष्टुतः ॥ ५ ॥

प्रफुल्लपुण्डरीकाक्षः परमेष्ठी प्रभावनः ।
प्रभुर्भगःसतां बन्धुर्भयध्वंसी भवापनः ॥ ६ ॥

उद्यन्नुरुशयाहुं कृदुरुगाय उरुक्रमः ।
उदारस्त्रियुगस्त्र्यात्मा निदानं नलयो हरिः ॥ ७ ॥

हिरण्यगर्भो हेमाङ्गो हिरण्यश्मश्रुरीशिता ।
हिरण्यकेशो हिमहा हेमवासा हितैषणः ॥ ८ ॥

आदित्यमण्डलान्तस्थो मोदमानस्समूहनः ।
सर्वात्मा जगदाधारस्सन्निधिस्सारवान्स्वभूः ॥ ९ ॥

गोपतिर्गोहितो गोमी केशवः किन्नरेश्वरः ।
मायी मायाविकृतिकृन्महेशानो महामहाः ॥ १० ॥

ममा मिमी मुमू मृमॄं म्लुम्लूं मेमैं तथैव च ।
मोमौं बिन्दुर्विसर्गश्च ह्रस्वोदीर्घः प्लुतस्स्वरः ॥ ११ ॥

उदात्तश्चानुदात्तश्च स्वरितः प्रचयस्तथा ।
कं खं गं घं ङं च चं छं जं झं ञं टं ठमेव च ॥ १२ ॥

डं ढं णं तं थं च दं च धं नं पं फं बमेव च
भं मं यं रं लं च वं च शं षं सं हं ळमेव च ॥ १३ ॥

क्षं यमों व्यञ्जनो जिह्वामूलीयोऽर्धविसर्गवान् ।
उपध्मानीय इति च संयुक्ताक्षर एव च ॥ १४ ॥

पदं क्रिया कारकश्च निपातो गतिरव्ययः ।
सन्निधिर्योग्यताऽऽकाङ्क्षा परस्परसमन्वयः ॥ १५ ॥

वाक्यं पद्यं सम्प्रदायो भावश्शब्दार्थलालितः ।
व्यञ्जना लक्षणा शक्तिः पाको रीतिरलङ्कृतिः ॥ १६ ॥

शय्या फ्रौढध्वनिस्तद्वत्काव्यं सर्गः क्रिया रुचिः ।
नानारूपप्रबन्धश्च यशः पुण्यं महद्धनम् ॥ १७ ॥

व्यवहारपरिज्ञानं शिवेतरपरिक्षयः ।
सदः परमनिर्वाणं प्रियपथ्योपदेशकः ॥ १८ ॥

संस्कारः प्रतिभा शिक्षा ग्रहणं धारणं श्रमः ।
आसुतास्वादिमा चित्रं विस्तारश्चित्रसंविधिः ॥ १९ ॥

पुराणमितिहासश्च स्मृतिसूत्रं च संहिता ।
आचार आत्मना तुष्टिराचार्याज्ञानतिक्रमः ॥ २० ॥

श्रीमान्श्रीगीःश्रियः कान्तश्श्रीनिधिश्श्रीनिकेतनः ।
श्रेयान्हयाननश्रीदश्श्रीमयश्श्रितवत्सलः ॥ २१ ॥

हंसश्शुचिषदादित्यो वसुश्चन्द्रोऽन्तरिक्षसत् ।
होता च वेदिषद्योनिरतिथिर्द्रोणसद्धविः ॥ २२ ॥

नृषन्मृत्युश्च वरसदमृतं चर्तसद्वृषः ।
व्योमसद्विविधस्कोटशब्दार्थव्यङ्ग्यवैभवः ॥ २३ ॥

अब्जा रसस्वादुतमो गोजा गेयो मनोहरः ।
ऋतजास्सकलं भद्रमद्रिजास्थैर्यमुत्तमम् ॥ २४ ॥

ऋतं समज्ञात्वनृतं बृहत्सूक्ष्मवशानुगः ।
सत्यं ज्ञानमनन्तं यत्तत्सद्ब्रह्ममयोऽच्युतः ॥ २५ ॥

अग्रेभवन्नगो नित्यः परमः पुरुषोत्तमः ।
योगनिद्रापरस्स्वामी निध्यानवरनिर्वृनः ॥ २६ ॥

रसो रस्यो रसयिता रसवान् रसिकप्रियः ।
आनन्दो नन्दयन्सर्वानानन्दी हयकन्धरः ॥ २७ ॥

कालः काल्यश्च कालात्मा कालाभ्युत्थितजागरः ।
कलासाचिव्यकृत्कान्ताकथितव्याधिकार्यकः ॥ २८ ॥

दृङ्न्यञ्चनोदञ्चनोद्यल्लयसर्गो लघुक्रियः ।
विद्यासहायो वागीशो मातृकामण्डलीकुतः ॥ २९ ॥

हिरण्यं हंसमिथुनमीशानश्शक्तिमान् जयी ।
ग्रहमेथी गुणी श्रीभूनीलालीलैकलालस ॥ ३० ॥

अङ्केनोदूह्य वाग्देवीमाचार्यकमुपाश्रयः ।
वेदवेदान्तशास्त्रार्थतत्त्वव्याख्यानतत्परः ॥ ३१ ॥

ल्हौं ह्लं हं हं हयो हं सूं हंसां हंसीं हसूं हसौम् ।
हसूं हं हरिणो हारी हरिकेशो हरेडितः ॥ ३२ ॥

सनातनो निर्बीजस्सन्नव्यक्तो हृदयेशयः ।
अक्षरः क्षरजीवेशः क्षमी क्षयकरोऽच्युतः ॥ ३३ ॥

कर्ताकारयिताऽकार्यं कारणं प्रकृतिः कृतिः ।
क्षयक्षयमनामार्थो विष्णुर्जिष्णुर्जगन्मयः ॥ ३४ ॥

सङ्कुचन्विकचन्स्थाणुनिर्विकारो निरामयः ।
शुद्धो बुद्धः प्रबुद्धश्च स्निग्धो मुग्धस्समुद्धतः ॥ ३५ ॥

सङ्कल्पदो बहुभवत्सर्वात्मा सर्वनामभृत् ।
सहस्रशीर्षस्सर्वज्ञस्सहस्राक्षस्सहस्रपात् ॥ ३६ ॥

व्यक्तोविराट्स्वराट्सम्राड्विष्वग्रूपवपुर्विधुः ।
मायावी परमानन्दो मान्यो मायातिगो महान् ॥ ३७ ॥

वटपत्रशयो बालो ललन्नाम्नायसूचकः ।
मुखन्यस्तकरग्रस्तपादाग्रपटलः प्रभुः ॥ ३८ ॥

नैद्रीहासाश्वसम्भूतज्ञाज्ञसात्विकतामसः ।
महार्णवाम्बुपर्यङ्कः पद्मनाभः परात्परः ॥ ३९ ॥

ब्रह्मभूर्ब्रह्मभयहृद्धरिरोमुपदेशकृत् ।
मधुकैटभनिर्माता मत्तब्रह्ममदापहः ॥ ४० ॥

वेधोविलासवागानिर्दयासारो मृषार्थदः ।
नारायणास्त्रनिर्मातामधुकैटभमर्दनः ॥ ४१ ॥

वेदकर्ता वेदभर्ता वेदहर्ता विदांवरः ।
पुङ्खानुपुङ्खहेषाढ्यः पूर्णषाड्गुण्यविग्रहः ॥ ४२ ॥

लालामृतकणव्याजवान्तनिर्दोषवर्णकः ।
उल्लोलस्वानधीरोद्यदुच्चैर्हलहलध्वनिः ॥ ४३ ॥

कर्णादारभ्य कल्क्यात्मा कविः क्षीरार्णवोपमः ।
शङ्ख चक्रगदी खड्गी शार्ङ्गी निर्भयमुद्रकः ॥ ४४ ॥

चिन्मुद्राचिह्नितो हस्ततलविन्यस्तपुस्तकः ।
विद्यानाम्नीं श्रियं शिष्यां वेदयन्निजवैभवम् ॥ ४५ ॥

अष्टार्ण्यम्योऽष्टभुजोव्यष्टिसृष्टिकरः पिता ।
अष्टैश्वर्यप्रदोहृष्यदष्टमूर्तिपितृस्तुतः ॥ ४६ ॥

अनीतवेदपुरुषो विधिवेदोपदेशकृत् ।
वेदवेदाङ्गवेदान्तपुराणस्मृतिमूर्तिमान् ॥ ४७ ॥

सर्वकर्मसमाराध्यस्सर्ववेदमयो विभुः ।
सर्वार्थतत्त्वव्याख्याता चतुष्षष्टिकलाधिपः ॥ ४८ ॥

शुभयुक्सुमुखश्शुद्धस्सुरूपस्सुगतस्सुधीः ।
सुव्रतिस्संहृतिश्शूरस्सुतपाः सुष्टुतिस्सुहृत् ॥ ४९ ॥

सुन्दरस्सुभगस्सौम्यस्सुखदस्सुहृदां प्रियः ।
सुचरित्रस्सुखतरश्शुद्धसत्वप्रदायकः ॥ ५० ॥

रजस्तमोहरो वीरोविश्वरक्षाधुरन्धरः ।
नरनारायणाकृत्या गुरुशिष्यत्वमास्थितः ॥ ५१ ॥

परावरात्मा प्रबलः पावनः पापनाशनः ।
दयाघनः क्षमासारो वात्सल्यैकविभूषणः ॥ ५२ ॥

आदिकूर्मो जगद्भर्ता महापोत्री महीधरः ।
स्तद्भित्स्वामी हरिर्यक्षो हिरण्यरिपुरैच्छिकः ॥ ५३ ॥

प्रह्लादपालकस्सर्वभयहर्ता प्रियंवदः ।
श्रीमुखालोकनस्रंसत्क्रौञ्चकः कुहकाञ्चनः ॥ ५४ ॥

छत्री कमण्डलुधरो वामनो वदतां वरः ।
पिशुनात्मा शनोदृष्टिलोपनो बलिमर्दनः ॥ ५५ ॥

उरुक्तमो बलिशिरोन्यस्ताङ्घ्रिर्बलिमर्दनः ।
जामदग्न्यः परशुभृत्कृत्तक्षत्त्रकुलोत्तमः ॥ ५६ ॥

रामोऽभिरामश्शान्तात्मा हरकोदण्डखण्डनः ।
शरणागतसन्त्राता सर्वायोध्यकमुक्तिदः ॥ ५७ ॥

सङ्कर्षणोमदोदग्रो बलवान्मुसलायुधः ।
कृष्णाक्लेशहरः कृष्णो महाव्यसनशान्तिदः ॥ ५८ ॥

अङ्गारितोत्तरागर्भप्राणदः पार्थसारथिः ।
गीताचार्यो धराभारहारी षट्पुरमर्दनः ॥ ५९ ॥

कल्की विष्णुयशस्सूनुः कलिकालुष्यनाशनः ।
साधुदुष्कृत्परित्राणविनाशविहितोदयः ॥ ६० ॥

वैकुण्ठे परमे तिष्ठन् सुकुमारयुवाकृतिः ।
विश्वोदयस्थितिध्वंससङ्कल्पेन स्वयं प्रभुः ॥ ६१ ॥

मदनानां च मदनो मणिकोटीरमानितः ।
मन्दारमालिकापीडो मणिकुण्डलमण्डितः ॥ ६२ ॥

सुस्निग्धनीलकुटिलकुन्तलः कोमलाकृतिः ।
सुललाटस्स्तुतिलकस्सुभ्रूकस्सुकपोलकः ॥ ६३ ॥

सिद्धासदसदालोकसुधास्यन्दीरदच्छदः ।
तारकाकोरकाकारविनिर्मितरदच्छदः ॥ ६४ ॥

सुधावर्तिपरिस्फूर्तिशोभमानरदच्छदः ।
विष्टब्धोविपुलग्रीवोनिभृतोच्चैश्श्रवस्थितिः ॥ ६५ ॥

समावृत्तावदातोरुमुक्ताप्रालम्बभूषणः ।
रत्नाङ्गदी वज्रनिष्की नीलरत्नाङ्ककङ्कणः ॥ ६६ ॥

हरिन्मणिगणाबद्धश‍ृङ्खलाकङ्कणोर्मिकः ।
सितोपवीतसंश्लिष्यत्पद्माक्षमणिमालिकः ॥ ६७ ॥

श्रीचूर्णवद्द्वादशोर्ध्वपुण्ड्ररेखापरिष्कृतः ।
पट्टतन्तुग्रथनवत्पवित्रनरशोभितः ॥ ६८ ॥

पीनवक्षामहास्कन्धो विपुलोरुकटीतटः ।
कौस्तुभी वनमाली च कान्त्याचन्द्रायुतोपमः ॥ ६९ ॥

मन्दारमालिकामोदी मञ्जुवागमलच्छविः ।
दिव्यगन्धो दिव्यरसो दिव्यतेजा दिवस्पतिः ॥ ७० ॥

वाचालो वाक्पतिर्वक्ता व्याख्याता वादिनां प्रियः ।
भक्तहृन्मधुरो वादिजिह्वाभद्राननस्थितिः ॥ ७१ ॥

स्मृतिसन्निहितस्स्निग्धस्सिद्धिदसिद्धिसन्नुतः ।
मूलकन्दोमुकुन्दोग्लौस्स्वयम्भूशम्भुरैन्दवः ॥ ७२ ॥

इष्टो मनुर्यमः कालकाल्यः कम्बुकलानिधिः ।
कल्यः कामयिता भीमः कातर्यहरणः कृतिः ॥ ७३ ॥

सम्प्रियः पक्कणस्तर्कचर्चानिर्धारणादयः ।
व्यतिरेको विवेकश्च प्रवेकः प्रक्रमः क्रमः ॥ ७४ ॥

प्रमाण प्रतिभूः प्राज्ञः प्रज्ञापत्थ्याचधारणः ।
विधिर्विधाता व्यवधिरुद्भवः प्रभवस्थितिः ॥ ७५ ॥

विषयस्संशयः पूर्वः पक्षः कक्ष्योपपादकः ।
राद्धान्तो विहितो न्यायफलनिष्पत्तिरुद्भवः ॥ ७६ ॥

नानारूपाणि तन्त्राणि व्यवहार्यो व्यवस्थितिः ।
सर्वसाधारणो देवस्साध्वसाधुहिते रतः ॥ ७७ ॥

सन्धा सनातनो धर्मो धर्मैरर्च्या महात्मभिः ।
छन्दोमयस्त्रिधामात्मा स्वच्छन्दश्छान्दसेडितः ॥ ७८ ॥

यज्ञो यज्ञात्मको यष्टा यज्ञाङ्गोऽपघनोहविः ।
समिदाज्यं पुरोडाशश्शाला स्थाली स्रुवस्स्रुचा ॥ ७९ ॥

प्राग्वंशो देवयजनः परिधिश्च परिस्तरः ।
वेदिर्विहरणं त्रेता पशुः पाशश्च संस्कृतिः ॥ ८० ॥

विधिर्मन्त्रोऽर्थवादश्च द्रव्यमङ्गं च दैवतम् ।
स्तोत्रं शस्त्रं साम गीतिरुद्गीथस्सर्वसाधनम् ॥ ८१ ॥

याज्या पुरोनुकाव्या च सामिधेनी समूहनम् ।
प्रयोक्तारः प्रयोगश्च प्रपञ्चः प्राशुभा श्रमः ॥ ८२ ॥

श्रद्धा प्रध्वंसना तुष्टिः पुष्टिः पुण्यं प्रतिर्भवः ।
सदस्सदस्यसम्पातः प्रश्नः प्रतिवचस्थितिः ॥ ८३ ॥

प्रायश्चित्तं परिष्कारो धृतिर्निर्वहणं फलम् ।
नियोगो भावना भाव्यं हिरण्यं दक्षिणा नुतिः ॥ ८४ ॥

आशीरभ्युपपत्तिश्च तृप्तिस्स्वं शर्म केवलम ।
पुण्यक्षयः पुनः पातभयं शिक्षाशुगर्दनः ॥ ८५ ॥

कार्पण्यं यातनां चिन्ता निर्वेदश्च विहस्तता ।
देहभृत्कर्मसम्पातः किञ्चित्कर्मानुकूलकः ॥ ८६ ॥

अहेतुकतया प्रेम साम्मुख्यं चाप्यनुग्रहः ।
शुचिश्श्रीमत्कुलजनो नेता सत्त्वाभिमानवान् ॥ ८७ ॥

अन्तरायहरः पित्रोरदुष्टाहारदायकः ।
शुद्धाहारानुरूपाङ्गपरिणामविधायकः ॥ ८८ ॥

स्रावपातादिविपदां परिहर्ता परायणः ।
शिरःपाण्यादिसन्धाता क्षेमकृत्प्राणदः प्रभु ॥ ८९ ॥

अनिर्घृणश्चाविषमश्शक्तित्रितयदायकः ।
स्वेच्छाप्रसङ्गसम्पत्तिव्याजहर्षविशेषवान् ॥ ९० ॥

संवित्सन्धायकस्सर्वजन्मक्लेशस्मृतिप्रदः ।
विवकेशोकवैराग्यभवभीतिविधायकः ॥ ९१ ॥

गर्भस्याप्यनुकूलादिनासान्ताध्यवसायदः ।
शुभवैजननोपेतसदनेहोजनिप्रदः ॥ ९२ ॥

उत्तमायुःप्रदो ब्रह्मनिष्ठानुग्रहकारकः ।
स्वदासजननिस्तीर्णतद्वंशजपरम्परः ॥ ९३ ॥

श्रीवैष्णवोत्पादकृतस्वस्तिकावनिमण्डलः ।
अधर्वणोक्तैकशतमृत्युदूरक्रियापरः ॥ ९४ ॥

दयाद्यष्टगुणाधाता तत्तत्संस्कृतिसाधकः ।
मेधाविधाता श्रद्धाकृत् सौस्थ्यदो जामिताहरः ॥ ९५ ॥

विघ्ननुद्विजयी धाता देशकालानुकूल्यकृत् ।
विनेता सत्पथानेता दोषहृच्छुभदस्सखा ॥ ९६ ॥

ह्रीदो भीदो रुचिकरो विश्वो विश्वहिते रतः ।
प्रमादहृत्प्राप्तकारी प्रद्युम्नो बलवत्तरः ॥ ९७ ॥

साङ्गवेदसमायोक्ता सर्वशास्त्रार्थवित्तिदः ।
ब्रह्मचर्यान्तरायघ्नः प्रियकृद्धितकृत्परः ॥ ९८ ॥

चित्तशुद्धिप्रदश्छिन्नाक्षचापल्यः क्षमावहः ।
इन्द्रियार्थारतिच्छेत्ता विद्यैकव्यसनावहः ॥ ९९ ॥

आत्मानुकूल्यरुचिकृदखिलार्तिविनाशकः ।
तितीर्षुहृत्त्वरावेदी गुरुसद्भक्तितेजसः ॥ १०० ॥

गुरुसम्बन्धघटको गुरुविश्वासवर्धनः ।
गुरूपासनसन्धाता गुरुप्रेमप्रवर्धनः ॥ १०१ ॥

आचार्याभिमतैर्योक्ता पञ्चसंस्कृतिभावनः ।
गुरूक्तवृत्तिनैश्चल्यसन्धाताऽवहितस्थितिः ॥ १०२ ॥

आपन्नाखिलरक्षार्थमाचार्यकमुपाश्रितः ।
शास्त्रपाणिप्रदानेन भवमग्नान्समुद्धरन् ॥ १०३ ॥

पाञ्चकालिकधर्मेषु नैश्चल्यं प्रतिपादयन् ।
स्वदासाराधनाद्यर्थशुद्धद्रव्यप्रदायकः ॥ १०४ ॥

न्यासविद्याविनिर्वोढा न्यस्तात्मभररक्षकः ।
स्वकैङ्कर्यैकरुचिदस्स्वदास्यप्रेमवर्धनः ॥ १०५ ॥

आचार्यार्थाखिलद्रव्यसम्भृत्यर्पणरोचकः ।
आचार्यस्य स्वसच्छिष्योज्जीवनैकरुचिप्रदः ॥ १०६ ॥

आगत्ययोजयनासहितैककृतिजागरः ।
ब्रह्मविद्यासमास्वादसुहितः कृतिसंस्कृतिः ॥ १०७ ॥

सत्कारे विषधीदाता तरुण्यां शवबुद्धिदः ।
सभाम्प्रत्याययन्व्यालीं सर्वत्र समबुद्धिदः ॥ १०८ ॥

सम्भाविताशेषदोषहृत्पुनर्न्यासरोचकः ।
महाविश्वाससन्धाता स्थैर्यदाता मदापहः ॥ १०९ ॥

नादव्याख्यास्वसिद्धान्तरक्षाहेतुस्वमन्त्रदः ।
स्वमन्त्रजपसंसिद्धिजङ्घालकवितोदयः ॥ ११० ॥

अदुष्टगुणवत्काव्यबन्धव्यामुग्धचेतनः ।
व्यङ्ग्यप्रधानरसवद्गद्यपद्यादिनिर्मितिः ॥ १११ ॥

स्वभक्तस्तुतिसन्तुष्टो भूयोभक्तिप्रदायकः ।
सात्विकत्यागसम्पन्नसत्कर्मकृदतिप्रियः ॥ ११२ ॥

निरन्तरानुस्मरणनिजदासैवादास्यकृत् ।
निष्कामवत्सलो नैच्यभावनेषु विनिर्विशन् ॥ ११३ ॥

सर्वभूतभवद्भावं सम्पश्यत्सुसदास्थितः ।
करणत्रयसारूप्यकल्याणपतिसादरः ॥ ११४ ॥

कदा कदेति कैङ्कर्यकामिनां शेषिताम्भजन ।
परव्यूहादिनिर्दोषशुभाश्रयपरिग्रहः ॥ ११५ ॥

चन्द्रमण्डलमध्यस्य श्वेताम्भोरुहविष्टरः ।
ज्योत्स्नायमानाङ्गरुचिनिर्धूतान्तर्बहिस्तमाः ॥ ११६ ॥

भाव्यो भावयिता भद्रं पारिजातवनालयः ।
क्षीराब्धिमध्यमद्वीपपालकः प्रपितामहः ॥ ११७ ॥

निरन्तरनमोवाकशुद्धयाजिहदाश्रयः ।
मुक्तिदश्वेतमृद्रूपश्वेतद्वीपविभावनः ॥ ११८ ॥

गरुडाहारितश्वेतमृत्पूतयदुभूधरः ।
भद्राश्ववर्षनिलयो भयहारी शुभाश्रयः ॥ ११९ ॥

भद्रश्रीवत्सहाराढ्यः पञ्चरात्रप्रवर्तकः ।
भक्तात्मभावभवनो हार्दोऽङ्गुष्ठप्रमाणवान् ॥ १२० ॥

स्वदाससत्कृताकृत्ये तन्मित्रारिषु योजयन् ।
प्राणानुत्क्रामयन्नूरीकृतप्रारब्धलोपनः ॥ १२१ ॥

लध्व्यैव शिक्षयापापमशेषमपि निर्णुदन् ।
त्रिस्थूणक्षोभतो भूतसूक्ष्म्यैस्सूक्ष्मवपुस्सृजन् ॥ १२२ ॥

निरङ्कुशकृपापूरो नित्यकल्याणकारकः ।
मूर्धन्यनाड्या स्वान्दासान्ब्रह्मरन्ध्रादुदञ्चयन् ॥ १२३ ॥

उपासनपरान्सर्वान् प्रारब्धमनुभावयन् ।
सर्वप्रारब्धदेहान्तेऽप्यन्तिमस्मरणं दिशन् ॥ १२४ ॥

प्रपेयुषां भेजुषां च यमदृष्टिमभावयन् ।
दिव्यदेहप्रदस्सूर्यं द्वारयन्मोक्षमेयुषाम् ॥ १२५ ॥

आतिवाहिकसत्कारानध्वन्यापाद्य मानयन् ।
सार्वान्क्रतुभुजश्शश्वत्प्राभृतानि प्रदापयन् ॥ १२६ ॥

दुरन्तमायाकान्तारं द्रुतं योगेन् लङ्घयन् ।
स्फायत्सुदर्शविविधवीथ्यन्तेनाध्वना नयन् ॥ १२७ ॥

सीमान्तसिन्धुविरजां योगेनोत्तारयन्वशी ।
अमानवस्य देवस्य करं शिरसि धारयन् ॥ १२८ ॥

अनादिवासनां धून्वन् वैकुण्ठाप्त्या सलोकयन् ।
अहेयमङ्गलोदारतनुदानात्सरूपयन ॥ १२९ ॥

सूरिजुष्टं सुखैकान्तं परमं पदमापयन् ।
अरारण्यामृताम्भोधी दर्शयन् श्रमनाशनः ॥ १३० ॥

दिव्योद्यानसरोवापीसरिन्मणिनगान्नयन ।
ऐरम्मदामृतसरोगमयन्सूपबृंहणः ॥ १३१ ॥

अश्वत्थं सोमसवनं प्रापयन्विष्टरश्रवाः ।
दिव्याप्सरस्समानीतब्रह्मालङ्कारदायकः ॥ १३२ ॥

दिव्यवासोऽञ्जनक्षौममाल्यैस्स्वान्बहुमानयन् ।
स्वीयामयोध्यां नगरीं सादरं सम्प्रवेशयन् ॥ १३३ ॥

दासान्दिव्यरसालोकगन्धांसलशरीरयन् ।
स्वदासान्सूरिवर्गेण सस्नेहं बहुमानयन् ॥ १३४ ॥

सूरिसेवोदितानन्दनैच्यान्स्वानतिशाययन् ।
वाचयन्स्वां नमोवीप्सां कुर्वन्प्रह्वान्कृताञ्जलीन् ॥ १३५ ॥

प्राकारगोपुरारामप्रासादेभ्यः प्रणामयन् ।
इन्द्रप्रजापतिद्वारपालसम्मानमापयन् ॥ १३६ ॥

मालिकाञ्चन्महाराजवीथीमध्यं निवासयन् ।
श्रीवैकुण्ठपुरन्ध्रीभिर्नानासत्कारकारकः ॥ १३७ ॥

दिव्यं विमानं गमयन् ब्रह्मकान्त्याभिपूरयन् ।
महानन्दात्मकश्रीमन्मणिमण्डपमापयन् ॥ १३८ ॥

हृष्यत्कुमुदचण्डाद्यैर्विष्वक्सेनान्तिकं नयन् ।
सेनेशचोदितास्थाननायको हेतिनायकः ॥ १३९ ॥

प्रापयन्दिव्यमास्थानं वैनतेयं प्रणामयन् ।
श्रीमत्सुन्दरसूरीन्द्रदिव्यपङ्क्तिं प्रणामयन् ॥ १४० ॥

भास्वरासनपर्यङ्कप्रापणेन कृतार्थयन् ।
पर्यङ्कविद्यासंसिद्धसर्ववैभवसङ्गतः ॥ १४१ ॥

स्वात्मानमेव श्रीकान्तं सादरं भूरि दर्शयन् ।
शेषतैकरतिं शेषं शय्यात्मानं प्रणामयन् ॥ १४२ ॥

अनन्ताक्षिद्विसाहस्रसादरालोकपात्रयन् ।
अकुमारयुवाकारं श्रीकान्तं सम्प्रणामयन् ॥ १४३ ॥

अतटानन्दतो हेतो रञ्चयन्किलिकिञ्चितम् ।
दासानत्युत्थितमुहुःकृतिसृष्टिप्रसन्नहृत् ॥ १४४ ॥

श्रीयां प्रापस्वयं तातं जीवं पुत्रं प्रहर्षयन् ।
मज्जयन् स्वमुखाम्भोधौ स्वकां कीर्तिरुचिं दिशन् ॥ १४५ ॥

दयार्द्रगङ्गावलनाकृतह्लादैः कृतार्थयन् ।
पर्यङ्कारोहणप्रह्वं समं लक्ष्म्योपपादयन् ॥ १४६ ॥

कस्त्वमित्यनुयुञ्जानो दासोऽस्मीत्युक्तिविस्मितः ।
अपृथक्त्वप्रकारोऽस्मि वाचास्वाश्रितवद्भवन् ॥ १४७ ॥

विदुषां तत्क्रतुनयाद्धयास्यवपुषाभवन् ।
वासुदेवात्मना भूयो भवन्वैकुण्ठनायकः ॥ १४८ ॥

यथा तथैव स्वं रूपं जगन्मोहनमूर्तिमान् ।
द्विमूर्ती बहुमूर्तीश्च आत्मनश्च प्रकाशयन् ॥ १४९ ॥

युगपत्सकलं साक्षात्स्वतः कर्तुं समर्थयन् ।
कवीनामादिशन्नित्यं मुक्तानामादिमः कविः ॥ १५० ॥

षडर्णमनुनिष्ठानां श्वेतद्वीपस्थितिं दिशन् ।
द्वादशाक्षरनिष्ठानां लोकं सान्तानिकं दिशन् ॥ १५१ ॥

अष्टाक्षरैकनिष्ठानां कार्यं वैकुण्ठमर्पयन् ।
शरणागतिनिष्ठानां साक्षाद्वैकुण्ठमर्पयन् ॥ १५२ ॥

स्वमन्त्रराजनिष्ठानां स्वस्मार्दातेशयं दिशन् ।
श्रिया गाढोपगूढात्मा भूतधात्रीरुचिं दिशन् ॥ १५३ ॥

नीलाविभूतिव्यामुग्धो महाश्वेताश्वमस्तकः ।
त्र्यक्षस्त्रिपुरसंहारी रुद्रस्स्कन्दो विनायकः ॥ १५४ ॥

अजो विरिञ्चो द्रुहिणो व्याप्तमूर्तिरमूर्तिकः ।
असङ्गोऽनन्यधीसङ्गविहङ्गोवैरिभङ्गदः ॥ १५५ ॥

स्वामी स्वं स्वेन सन्तुप्यन् शक्रस्सर्वाधिकस्यदः ।
स्वयंज्योतिस्स्वयंवैद्यश्शूरश्शूरकुलोद्भवः ॥ १५६ ॥

वासवो वसुरण्योग्निर्वासुदेवस्सुहृद्वसुः ।
भूतो भावी भवन्भव्यो विष्णुस्थानस्सनातनः ॥ १५७ ॥

नित्यानुभावो नेदीयान्दवीयान्दुर्विभावनः ।
सनत्कुमारस्सन्धाता सुगन्धिस्सुखदर्शनः ॥ १५८ ॥

तीर्थं तितिक्षुस्तीर्थाङ्घ्रिस्तीर्थस्वादुशुभश्शुचिः ।
तीर्थवद्दीधितिस्तिग्मतेजास्तीव्रमनामयः ॥ १५९ ॥

ईशाद्युपनिषद्वेद्यः पञ्चोपनिषदात्मकः ।
ईडन्तःस्थोऽपि दूरस्थः कल्याणतमरूपवान् ॥ १६० ॥

प्राणानां प्राणनः पूर्णज्ञानैरपि सुदुर्ग्रहः ।
नाचिकेतोपासनार्च्यस्त्रिमात्रप्रणवोदितः ॥ १६१ ॥

भूतयोनिश्च सर्वज्ञोऽक्षरोऽक्षरपरात्परः ।
अकारादिपदज्ञेयव्यूहतारार्थपूरुषः ॥ १६२ ॥

मनोमयामृतो नन्दमयो दहररूपदृत् ।
न्यासविद्यावेद्यरूपः आदित्यान्तर्हिरण्मयः ॥ १६३ ॥

इदन्द्र आत्मोद्गीथादि प्रतीको पासनान्वयी ।
मधुविद्योपासनीयो गायत्रीध्यानगोचरः ॥ १६४ ॥

दिव्यकौक्षेयसज्ज्योतिः शाण्डिल्योपास्तिवीक्षितः ।
संवर्गविद्यावेद्यात्मा तत् षोडशकलं परम् ॥ १६५ ॥

उपकोसलविद्येक्ष्यः पञ्चाग्न्यात्मशरीरकः ।
वैश्वानरः सदखेभूमा च जगत्कर्माऽऽदिपूरुषः ॥ १६६ ॥

मूर्तामूर्तब्रह्म सर्वप्रेष्ठोऽन्यप्रियताकरः ।
सर्वान्तरश्चापरोक्षश्चान्तर्याम्यमृतोऽनघः ॥ १६७ ॥

अहर्नामादित्यरूपश्चाहन्नामाक्षिसंश्रितः ।
सतुर्यगायत्र्यर्थश्च यथोपास्त्याप्यसद्वपुः ॥ १६८ ॥

चन्द्रादिसायुज्यपूर्वमोक्षदन्यासगोचरः ।
न्यासनाश्यानभ्युपेतप्रारब्धांशो महादयः ॥ १६९ ॥

अवताररहस्यादिज्ञानिप्रारब्धनाशनः ।
स्वेन स्वार्थं परेणापि कृते न्यासे फलप्रदः ॥ १७० ॥

असाहसोऽनपायश्रीस्सहायस्स श्रियै वसन् ।
श्रीमान्नारायणो वासुदेवोऽव्याद्विष्णुरुत्तमः ॥ १७१ ॥

॥ ॐ ॥

इतीदं परमं गुह्यं सर्वपापप्रणाशनम् ।
वागीशनामसाहस्रं वत्स तेऽभिहितं मया ॥ १ ॥

य इदं श‍ृणुयाद्भक्त्या श्रावयेद्वा स्वयं पठत् ।
नासौ प्राप्नोति दुरितमिहामुत्र च किञ्चन ॥ २ ॥

तदिदं प्रजपन् स्वामी विद्याधीशो हयाननः ।
क्षत्रियश्चेन्महारुद्रो विक्रमाक्रान्तसर्वभूः ॥ ३ ॥

महोदारो महाकीर्तिर्महितो विजयी भवेत् ।
ऊरुजश्चेदुरुयशोधनधान्यसमृद्धिमान् ॥ ४ ॥

अशेषभोगसम्भूतो धनाधिपसमो भवेत् ।
श‍ृणुयादेव वृषलस्स्वयं विप्रात्सुपूजितात् ॥ ५ ॥

महिमानमवाप्नोति महितैश्वर्यभाजनम् ।
श्रीमतो हयशीर्षस्य नाम्नां साहस्रमुत्तमम् ॥ ६ ॥

श‍ृण्वन्पठन्नपि नरस्सर्वान्कामानवाप्नुयात् ।
धर्मार्थकामसन्तानभाग्यारोग्योत्तमायुषाम् ॥ ७ ॥

प्रापणे परमो हेतुः स्तवराजोऽयमद्भुतः ।
हयग्रीवे परा भक्तिमुद्वहन् य इमं पठेत् ॥ ८ ॥

त्रिसन्ध्यं नियतश्शुद्धस्सोऽपवर्गाय कल्पते ।
त्रिः पठन्नामसाहस्रं प्रत्यहं वागधीशितुः ॥ ९ ॥

महतीं कीर्तिमाप्नोति निस्सीमां प्रेयसीं प्रियाम् ।
वीर्यं बलं पतित्वं च मेधाश्रद्धावलोन्नतीः ॥ १० ॥

सारस्वतसमृद्धिं च भव्यान्भोग्यान्नतान्सुतान् ।
अभिरूपां वधूं साध्वीं सुहृदश्च हितैषिणः ॥ ११ ॥

ब्रह्मविद्याप्रवचनैः कालक्षेपं च सन्ततम् ।
हयग्रीवपदाम्भोज सलिलस्यानुकूलतः ॥ १२ ॥

लभेत निर्मलं शान्तो हंसोपासनतत्परः ।
श्रीमत्परमहंसस्य चित्तोल्लासनसद्विधौ ॥ १३ ॥

इदं तु नाम्नां साहस्रमिष्टसाधनमुत्तमम् ।
पापी पापाद्विमुक्तस्स्याद्रोगी रोगाद्विमुच्यते ॥ १४ ॥

बद्धो बन्धाद्विमुच्येत भीते भीतिर्विमुच्यते ।
मुक्तो दरिद्रो दारिद्र्याद्भवेत्पूर्णमनोरथः ॥ १५ ॥

आपन्न आपदा मुक्तो भवत्येव न संशयः ।
हंसार्चनपरो नित्यं हंसार्चनपरायणः ॥ १६ ॥

निर्धूतकल्मषो नित्यं ब्रह्मसायुज्यमाप्नुयात् ।
ये भक्त्या परमे हंसे श्रिया मिथुनिताङ्गिते ॥ १७ ॥

जन्मव्याधिजरानाशभयभाजो न ते जनाः ।
आचार्यात्तदिदं स्तोत्रमधिगत्य पठेन्नरः ॥ १८ ॥

तस्येदं कल्पते सिद्ध्यै नान्यथा वत्स काश्यप ।
आचार्यं लक्षणैर्युक्तमन्यं वाऽऽत्मविदुत्तमम् ॥ १९ ॥

वृत्वाचार्यं सदा भक्त्या सिद्ध्यै तदिदमश्नुयात् ।
स याति परमां विद्यां शकुनिब्रह्महर्षणीम् ॥ २० ॥

हयास्यनामसाहस्रस्तुतिरंहोविनाशिनी ।
परमो हंस एवादौ प्रणवं ब्रह्मणे दिशत् ॥ २१ ॥

उपादिशत्ततो वेदान् श्रीमान हयशिरो हरिः ।
तेनासौ स्तवराजो हि हंसाख्यहयगोचरः ॥ २२ ॥

विद्यासाम्राज्यसम्पत्तिमोक्षैकफलसाधनम् ।
सर्ववित्स्वात्मभावेन परमं पदमाप्नुयात् ॥ २३ ॥

न तत्र संशयः कश्चिन्निपुणं परिपश्यति ।
तथापि स्वात्मनि प्रेमसिन्धुसन्धुक्षणक्षमः। ॥ २४ ॥

इतीदं नामसाहस्रं सङ्गृहीतं तथोत्तरम् ।
एवं सङ्गृह्य देवेन हयग्रीवेण पालनम् ॥ २५ ॥

स्तोत्ररत्नमिदं दत्तं मह्यं तत् कथितं तव ।
हंसनामसहस्रस्य वैभवं परमाद्भुतम् ॥ २६ ॥

वक्तुं यथावत्कश्शक्तो वर्षकोटिशतैरपि ।
हयास्यः परमो हंसो हरिर्नारायणोऽव्ययः ॥ २७ ॥

कारणं शरणं मृत्युरमृतं चाखिलात्मनाम् ।
सत्यं सत्यं पुनस्सत्यं ध्येयो नारायणो हरिः ॥ २८ ॥

समानमधिकं वेदान्न दैवं केशवात्परम् ।
तत्त्वं विज्ञातुकामानां प्रमाणैस्सर्वतोमुखैः ॥ २९ ॥

तत्त्वं स परमो हंस एक एव जनार्दनः ।
इदं रहस्यं परमं महापातकनाशनम् ॥ ३० ॥

न चाशुश्रूषवे वाच्यं नाभक्ताय कदाचन ।
नाप्यन्यदेवतायापि न वाच्यं नास्तिकाय च ॥ ३१ ॥

अधीत्यैतद्गुरुमुखादन्वहं यः पठेन्नरः ।
तद्वंश्या अपि सर्वे स्युस्सम्पत्सारस्वतोन्नताः ॥ ३२ ॥

इति हयवदनाननारविन्दान्मधुलहरीव निरर्गला गलन्ती ।
जगति दशशतीतदीयनाम्नां जयति जडानपि गीर्षु योजयन्ती ॥ ३३ ॥

॥ इति श्रीहयग्रीवसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Hayagriva:

1000 Names of Hayagriva | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Hayagriva | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top